________________
समयप्रामृत ।... जीवो वंधोय तहा छिजंति सलक्खणेहिं णियएहिं । पण्णाछेदणएणदु छिण्णा णाणत्तमावण्णा ॥३२२॥ ___जीवो बंधश्च तथा छिद्यते स्वलक्षणाभ्यां नियताभ्यां ।
प्रज्ञाछेदकेन तु छिन्नौ नानात्वमापन्नौ ॥३२२॥ वात्पर्यवृत्तिः-जीवो वंधोय तहा छिज्जति सलक्खणेहिं णियएहिं यथा जीवस्तथा बंधश्चै तौ द्वौ छियेते पृथकक्रियेते, काभ्यां कृत्वा ? स्वलक्षणरूपाभ्यां निजकाभ्यां पण्णाछेदणएण दुछिण्णा. णाणत्तमावण्णा प्रज्ञाछेदनैकलक्षणेन भेदज्ञानेन छिन्नौ संतौ नानात्वमापन्नौ इति । तथाहि-जीवस्य लक्षणं शुद्धचैतन्यं भण्यते, बंधस्य लक्षणं मिथ्यात्वरागादिकं, ताभ्यां पृथक्कृतौ । केन ! करणभूतेन प्रज्ञाछेदनैकेन, शुद्धात्मानुभूतिलक्षणभेदज्ञानरूपा प्रज्ञैव छेत्र्येव छुरिका तया एवेत्यर्थः । छिन्नौ संतो. नानात्वमापन्नौ ।
आत्मबंधयोधिाकरणे किं साध्यं ? इति चेत्- . .
भात्मख्यातिः-आत्मबंधयोधिाकरणे कार्ये कर्तुरात्मनः करणमीमांसायां निश्चयतः स्वतोभिन्नकरणासंभवात् भगवती प्रचैव छेदनात्मकं करणं । तया हि तौ छिन्नौ नानात्वमवश्यमेवापद्यते ततः प्रज्ञै. वात्मबंधयोधिाकरणं । ननु कथमात्मबंधौ चत्यचेतकभावेनात्यंतप्रत्यासत्तरेकीभूतौ भेदविज्ञानाभावा देकचेतकवव्यवढियमाणौ प्रजया छेत्तुं शक्यते ! नियतस्वलक्षणसूक्ष्मांतःसंधिसावधाननिपातनादिति बुध्येमहि । आत्मनो हि समस्तशेषद्रव्यासाधरणत्वाँच्चैतन्यं स्वलक्षणं तत्तु प्रवर्तमानं यद्यद्यदभिव्याप्य प्रवर्त्त ते निवर्तमानं च यद्यदुपादाय निवर्तते तत्तत्समस्तमपि सहप्रवृत्तं क्रमप्रवृत्तं था पर्यायजातमात्मेति लक्षणीयं तदेकलक्षणलक्ष्यत्वात्, समस्तसहक्रमप्रवृत्तानंतपर्यायाविनाभावित्वाच्चैतन्यस्य चिन्मात्र एवात्मा निश्चेतव्यः, इति यावत्। बंधस्य तु आत्मद्रव्यसाधरणा रागादयः स्वलक्षणं । नच रागादय आत्मद्रव्यासाधारणतां विभ्राणाः प्रतिभासंते नित्यमेव चैतन्यचमत्कारादतिरिक्तत्वेन प्रतिभासमानत्वात्। नच यावदेव समस्तस्वपर्यायव्यापि चैतन्यं प्रतिभाति ! रागादीनंतरेणापि चैतन्यस्यात्मलाभसंभावनात् । यत्तु रागादीनां चैतन्येन सहैवोत्प्लवनं तच्चेत्यचेतकभावप्रत्यासत्तेरेव नैकद्रव्यत्वात् , चेत्यमानस्तु रागादिरात्मनः प्रदीप्यमानो घटादिः प्रदीपस्य प्रदीपकतामिव चेतकतामेव प्रथयेन पुनारागादीनां, एवमपि तयोरत्यंतप्रत्यासत्त्या भेदसंभावनाभावनादिरस्त्येकत्वव्यामोहः स तु प्रश्यैव छिद्यत एव ।
आत्मबंधी द्विधाकृत्वा किं कर्तव्यं ! इति चेत् । प्रज्ञा छेत्री शितयं कथमपि निपुणैः पातिता सावधानैः । सूक्ष्मेंऽतःसंधिबंधे निपतति रभसादात्मकर्मोभयस्य ।। आत्मानं मग्नमंतःस्थिरविशदलसद्धाम्नि चैतन्यपूरे। बंधं चाज्ञानभावे नियमितमभितः कुर्वती भिन्नभिन्नौ ॥१७॥
जीवो वंधोय तहा छिजंति सलक्खणेहिं णियएहिं । वंधो छेदेदव्वो सुद्धो अप्पाय घेत्तब्वो ॥३२३॥
जीवो बंधश्च तथा छिद्यते स्वलक्षणाभ्यां नियताभ्यां ।
बंधश्छेत्तव्यः शुद्ध आत्मा गृहीतव्यः ॥३२३॥ तात्पर्यवृत्तिः-जीवो वंधोय तहा छिजति सलक्खणेहिं णियएहिं जीवबंधी द्वौ पूर्वोक्ताभ्यां स्वलक्षणाभ्यां निजकाभ्यां । छियेते पूर्ववत् । ततश्छेदानंतरं किं साध्यं ? वधो छेदेदव्यो विशुद्धज्ञानदर्शनस्वभावपरमात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयात्मकभेदज्ञानछुरिकया मिथ्यात्वरागादिरूपो बंधश्छेत्तव्यः शुद्धात्मनः सकाशात्पृथक्कर्तव्यः । सुद्धो अप्पाय घेत्तम्वो वीतरागसहजपरमानंदलक्षणः सुखसमरसीभावेन शुद्धात्मा च गृहीतव्य इत्यभिप्रायः ।
२०