________________
समयप्रामृतं। आत्मख्याति:- यथोक्तवस्तुस्वभावं जानन् ज्ञानी शुद्धस्वभावादेव न प्रध्यवते, ततो रागद्वेषमोहादिभावैः स्वयं न परिणमते न परेणापि परिणम्यते, ततष्टंकोल्कीणकनायकस्वभावो ज्ञानी रागद्वेषमोहादिभावानामकतैवेति नियमः।
इति वस्तुस्वभावं स्वं नाज्ञानी वेत्ति तेन सः ।
रागादीनात्मनः कुर्यादतो भवति कारकः ॥ १७१ ॥ रागाह्मय दोसहिय कसायकम्मेसु चेव जे भावा । तेहिं दु परिणममाणो रायादी बंधदि पुणोवि ॥३०९॥
रागे दोषे च कषायकर्मसु चैव ये भावाः।
तैस्तु परिणममानो रागादीन् बध्नाति पुनरपि ॥३०९॥ . तात्पर्यवृत्तिः-रागप्रिय दोसह्मिय कसायकम्मसु चेव जे भावा रायद्वेषकषायरूपे द्रव्यकर्मण्युदयागते सति स्वस्थभावच्युतस्य तदुदयनिमित्तन ये जीवगतरागादिभावाः परिणामा भवंति । हिंदु परिणममाणो रागादी बंधदि पुणोवि तैः कृत्वा रागादिरहमित्यभेदेनाहमिति प्रत्ययेन कृत्वा परिणमन् सन् पुनरपि भाविरागादिपरिणामोत्पादकानि द्रव्यकर्माणि बध्नाति ततस्तेषां रागादीनामज्ञानी जीवः कर्ता भवतीति । तमेवार्थ दृढयति
आत्मख्यातिः-यथोक्तं. वस्तुस्वभावमाजानंस्त्वज्ञानी शुद्धस्वभावादासंसारं प्रच्युत एव । ततः कर्मविपाकप्रभवैरागद्वेषमोहादिभावैः परिणममानोऽज्ञानी रागद्वेषमोहादिभावानां कर्ता भवन् बध्यत एवेति प्रतिनियमः । ततः स्थितमतत्
रागझिय दोसझिय कसायकम्मेसु चेव जे भावा । ते मम दु परिणमंतो रागादी बंधदे चेदा ॥३१॥
रागे च दोषे च कषायकर्मसु चैव ये भावाः।।
तन्मम तु परिणममानो रागादीन् बध्नाति चेतयिता ॥३१०॥ तात्पर्यवृत्ति:--पूर्वगाथायामहं रागादील्यभेदन परिणमन् सन् तानि रागादिभावोत्पादकानि नवतरद्रव्यकर्माणि बध्नातीत्युक्तं । अत्र तु शुद्धात्मभावनारहितत्वेन मदीयो रागः इति संबंधन परिणमन् सन् तानि नवतरद्रव्यकर्माणि बध्नाति, इति विशेषः । किं च विस्तरः-यत्र मोहरागद्वेषा व्याख्यायते तत्र मोहशब्देन दर्शनमोहः; मिथ्यात्वादिजनक इति ज्ञातव्यं । रागद्वेषशद्धेन तु क्रोधादिकषायोत्पादकश्चरित्रमोहो ज्ञातव्यः । अत्राह शिष्यः-मोहशब्देन तु मिथ्यात्वादिजनको दर्शनमाहो भवतु दोषो नास्ति द्वेषशब्देन चारित्रमोह इति कथं भण्यते ! इति पूर्वपक्षे परिहारं ददाति-कषायवेदनीयाभिधानचारित्रमोहमध्ये क्रोधमानौ द्वेषांगौ द्वेषोत्पादकत्वात्, मायालोभी रागांगौ रागजनकत्वात्, नोकषायवेदनीयसंज्ञाचारित्रमोहमध्ये स्त्रीपुन्नपुंसकवेदत्रयहास्यरतयः पंच नोकषायाः रागांगा रागोत्पादकत्वात् इत्यनेनाभिप्रायेण मोहशब्देन दर्शनमोहो मिथ्यात्वं भण्यते रागद्वेषमोहशब्देन पुनश्चारित्रमोह इति सर्वत्र ज्ञातव्यं । एवं कर्मबंधकारणं रागादयः, रागादीनां च कारणं निश्चयेन कर्मोदयो न च ज्ञानी जीव इति व्याख्यानमुख्यत्वेन सप्तमस्थले गाथापंचकं गतं । : अथ कथं सम्यग्ज्ञानी जीवो रागादीनामकारक इति पृष्टे प्रत्युत्तरमाह
पविनियम इत्यपि पाठांतरं । २ मामख्याती तु तेहिं दु परिणममाणो इत्येव पाठः ।