________________
सनातनजैनग्रंथमालायाप्रकाशादिग्रंथवद्रागिणां श्रृंगारकथावत् पुनरुक्तदोषो नास्ति । अथवा तत्र जीवस्य मुख्यता अत्राजीवस्य मुख्यता । विवक्षितो मुख्य इति वचनात् । अथवा तत्र सामान्यव्याख्यानमत्र तु विस्तरेण । अथवा तत्र रागादिभ्यो भिन्नो जीवो भवतीति विधिमुख्यतया व्याख्यानं अत्र तु रागादयो जीवस्वरूपं न भवंतीति निषेधमुख्यतया व्याख्यानं किंवत् एकत्वान्यत्वानुप्रेक्षाप्रस्तावे विधिनिषेधव्याख्यानवदिति परिहारपंचकं ज्ञातव्यं ।
___ इति समयसारव्याख्यायां शुद्धात्मानुभूतलक्षणायां तात्पर्यवृत्तौ
स्थलत्रयसमुदायेन त्रिंशद्गाथाभिरजीवाधिकारः समाप्तः । एवं जीवाजीवाधिकाररंगभूमौ श्रृंगारसहितपात्रवद्र्यवहारेणैकीभूतौ प्रविष्टौ निश्चयेन तु श्रृंगाररहितपात्रवत्पृथग्भूत्वा निष्क्रांताविति । __आत्मख्यातिः - मिथ्यादृष्ट्यादीनि गुणस्थानानि हि पौद्गलिकमोहकर्मप्रकृतिविपाकपूर्वकत्वे सति नित्यमचेतनत्वात् कारणानुविधायीनि कार्याणीति कृत्वा यवपूर्वका यवा यवा एवेति न्यायेन पुद्गल एव न तु जीवः । गुणस्थानानां नित्यमचेतनत्वं चागमाच्चैतन्यस्वभावव्याप्तस्यात्मनोतिरिक्तत्वेन विवेचकैः स्वयमुपलभ्यमानत्वाच्च प्रसाध्यं । एवं रागद्वेषमोहप्रत्ययकर्मनोकर्मवर्गवर्गणास्पर्द्धकाध्यात्मस्थानानुभागस्थानयोगस्थानबंधस्थानोदयस्थानमार्गणास्थानस्थितिबंधस्थानसंक्लेशस्थानविशुद्धस्थानसंयमलब्धिस्थानान्यपि पुद्गलपूर्वकत्वे सति नित्यमचेतनत्वात्पुद्गल एव न तु जीव इति स्वयमायातं । ततो रागादयो भाषा न जीब इति सिद्धं । तर्हि को जीव इति चेत् ।
अनाद्यनंतमचलं स्वसंवेद्यमिदं स्फुटं । जीवः स्वयं तु चैतन्यमुच्चैश्चकचकायते ॥४१॥ वर्णाद्यैः सहितस्तथा विरहितो द्वेधास्त्यजीवो यतो नामूर्त्तत्वमुपास्य पश्यति जगज्जीवस्य तत्त्वं ततः । इत्यालोच्य विवेचकैः समुचितं नाव्याप्यतिव्यापि वा व्यक्तं व्यंजितजीवतत्त्वमचलं चैतन्यमालंब्यतां ॥४२॥
जीवादजीवमिति लक्षणतो विभिन्नं ज्ञानी जनोनुभवति स्वयमुलसंतं ।
अज्ञानिनो निरवधिप्रविजृभितोयं मोहस्तु तत्कथमहो बत नानटीति ॥ ४३ ॥ नानटयतां तथापि
अस्मिन्ननादिनि महत्यविवेकनाटये वर्णादिमान्नटति पुद्गल एव नान्यः ।
रागादिपुद्गलविकारविरुद्धशुद्धचैतन्यधातुमयमूर्तिरयं च जीवः ॥ ४४ ॥ इत्थं ज्ञानक्रकचकलनापाटनं नाटयित्वा जीवाजीवौ स्फुटविघटनं नैव यावत्प्रयातः ।
विश्वं व्याप्य प्रसभविकशव्यक्तचिन्मात्रशक्त्या ज्ञातूद्रव्यं स्वयमतिरसात्तावदुच्चैश्चकाशे ॥४५॥ इति जीवाजीवौ पृथग्भूत्वा निष्क्रांतीइति समयसारव्याख्यायामात्मख्याती प्रथमोंकः ।
अथ कर्तृकर्माधिकारः। तात्पर्यवृत्तिः-अथ पूर्वोक्तजीवाधिकाररंगभूमौ जीवाजीवावेव यद्यपि शुद्धनिश्चयेन कर्तृकर्मभावरहितौ तथापि व्यवहारनयेन कर्तृकर्मवेषेण शृंगारसहितपात्रवत्प्रविशत इति दंडकान्विहायाष्टाधिकसप्ततिगाथापर्यंत नवभिः स्थलैर्व्याख्यानं करोतीति पुण्यपापादिसप्तपदार्थपीठिकारूपेण तृतीयाधिकारे समुदायपातनिका । अथवा जो खलु संसारत्थो जीवो इत्यादिगाथात्रयेण पुण्यपापादिसप्तपदार्था जीवपुद्गलसंयोगपरिणामनिवृत्ता न च शुद्भनिश्चयेन शुद्धजीवस्वरूपमिति पंचास्तिकायप्राभृते यत्पूर्व संक्षेपेण व्याख्यातं तस्यैवेदानी व्यक्तयर्थ पुण्यपापादिसप्तपदार्थानां पीठिकासमुदायकथनं तात्पर्य कथ्यत इति द्वितीयपातनिका। प्रथमतस्तावत् जीवणवेदिविसेसं तरं इत्यादिगाथामादिं कृत्वा पाठक्रमेण गाथाषटूपर्यंत व्याख्यानं करोति । तत्र गाथाद्वयमज्ञानीजीवमुख्यत्वेन गाथाचतुष्टयं सज्ञानीजीवमुख्यत्वेन कथ्यत इति प्रथमस्थले समुदायपातनिका । तद्यथा-अथ क्रोधाद्यास्रवशुद्धात्मनोर्यावत्कालं भेदविज्ञानं न जानाति तावदज्ञानी भवतीत्यावेदयति ।