________________
समयप्राभृतं ।
यदि नापि करोति छेदं न मुध्यते तेन कर्मबंधेन । कालेन बहुकेनापि न स नरः प्राप्नोति विमोक्षं ॥ ३१७॥ इति कर्मबंधनां प्रदेशस्थितिप्रकृतिमेवमनुभागं । जानन्नपि न मुंचति मुंचति सर्वान् यदिविशुद्धः || ३१८ ॥ तात्यर्पवृत्तिः:- जह णाम इत्यदि यथा कश्चित्पुरुषः बंधन के चिरकालबद्धस्तिष्ठति तस्य बंधस्य सीव्रमंदस्वभावं जानाति दिवसमासादिकालं च विजानाति इति प्रथमगाथा गता । जानन्नपि यदि बंघच्छेदं न करोति तदा न मुच्यते तेन कर्मबंधविशेषेणामुच्यमानः सन् पुरुषो बहुतरकालेऽपि मोक्षं न लभते इति गाथाद्वयेन दृष्टांतोगतः । अथ इय कम्मबंधणाणं पदेसपयडिट्ठिदीय अणुभागं जाणतोविण मुंचदि एवं ज्ञानावरणादिमूलोत्तरप्रकृतिभेदभिन्नकर्मबंधनानां प्रदेशं प्रकृतिस्थिती, अनुभागं च जानान्नति कर्मणा न मुंचति । चदि सब्वे जदि विसुद्धो यदा मिथ्यात्वरागादिरहितो भवति तदाऽनंतज्ञानादिगुणात्मकपरमात्मस्वरूपे स्थितः सर्वान्कर्मबंधान् मुंचति । अथवा पाठांतरं मुंचदि सच्चे जदि स बंधे मुच्यते कर्मणा यदि किंसिस्यति छिनत्ति कान् ? सर्वबंधान् । अनेन व्याख्यानेन ये प्रकृत्यादिबधपरिज्ञानमात्रेण संतुष्टास्ते प्रतिबोध्यत । कथं ? इति चेत् वंधपरिज्ञानमात्रेण स्वरूपोपलब्धिरूपवीतरागचारित्ररहितानां स्वर्गादिसुखनिमित्तभूतः पुण्यबंधो भवति न च मोक्ष इति दाष्टतगाथा गता । एतेन व्याख्यानेन कर्मबंधप्रपंचरचनाविषये चिंतामात्रपरिज्ञानेन संतुष्टा निराक्रियंत ।
आत्मख्यातिः—आत्मबंधयोद्विधाकरणं मोक्षः, बंधस्वरूपज्ञानमात्रं तद्धेतुरित्येके तदसत् न कर्मबद्धस्य बंधस्वरूपज्ञानमात्रं मोक्षहेतुः अहेतुत्वात् निगडादिबद्धस्य बंधस्वरूपज्ञानमात्रवत् एतेन कर्मबंधप्रपंच रचनापरिज्ञानमात्रसंतुष्टा उत्थाप्यंते
-
जह वंधे चिंतंतो वंधणवद्धो ण पावदि विमोक्खं ।
तह बंधे चिंततो जीवोवि ण पावदि विमोक्खं ॥३१९॥
१५१
यथा बंधं चिंतयन् बंधनबद्धो न प्राप्नोति विमोक्षं ।
तथा बंधं चिंतयन् जीवोऽपि न प्राप्नोति विमोक्षं ॥३१९॥
तात्पर्यवृत्तिः–जह बंधे चिंततो बंधणवद्धो ण पावदि विमोक्स्खं यथा कश्चित्पुरुषो बंधंनबद्धो बंधं चिंतयमानो मोक्षं न लभते तह बंधं चिंततो जीवोवि ण पावदि विमोक्खं तथा जीवो - ऽपि प्रकृतिस्थित्यनुभागप्रदेशबंध चितयमानः स्वशुद्धात्मावाप्तिलक्षणं मोक्षं न लभते । किं च समस्त शुभाशुभबहिर्द्रव्यालंबनरहितचिदानंदैकशुद्धात्मावलंबनस्खरूपवीतरागधर्मध्यानशुक्लध्यानरहितो जीवः, बंधप्रपंचरचनाचिंतारूपसरागधर्मध्यानशुभोपयोगन स्वर्गादिसुखकारणपुण्यबंधं लभते नच मोक्षमिति भावार्थः ।
I
अथ कस्तर्हि मोक्षहेतुरिति प्रश्न प्रत्युत्तरं ददाति
आत्मख्यातिः - बंधचिताप्रबंधो मोक्षहेतुरित्यन्ये तदप्यसत् न कर्मबद्धस्य बंधचिंताप्रबंधज्ञानमात्रं मोक्षहेतुरहेतुत्वात् निगडादिबद्धस्य बंधचिता प्रबंधवत् । एतेन कर्मबंधविषयचिंता प्रबंधात्मकविशुद्धधर्मध्यानांधबुद्धयो बोध्यंते ।
कस्तर्हि मोक्षहेतुः ? इति चेत्
जह वंधे मुत्तूणय वंधणवद्धोद पावदि विमोक्खं । तह बंधे मुत्तूणय जीवो संपावदि विमोक्खं ॥ ३२० ॥