________________
१४४
सनातनजेनग्रंथमालायांआत्मख्याति:-य इमे किलाज्ञानिनः पुगलकर्मनिमित्ता रागद्वेषमोहादिपरिणामास्त एव भूयोराग' देषमोहादिपरिणामनिमित्तस्य पुद्गलकर्मणो बंधहेतुरिति । कथमात्मा रागादीनामकारकः ! इति चेत्
अपडिक्कमणं दुविहं अपञ्चक्खाणं तहेव विण्णेयं । एदेणुवदेसेण दु अकारगो वण्णिदो चेदा ॥३१॥ अपडिकमणं दुविहं दव्वे भावे अपच्चखाणंपि। एदेणुवदेसेण दु अकारगो वण्णिदो चेदा ॥३१२॥ जोव ण पञ्चक्खाणं अपडिकमणं च दवभावाणं । कुव्वदि आदा ताव दु कत्ता सो होदि णादव्वं॥३१॥त्रिकलं
अप्रतिक्रमणं द्विविधमप्रत्याख्यानं तथैव विज्ञेयं । एतेनोपदेशेनाकारको वर्णितश्चेतयिता ॥३११॥ अप्रतिक्रमणं द्विविधं द्रव्ये भावे तथैवापत्याख्यानं । ऐतेनोपदेशेनाकारको वर्णितश्चेतयिता ॥३१२॥ यावन प्रत्याख्यानमप्रतिक्रमणं च द्रव्य भावयोः।
करोत्यात्मा तावत्तु कर्ता स भवति ज्ञातव्यः ॥३१॥ तात्पर्यवृत्तिः- अपडिकमणं दुविहं अपञ्चक्खाणं तहेव विष्णेयं पूर्वानुभूतविषयानुभवरागादिस्मरणरूपमप्रतिक्रमणं द्विविधं, भाविरागादिविषयाकांक्षारूपमप्रत्याख्यानमपि तथैव विविध एदेणुघदेसेण दु अकारगो वण्णिदो चेदा एतेनोपदेशेन परमागमेन ज्ञायत किं ज्ञायते ! चेतयितात्मा हि द्विप्रकाराप्रतिक्रमणेन द्विप्रकाराप्रत्याख्यानेन च रहितत्वात् कर्मणामकर्ता भवतीति । अपटिकमणं दुवि
दव्वे भावे अपञ्चखाणंपि द्रव्यभावरूपेण प्रतिक्रमणं प्रत्याख्यानं च द्विविधं भवति एदेणुब. देसेणदु अकारगो बण्णिदो चेदा तदेव बंधकारणमित्युपदेश आगमः तेनोपदेशेन ज्ञायते, किं ज्ञायते ! द्रव्यभावरूपेणाप्रत्याख्यानेनाप्रतिक्रमणेन च परिणतः शुद्धात्मभावनाच्युतो योऽसावज्ञानी जीवः स कर्मणां कारकः । तद्विपरीतोऽज्ञानी चेतयिता पुनरकारक इति। तमेवार्थ दृढयति-जाव ण पञ्चक्खाणं यावत्कालं द्रव्यभावरूपं, निर्विकारस्वसंवित्तिलक्षणं प्रत्याख्यानं नास्ति अपडिक्कमणं तु दवभावाणं कुचदि यावत्कालं द्रव्यभावरूपमप्रतिक्रमणं च करोति आदा तावदु कत्ता सो होदि णादवो तावत्कालं परमसमाधेरभावात स चाज्ञानी जीवः कर्मणां कारको भवतीति ज्ञातव्यः । किं चाप्रतिक्रमणमप्रत्याख्यानं च कर्मणां कर्तृ, न च ज्ञानी जीवः । यदि स एव कर्ता भवति ! तदा सर्वदैव कर्तृत्वमेव । कस्मात् ! इति चेत् जविस्य सदैव विद्यमानत्वात् इति । अप्रतिक्रमणमप्रत्याख्यानं पुनरनित्यं रागादिविकल्परूपं, तच्च स्वस्थभावच्युतानां भवति न सर्वदैव । तेन किं सिद्धं ! यदा स्वस्थभावच्युतः सन् अप्रतिक्रमणाप्रत्याख्यानाभ्यां परिणमति तदा कर्मणां कारको भवति । स्वस्थभावे पुनरकारकः इति भावार्थः । एवमज्ञानिजीवपरिणतिरूपमप्रतिक्रमणमत्याख्यानं च बंधकारणं नच ज्ञानी जीवः इति व्याख्यानमुख्यत्वेनाष्टमस्थले गाथात्रयं गतं । ... अथ निर्विकल्पसमाधिरूपनिश्चयप्रतिक्रमणनिश्चयप्रत्याख्यानरहितानां जीवानां योऽसौ बंधो भणितः
१ आत्मस्बातो जावं अपाडकमण अपचक्खंणि च दन्वभावाणं, इति पाठः ।