________________
१५२
सनातनजनग्रंथमालायांयथा बंधश्छित्वा च बंधवद्धस्तु पामोति विमोक्षं। .
तथा बंधश्छित्वा च जीवः पामोति विमोक्षं ॥३२०॥ तात्पर्यवृत्तिः-जह बंधे मुत्तूणय बंधणवदीय पावदि विमोक्खं तह बंधे मुतणय जीवो संपावदि विषोक्खं यथा बंधनबद्धः कश्चित्पुरुषो रज्जुवंधं शृंखलाबंधं काष्ठनिगलबंधं वा कमपि बंधं छित्त्वा कमपि भित्त्वा कमपि मुक्त्वा स्वकीयविज्ञानपौरुषवलेन मोक्षं प्राप्नोति । तथा जीवोऽपि वीतरागनिर्विकल्पस्वसंवेदन ज्ञानयुद्धेन बंधं छित्त्वा द्विधाकृत्वा भित्त्वा विदार्य मुवत्वा छोटयित्वाच निजशुद्धात्मोपलंभस्वरूपमोक्षं प्राप्नोतीति । अत्राह शिष्यः प्राभृतग्रंथे यन्निर्विकल्पस्वसंवेदनज्ञानं भण्यते तन्न घटते कस्मात् । इति चेत् तदुच्यते-सत्तावलोकनरूपं चक्षुरादिदर्शनं यथा जैनमते निर्विकल्पं कथ्यत तथा बौद्धमते ज्ञानं निर्विकल्पं भण्यते परंतु तन्निर्विकल्पमपि विकल्पजनकं भवति । जैनमते तु विकल्पस्योत्पादकं भवत्येवं न किंतु स्वरूपेणैव सविकल्पमिति तथैव स्वपरप्रकाशकं चेति । तत्र परिहारः-कथंचित्सर्विकल्पमच कथं चिन्निर्विकल्पं च । तद्यथा यथा विषयानंदरूपं सरागस्वसंवेदनज्ञानं सरागसंवित्तिविकल्परूपेण सविकल्पमपि शेषानीहितसूक्ष्मविकल्पानां सद्भावेऽपि सति तेषां मुख्यत्वं नास्ति तेन कारणेन निर्विकल्पमपि भण्यते । तथापि स्वशुद्धात्मसंवित्तिरूपं वीतरागस्वसंवेदनज्ञानमपि स्वसंवित्त्याकारकविकल्पेन सविकल्पमपि बहिविषयानीहितसूक्ष्मविकल्पानां सद्धावेऽपि सति तेषां मुख्यत्वं नास्ति तेन कारणेन निर्विकल्पमपि भण्यते एत एवेहापूर्वस्वसंवित्त्याकारांतर्मुख्यप्रतिभासेऽपि बहिर्विषयानीहित सूक्ष्मविकल्पा अपि संति तत एवकारणात् स्वपरप्रकाशकं च सिद्धं इदं निर्विकल्पसविकल्पस्य । तथैव स्वपरप्रकाशकस्य च ज्ञानस्य च व्याख्यान यथागमाध्यात्मतर्कशास्त्रानुसारेण विशेषेण व्याख्यायते तदा महान् विस्तरो भवति संचाध्यास्मशास्त्रत्वान्न कृतः । एवं भोक्षपदार्थसंक्षेपसूचनार्थ प्रथमस्थले गाथासप्तकं गतं ।
अथ किमयमेव मोक्षमार्ग ! इति चेत्
आत्मख्यातिः-कर्मबद्धस्य बंधच्छेदो मोक्षहेतुः, हेतुत्वात् निगडादिबद्धस्य बंधच्छेदवत् एतेन उभयेऽपि पूर्व आत्मबंधयोधिाकरणे व्यापार्यते । किमययेव मोक्षहेतुः ! इतिचेत् ।
वंधाणं च सहावं वियाणिदुं अप्पणो सहावं च । वंधे सु जोण रजदि सो कम्मविमुक्खणं कुणदि ॥३२१॥
बंधानां च स्वभावं विज्ञायात्मनः स्वभावं च ।
बंधेषु यो न रज्यते स कर्मविमोक्षणं करोति ॥३२१॥ तात्पर्यवृत्तिः-वंधाणं च सहावं बियाणिदुं भावबंधानां मिथ्यात्वरागादीनां स्वभावं ज्ञात्वा कथं ज्ञात्वा ! मिथ्यात्वस्वभावो हेयोपादेयविषये विपरीताभिनिवेशो भण्यते रागादीनां च स्वभावः पंचेंद्रियविषयेष्विष्टानिष्टपरिणाम इति । न केवलं बंधस्वभावं ज्ञात्वा अप्पणो सहावं च अनंतज्ञानादिस्वरूप शद्धात्मनः स्वभाव च ज्ञात्वा वंधेसु जो ण रजदि द्रव्यबंधहेतुभूतेषु मिथ्यात्वरागादिभावबंधेषु निर्विकल्पसमाधिवलेन यो म रज्यते सो कम्मविमोक्खणं कुणदि स कर्मविमोक्षणं करोति । ___ अथ केन कृत्वात्मबंधो द्विधा भवति ! इतिचेत् !
- आत्मख्याति:-य एव निर्विकारचैतन्यचमत्कारमात्रमात्मस्वभावं तद्विकारकारकं बंधानां च स्वभावं विज्ञाय बंधेम्यो विरमति स एव सकलकर्ममोक्षं कुर्यात् । एतेनात्मबंधयोद्विधाकरणस्य मोक्षहेतुत्वं नियम्यते।
केनात्मबंधो द्विधा क्रियते ! इतिचेत्