________________
सनातनजनप्रथमालायाआत्मख्याति- यथाधःकर्मनिष्पन्नमुद्देशनिष्पन्नं च पुद्गलद्रव्यनिमित्तभूतमप्रत्याचक्षाणो नैमिः त्तिकभूतं बंधसाधकं भावं न प्रत्याचष्टे तथा समस्तमपि परद्रव्यमप्रत्याचक्षाणस्तन्निमित्तकं भावं न प्रत्याचष्टे । यथा चाधःकर्मादीन् पुद्गलद्रव्यदोषान्न नाम करोत्यात्मा परद्रव्यपरिणामत्वे सति, आत्मकार्यत्वाभावात् ततोऽधःकर्मोद्देशिकं च पुद्गलद्रव्यं न मम कार्य नित्यमचेतनत्वे सति मत्कार्यत्वाभावात् इति तत्त्वज्ञानपूर्वकं पुद्गलद्रव्यं निमित्तभूतं प्रत्याचक्षाणो नैमित्तिकभूतं बंधसाधकं भावं प्रत्याचष्टे तथा समस्तमपि परद्रव्यं प्रत्याचक्षाणस्तन्निमित्तं भावं प्रत्याचष्टे एवं द्रब्यभावयोरस्ति निमित्तनैमित्तिकभावः । इत्यालोच्य विवेच्य तत्किल परद्रव्यं समग्र वलात्तन्मूलं बहुभावसंततिमिमामुद्धर्तुकामः समं ॥ आत्मानं समुपैति निर्भरवहत्पूर्णैकसंचिद्युतं येनोन्मूलितबंध एष भगवानात्मात्मनि स्फूर्जति ॥१७२॥ रागादीनामुदयमदयं दारयत्कारणानां कार्य बंधं विविधमधुना सद्य एव प्रणुद्य ॥ ज्ञानज्योतिः क्षपिततिमिरं साधु सन्नद्धमेतत्तद्वद्यद्वत्प्रसरमपरः कोऽपि नास्या वृणोति ॥१७॥
- इति बंधो निष्कांतः। इति समयसारव्याख्यायामात्मख्यातौ सप्तमोऽकः ।
तात्पर्यवृत्तिः-तत्रैवं सति पात्रस्थानीयशुद्धात्मनः सकाशात्प्रथग्भूत्वा श्रृंगारस्थानीयबंधो निष्क्रांतः । अथ प्रविशति मोक्ष:--
जहणाम कोवि पुरिसो इत्यादि गाथामादिं कृत्वा यथाक्रमेण द्वाविंशतिगाथापयंत मोक्षपदार्थ प्याख्यानं करोति-तत्रादौ मोक्षपदार्थस्य संक्षपव्याख्यानरूपेण गाथासप्तकं, तदनंतर मोक्षकारणभूतभदविज्ञानसंक्षेपसूचनार्थ बंधाणं च सहावं इत्यादि सूत्रचतुष्टयं अतः परं तस्यैव भेदज्ञानस्य विशेषविवरणार्थ पण्णाए घेत्तव्वो इत्यादि सूत्रपंचकं तदनंतरं वीतरागचारित्रसहितस्य. द्रव्यप्रतिक्रमणादिकं विषकुंभः सरागचारित्रस्यामृतकुंभ इति युक्तिसूचनमुख्यत्वेन ते यादी अवरोहे इत्यादि सूत्रषटुं कथयतीति द्वाविंशतिगाथाभिः स्थलचतुष्टये मोक्षाधिकारे समुदायपातनिका । तद्यथा
विशिष्टभेदज्ञानावष्टंभेन बंधात्मनोः प्रथक्करणं मोक्ष इति प्रतिपादयतिआत्मख्यातिः-अथ प्रविशति मोक्षः । द्विधाकृत्य प्रज्ञाक्रकचदलनाद्वंधपुरुषौ नयन्मोक्षं साक्षात्पुरुषमुपलभैकनियतं । इदानीमुन्मजन् सहजपरमानंदसरसं परं पूर्ण ज्ञानं कृतसकलकृत्यं विजयते ॥१७४॥ जह णाम कोवि पुरिसो वंधणियमि चिरकालपडिवद्धो। तिव्वं मंदसहावं कालं च वियाणदे तस्स ॥३१६॥ जइ णवि कुव्वदि छेदं णे मुंचदि तेण कम्मवंधेण । कालेण वहुएणवि ण सो णरो पावदि विमोक्खं ॥३१॥ इय कम्मवंधणाणं पयेसपयडिहिदीयअणुभागं । जाणंतोवि ण मुंचदि मुंचदि सव्वेज जदि सुद्धो ॥३१॥
यथा नाम कश्चित्पुरुषो बंधनके चिरकालप्रतिबद्धः ।
तीव्र मंदखभावं कालं च विजानाति तस्य ॥३१६॥ १ मुंचए तेण बंधणवसोसं पाठोऽयमात्मख्याती।