________________
समयप्राभूतं । ..
१४९ स च हेयस्याशेषस्य नारकादिदुःखस्य कारणत्वाद्धेयः । तस्य बंधस्य विनाशार्थ विशेषभावनामाहः
सहजशुद्धज्ञानानंदैकस्वभावोऽहं, निर्विकल्पोहं, उदीसीनोह, निरंजननिजशुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजानंदरूपसुखानुभूतिमात्रलक्षणेन स्वसंवेदनज्ञानेन संवेद्यो गम्यः प्राप्यः, भरितावस्थोऽहं, राग-द्वेष-मोह-क्रोध-मान-माया-लोभ-पंचेंद्रियविषयव्यापार, मनोवचनकायव्यापार-भावकर्म-द्रव्यकर्म-नोकर्म-ख्याति-पूजा-लाभ-दृष्टश्रुतानुभूतभोगाकांक्षांरूपनिदानमायामिथ्याशल्पत्रयादिसर्वविभावपरिणामरहितः शून्योऽहं, जगत्रये कालत्रयेपि मनोवचनकायैः कृतकारितानुमतैश्च शुद्धनिश्चयेन, तथा सर्वे जीवाः इति निरंतरं भावना कर्तव्या। । इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ पूर्वोक्तक्रमेण जहणाम कोवि पुरिसो इत्यादि मिध्यादृष्टिसदृष्टिव्याख्यानरूपेण गाथादशकं । निश्चयहिंसाकथनरूपेण गाथासप्तकं, निश्चयेन रागादिविकल्प एव हिंसेति कथनरूषेण सूत्रषट्कं, अव्रतव्रतानि पापपुण्यबंधकारणानीत्यादिकथनेन गाथापंचदश, निश्चयनयेन स्थित्वा व्यवहारस्त्याज्य इति मुख्यत्वेन गाथाषटू, पिंडशुद्धिमुख्यत्वेन सूत्रचतुष्टयं । निश्चयनयेन रागादयः कर्मोदयजनिता इति कथनमुख्यत्वेन सूत्रपंचकं, निश्चयनयेनाप्रतिक्रमणमप्रत्याख्यामं च बंधकारणमिति प्रतिपादनरूपेण गाथात्रयमित्येवं समुदायेन षट्पंचाशद्गाथाभिरष्टभिरंतराधिकारैः, अष्टमो बंधाधिकारः समाप्तः।।
आवख्याति-आत्मा अनात्मनां रागादीनामकारक एव, अप्रतिक्रमणाप्रत्याख्यानयोद्वैविध्योपदेशान्यथानुपपत्तेः । यः खलु, अप्रतिक्रमणाप्रत्याख्यानयोर्दव्यभावभेदेन द्विविधोपदेशः स द्रव्यभाषयोनिमित्तनैमित्तिकभाब प्रथयनकर्तृत्वमात्मनो ज्ञापयति । तत एतत् स्थितं परद्रव्यं निमित्तं नैमित्तिका आस्मनो रागादिभावाः । यद्येवं नेष्येत तदा द्रव्याप्रतिक्रमणाप्रत्याख्यानयोः कर्तृत्वनिमित्तत्वोपदेशोऽनर्थक एव स्यात् तदनर्थकत्वेत्वेकस्यैवात्मनो रागादिभावनिमित्तत्वापत्तो नित्यकर्तृत्वानुषंगान्मोक्षाभाव: प्रसजेच ततः परद्रव्यमेवात्मनो रागादिभावानिमित्तमस्तु तथा सति तु रागादीनामकारक एवात्मा, तथापि यावनिमित्तभूतं द्रव्यं न प्रतिक्रामति न प्रत्याचष्टे च तावन्नैमित्तिकभूतं भावं न प्रतिक्रामति न प्रत्याचष्टे च यावत्तु भावं न प्रतिक्रामति न प्रत्याचष्टे तावत्कर्तेव स्यात् । यदैव निमित्तभूतं द्रव्यं प्रतिक्रामति प्रत्याचष्टे च तदैव नैमित्तिकभूतं भावं प्रतिक्रामति प्रत्याचष्टे च । यदा तु भावं प्रतिक्रामति प्रत्याचष्टे च तदा साक्षादकतैव स्यात् ।
द्रव्यभावयोनिमित्तनैमित्तिकभावोदाहरणं चैतत् ।
आधाकम्मादीया पुगालदवस्स जे इमे दोसा । कह ते कुव्वदि णाणी परदव्वगुणादु जे णिचं ॥३१॥ आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं ।। कह तं मम होदि कयं जं णिचमचेदणं वुत्तं ॥३१५॥
अधःकर्माद्याः पुद्गलद्रव्यस्य य इमे दोषाः। कथं तत्करोति ज्ञानी परद्रव्यगुणास्तु ये नित्यं ॥३१॥ अधः कोदेशिकं च पुदलमवमिदं द्रव्यं । कथं तम्मम भवति कृतं यानित्यमचेतनमुक्तं ॥३१५॥
१ गाथाद्वयस्यास तात्पर्यवृत्तिः पूर्व निगदिता ।