________________
समयप्राभृतं । भास्मख्यातिः-अथ जीवाजीवावेव कर्तृकर्मवेषेण प्रविशतः ।
एकः कर्ती चिदहमिह मे कर्म कोपादयोऽमी इत्यवानां शमयदभितः कर्तृकर्मप्रवृत्तिं । ज्ञानज्योतिः स्फुरति परमोदात्तमत्यंतधीरं साक्षात्कुर्वन्निरुपधिपृथग्द्रव्यनिर्भासि विश्वं ॥४६॥
जाव ण वेदि विसेसंतरं तु आदासवाण दोहपि । अण्णाणी ताव दु सो कोधादिसु वहदे जीवो ॥७॥ कोधादिसु वहतस्स तस्स कम्मस्स संचओ होदी। जीवस्सेवं बंधो भाणदो खलु सव्वदरसीहिं ॥७॥ यावन्न वेत्ति विशेषांतरं त्वात्मास्रषयोयोरपि । अज्ञानी तावत्स क्रोधादिषु वर्त्तते जीवः ॥७॥ क्रोधादिषु बर्तमानस्य तस्य कर्मणः संचयो भवति ।
जीवस्यैवं बंधो भणितः खलु सर्वदर्शिभिः ॥७॥ तात्पर्यवृत्तिः-जावण वेदि विसेसं तरं तु आदा सवाण दोण्हपि यावत्कालं न वेत्ति न जानाति विशेषांतरं भेदज्ञानं शुद्धात्मक्रोधाद्यास्रवस्वरूपयोर्द्वयोः अण्णाणी ताव दु सो तावत्कालपर्यतमज्ञानी बहिरात्मा भवति । स जीवः अज्ञानी सन्किं करोति कोधादिसु वहदे जीवो यथा ज्ञानमहं इत्यभेदेन वर्त्तते तथा क्रोधाद्यास्रवरहितनिर्मलात्मानुभूतिलक्षणनिजशुद्धात्मस्वभावात्पृथग्भूतेषु क्रोधादिष्वपि क्रोधोहमित्यभेदेन वर्त्तते परिणमतीति । अथ - कोधादिसु वतस्स तस्स उत्तमक्षमादिस्वरूपपरमात्मविलक्षणेषु क्रोधादिषु वर्तमानस्य तस्य जीवस्य किं फलं भवति कम्मस्स संचओ होदी परमात्मप्रच्छादककर्मणः संचयः आस्रव आगमनं भवति । जीवस्सेवं बंधो भणिदो खलु सव्वदरसीहिं तैलम्रक्षिते धूलिसमागमवदास्रवे सति ततो मलादितैलसंबंधेन मलबंधवत्प्रकृतिस्थित्यनुभागप्रदेशलक्षणः स्वशुद्धात्मावाप्तिस्वरूपमोक्षविलक्षणो बंधो भवति । जीवस्यैवं खलु स्फुटं भणितं सर्वदर्शिभिः सर्वजैः । किं च यावत्क्रो धाद्यास्रवेभ्यो भिन्नं शुद्धात्मस्वरूपं स्वसंवेदनज्ञानवलेन न जानाति तावत्कालमज्ञानी भवति । अज्ञानी सन् अज्ञानजां कर्तृकर्मप्रवृत्तिं न मुंचति तस्माद्वंधो भवति । बंधात्संसारं परिभ्रमतीत्यभिप्रायः । एवमज्ञानीजीवस्वरूपकथनरूपेण गाथाद्वयं गतं । अथ कदा कालेऽस्याः कर्तृकर्मप्रवृत्तेर्निवृत्तिरित्येवं पृष्ठे प्रत्युत्तरं ददाति । ___ आत्मख्याति: यथायमात्मा तादात्म्यसिद्धसंबंधयोरात्मज्ञानयोरविशेषाद्भेदमपश्यन्न विशंकमात्मतया ज्ञाने वर्त्तते तत्र वर्तमानश्च ज्ञानक्रियायाः स्वभावभूतत्वेनाप्रतिषिद्धत्वाजानाति तथा संयोगसिद्धसंबंधयोरप्यात्मक्रोधाद्यास्रवयोः स्वयमज्ञानेन विशेषमजानन् यावद्भेदं न पश्यति तावदशंकमात्मतया क्रोधादौ वर्त्तते । तत्र वर्तमानश्च क्रोधादिक्रियाणां परभावभूतत्त्वात्प्रतिषिद्धत्वेपि स्वभावभूतत्वाध्यासात्क्रुध्यति रज्यते मुह्यति चेति । तंदत्र योयमात्मा स्वयमज्ञानभवनें ज्ञानभवनमात्रसहजोदासीनावस्थात्यागेन व्याप्रियमाणः प्रतिभाति स कर्ता । यत्तु ज्ञानभवनव्याप्रियमाणत्वेभ्यो भिन्नं क्रियमाणत्वेनांतरुत्प्लवमानं प्रतिभाति क्रोधादि तत्कर्म । एवमियमनादिरज्ञानजा कर्तृकर्मप्रवृत्तिः । एवमस्यात्मनः स्वयमज्ञानात्कर्तृकर्म भावेन क्रोधादिषु वर्तमानस्य तमेव क्रोधादिनिवृत्तिरूपं परिणाम निमित्तमात्रीकृत्य स्वयमेवपरिणममानं पौगलिक कर्म संचयमुपयाति । एवं जीवपुद्गलयोः परस्परावगाहलक्षणसंबंधात्मा बंधः सिद्ध्येत् । सचानेकात्मकैकसंतानत्वेन निरस्तेतरेतराश्रयदोषः कर्तृकर्मप्रवृत्तिनिमित्तस्याज्ञानस्य मिमित्तं । कदास्याः कर्तृकर्मप्रवृत्तेनिवृत्तिरिति चेत् ।