________________
सनातन जनग्रंथमालायां
ज्ञानक्रियानयपरस्परतीत्रमैत्रीपात्रीकृतः श्रयति भूमिमिमां स एकः ॥ १५१ ॥ चित्पिंडचंडिमविलासिबिकासहास शुद्धप्रकाशभर निर्भरसुप्रभातः । आनंदसुस्थितसदास्वलितैकरूपस्तस्यैव चायमुदयत्यचलार्चिरात्मा ॥ १५२ ॥ स्याद्वाददीपितलसन्महसि प्रकाशशुद्धस्वभाव महिमन्युदिते मयीति । किं बंधमोक्षपथपातिभिरम्यभावनित्योदयं परमयं स्फुरतु स्वभावः ।। १५३ ।। चित्रात्मशक्तिसमुदायमयोऽयमात्मा सद्यः प्रणश्यति नयेक्षेणखंड्यमानः । तस्मादखंडमनिराकृतंखडमेकमेकांतशांतमचलं चिदहं महोऽस्मि ॥ १५४ ॥ न द्रव्येण खंडयामि । न क्षेत्रेण खंडयामि । न भावेन खंडयामि । सुविशुद्ध एको ज्ञानमात्रभाबोऽस्मि । योऽयं भावो ज्ञानमात्रोऽहमस्मि ज्ञेयो ज्ञेयः ज्ञानमात्रः स नैव । ज्ञेयो ज्ञेयज्ञानकल्लोलवेलान् ज्ञानज्ञयज्ञातृमद्वस्तुमात्रं ॥ १५५ ॥
कचिलसति मेचकं क्वचिन्मेचका मेचकं क्वचित्पुनरमेचकं सहजमेव तत्त्वं मम । तथापि न विमोहत्यमलमेधसां तन्मनः परस्परसुसंहतप्रकटशक्तिचक्रं स्फुरत् ॥ १५६ ।। इतो गतमनेकतां दधदितः सदाप्येकतामितः क्षणविभंगुरं ध्रुवमितः सदैवोदयात् । इतः परमविस्तृतं धृतमितः प्रदेशैर्निजैरहो सहजमात्मनस्तदिदमद्भुतं वैभवं ॥ १५७ ॥ कषायकलिरेकत स्खलति शांतिरस्त्येकतो भवोपहतिरेकतः स्पृशति मुक्तिरप्येकतः । जगत्त्रितयमेकतः स्फुरति चिच्चकास्त्येकतः स्वभावमहिमात्मनो विजयते द्रुतादद्भुतः ॥ १५८ ॥ जयति सहजपुंजः पुंजमज्जत्त्रिलोकी स्खलद खिलविकल्पोऽप्येक एक स्वरूपः । स्वरसविसरपूर्णाच्छिन्नतत्त्वोपलंभः प्रसभनियमितार्चिचिचमत्कार एषः ॥ १५९ ॥ अविचलितचिदात्मन्यात्मनात्मानमात्मन्यनवरत निमग्नं धारयदूध्वस्तमोहं । मुदितममृतचद्रज्योतिरेतत्समंताज्ज्वलतु विमलपूर्ण निःसपत्नस्वभावं ॥ १६० ॥ मुक्तामुक्तैकरूपो यः कर्मभिः संविदादितः ।
अक्षयं परमात्मानं ज्ञानमूर्तिं नमाम्यहं ॥ १६९ ॥
२१६
अथ द्रव्यस्यादेशवशेनोक्तां सप्तभंगी मवतारयाम :
स्यादस्ति द्रव्यं १ स्यान्नास्ति द्रव्यं २ स्यादस्ति नास्ति च द्रव्यं ३ स्यादवक्तव्यं द्रव्यं ४ स्यादस्ति चावक्तव्यं च द्रव्यं ५ स्यान्नास्ति चावक्तव्यं च द्रव्यं ६ स्यादस्ति च नास्तिचावक्तव्यं च द्रव्यं ७ इति अत्र सर्वथात्वनिषेधेको नैकांतद्योतकः कथंचिदर्थः स्याच्छब्दो निपातः । तत्र स्वद्रव्यक्षेत्रकालभावैरादिमस्ति द्रव्यं । परद्रव्यक्षेत्रकालभावैरादिष्टं नस्ति द्रव्यं । स्वपरद्रव्यक्षेत्र कालभावैरादिष्टमास्ति च नास्ति च द्रव्यं । स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपदादिष्टमवक्तव्यं स्व- द्रव्यं क्षेत्र -काल- भावैर्युगपत्स्वपर द्रव्यक्षेत्रकालभावैश्चादिष्टमस्ति चावक्तव्यं द्रव्यं । परद्रव्यक्षेत्रकालभावैः युगपत्स्नपर द्रव्यक्षेत्र कालभाव - चादिष्टं नास्ति चावक्तव्यं द्रव्यं । स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालभावै श्वादिष्टमस्ति च नास्ति चावक्तव्यं च द्रव्यमिति । इति सप्तभंगी समाप्ता ।
इति समयसारव्याख्यायामात्मख्यातौ नवमऽकः ।
.
यस्माद्वैतमभूत्पुरा स्वपरयोर्भूतं यतोऽत्रांतरं रागद्वेषपरिग्रहे सति यतो जातं क्रियाकारैकः । भंजाना च यतोऽनुभूतिरखिलं खिन्नाक्रियायाः फलं तद्विज्ञानघनौघमग्नमधुना किंचिन्न किंचित्खलु ॥ १६२ ॥ स्वशक्तिसंसूचितवस्तुतत्त्वैर्व्याख्या कृतेयं समयस्य शब्दैः ।
स्वरूपगुप्तस्य न किंचिदस्ति कर्तव्यमेवामृतचंद्रसूरेः ॥ १६३ ॥
इत्यात्माख्यातिनाम्नी समयसारव्याख्या समाप्ता ॥ तात्पर्यवृत्ति-आत्मख्यातीति टीकाद्वयोपेतं श्रीसमयप्राभृतं समाप्तिमगमत् -
दर्प्रकाशे भरे नि भैरमत्यंतं शुद्धो भातः सुष्ठुो उद्दीप्तः। शर्कल तत्किचित्क्रियायाः फलं। अधुना विज्ञानघनोषमनं न किंश्चित् ।