________________
समयप्राभृतं ।
२१५
सर्वज्ञत्वशक्तिः । नरूिपात्मप्रदेश प्रकाशमान लोकाकारमेचकोपयोगलक्षणा स्वच्छत्वशक्तिः । स्वयंप्रकाशमान बिशदस्वसंवित्तिमयी प्रकाशशक्तिः । क्षेत्रकालानवच्छिन्नचिद्विलासात्मिकाऽसंकुचितविकाशत्वशक्तिः । अन्या- . क्रियमाणाऽन्याकारकैकद्रव्यात्मिका अकार्यकारणशक्तिः । परात्मनिमित्तकज्ञेयज्ञानाकारग्राहणग्रहणस्वभावरूपा परिणम्यपरिणामकत्वशक्ति । अन्यूनातिरिक्तस्वरूपनियतरूपा त्यागोपादानशून्यत्वशक्तिः । षट्स्थानपतितवृद्धिहानिपरिणतस्वरूपप्रतिष्ठत्वकारणविशिष्टगुणात्मिका - अगरूलघुत्वशक्तिः । क्रमाक्रमवृत्तिवृत्तित्वलक्षणोत्पादव्ययवत्वशक्तिः । द्रव्यस्वभावभूतधाव्यन्ययोत्पादलिंगित सदृशविसदृश रूपैकाऽस्तित्वमात्रमयी परिणामशक्तिः । कर्मबंधव्यपगमत्र्यंजित सहजस्पर्शादिशून्यात्मप्रदेशात्मिका अमूर्तत्वशक्तिः । सकलकर्मकृत ज्ञातृत्वमात्रातिरिक्तपरिणामकरणोपरमात्मिका अकर्तृत्वशक्तिः । सकलकर्मकृतज्ञातृत्वमात्रातिरिक्तपरिणामानुभवोपरमात्मिका अभोक्तृत्वशक्तिः । सकलकर्मोपरमप्रवृत्तात्मप्रदेश नैष्पद्यरूपा निष्क्रियत्वशक्तिः । आसंसार संहरणविस्तरणलक्षितकिंचिदूनचरमशरीर परिणामावस्थितलोकाकाशसम्मितात्मावयवत्वलक्षणा नियतप्रदेशत्वशक्तिः । सर्वशरीरकस्वरूपात्मिका स्वधर्मव्यापकत्वशक्तिः । विलक्षणानंतस्वभावभावितैकभावलक्षणानंत धर्मःवशक्तिः । तदतद्रूपमयवलक्षणा विरुद्धधर्मशक्तिः । तद्रूपभवनरूपा तत्त्वशक्ति: । अतद्रूपाऽभवनरूपा अतत्त्वशक्तिः । अनेकपर्यायव्यापकैकद्रव्यमयत्वरूपा एकत्वशक्तिः । एकद्रव्यव्याप्यानेकपर्यायमयत्वरूपा अनेकत्वशक्तिः । भूतावस्थत्वरूपा भावशक्तिः । शून्यावस्थत्वरूपाऽभावशक्तिः । भवत्पर्यायभवनरूपा भावाभावशक्तिः । अभवत्पर्यायाऽभवनरूपाऽभाव भावशक्तिः । कारकानुगतक्रियाभिनिष्क्रांतभवनमात्रमयी भावशक्तिः । कारकानुगतभवत्ता रूपभावगत क्रियामयी क्रियाशक्तिः । प्राप्यमाणसिद्धरूपभावमयी कर्मशक्तिः । भवत्तारूपसिद्धरूपभावभविकत्वमयी कर्तृशक्तिः । भवद्भावभवन साधकतमत्वमयी करणशक्तिः । स्वयं दीयमानभावोपेयत्वमयी संप्रदानशक्तिः । उत्पादव्ययालिंगितभावापायनिरपायध्रुवत्वमयी अपादानशक्तिः । भाग्यमानभावाधारत्वमयी अधिकरणशक्तिः । स्वभावमात्रस्वस्वामित्वमयी संबंधशक्तिः ।
इत्याद्यनेकनिजशक्ति सुनिर्भरोऽपि यो ज्ञानमात्रमयतां न जहाति भावः । एकं क्रमाक्रमविवर्तिविवर्तचित्रं तद्द्रव्यपर्ययमयं चदिहास्ति वस्तु ॥ १४८ ॥ "नैकांतसंगतदृशा स्वयमेव वस्तु तत्त्वव्यवस्थितिमिति प्रविलोकयतः । स्याद्वादशुद्धिमांधकामधिगम्य संतो ज्ञानीभवंति जिननीतिमलंघयंतः ॥ १४९ ॥ अथास्योपायोपेयभावश्चित्यते ।
आत्मवस्तुनो हि ज्ञानमात्रत्वे ऽप्युपायोपेयभावो विद्यत एव । तस्यैकस्यापि स्वयं साधकसिद्धरूपाभयपरिणामित्वात् । तत्र यत्साधकं रूपं स उपायः । यत्सिद्धं रूपं स उपेयः । अतोऽस्यात्मनोऽनादिमिथ्या दर्शनज्ञानचरित्रैः स्वरूपप्रच्यवनात्संसरतः सुनिश्चल परिगृहीतव्यवहारसम्यग्दर्शन चारित्रपाकप्रकर्षपरंपरया क्रमेण स्वरूपमारोप्यमाणस्यांतर्मग्ननिश्चय सम्यग्दर्शनज्ञानचरित्र विशेषतया साधकरूपेण तथा परमप्रकर्ष मैकरिकाधिरूढरत्नत्रयातिशयप्रवृत सकलकर्मक्षयप्रज्वलितास्रवलितविमलस्वभावभावतया सिद्धरूपेण च स्वयं परिणममानज्ञानमात्रमेकमैवोपायोपेयभावं साधयति । एवमुभयत्रापि ज्ञानमात्रस्यानन्यतया नित्यमस्वलितैकत्रस्तुनो निष्कंपपरिग्रहणात् तत्क्षण एवं मुमुक्षूणामासंसारालब्धभूमिकानामपि भवति भूमिकालाभः । ततस्तत्र नियदुर्ललितास्ते स्वत एव क्रमाक्रमवृत्तानेकांतमूर्तयः साधकभाव संभवपरमप्रकर्षको टिसिद्धिभाव भाजनं भवति । ये तु मामतन तानेकांतज्ञानमात्रकभावरूपां भुमिमुपलभते ते नित्यमज्ञानिनो भवंतो ज्ञानमात्र भावस्य स्वरूपेणाभवनं पररूपेण भवनं पश्यंतो जानतोऽनुचरंतश्च मिध्यादृष्टयो मिथ्याज्ञानिनो मिथ्याचरित्राश्च भवतोऽन्यतमुपायेोपेयभ्रष्टा विभ्रमत्येव ।
ये ज्ञानमात्रनिजभावमयीमकंपां भूमिं श्रयंति कथमप्यपनीतमोहाः । साधकत्वमधिगम्य भवंति सिद्धा मूढास्त्वमूमनुपलभ्य परिभ्रमति ॥ १५० ॥ स्याद्वाद कौशलसुनिश्चलसंयमाभ्यां यो भावयत्यहरहः स्वमिहोपयुक्तः । १ मकर। एव मकरिका मर्यादा - इत्यर्थः ।