________________
__ सनातनजैनग्रंथमालायांजीवे कम्मं वद्धं पुढे चेदि ववहारणयमणिदं । सुद्धणयस्स दु जीवे अवद्धपुढे हवइ कम्मं ॥१५१॥ जीवे कर्म वद्धं स्पृष्टं चेति व्यहारनयभणितं ।
शुदनयस्य तु जीवे अवद्धस्पृष्टं भवति कर्म ॥१५॥ तात्पर्यवृत्तिः-जीवे कम्मं वद्धं पुहं चेदि ववहारणयभाणदं जीवेऽधिकरणभूते वर्द्ध संश्लेषरूपेण क्षीरनीरवत्सबद्धं स्पृष्टं योगमात्रेण लग्नं च कर्मेति व्यवहारनयपक्षो व्यवहारनयाभिप्रायः । सुद्धणयस्स दु जीवे अवदपुढं हवइ कम्मं शुद्धनयस्याभिप्रायेण पुनर्जीवेधिकरणभूते अवद्धं स्पृष्टं कर्म इति निश्चयव्यवहारनयद्वयविकल्परूपं शुद्धात्मस्वरूपं न भवतीति भावार्थः । अथ यस्माद्वद्वाबद्धादिविकल्परूपं नयस्वरूपमुक्तं तस्माच्छुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन बद्धाबद्धादिनयविकल्परूपो जीवो न भवतीति प्रतिपादयति ।
आत्मख्याति:- जीवपुद्गलकर्मणोरेकबंधपर्यायत्वेन तदतिव्यतिरेकाभावाज्जीवे बद्धास्पृष्टं कर्मेति व्यवहारनयपक्षः । जीवपुद्गलकर्मणोरनेकद्रव्यत्वेनात्यंतव्यतिरेकाज्जीवेऽबद्धस्पृष्टं कर्मेति निश्चयपक्षः । ततःकि
कम्मं वद्धमवद्धं जीवे एवं तु जाण णयपक्खं । पक्खातिकतो पुण भण्णदि जो सो समयसारो ॥१५२॥
कर्म बद्धमबद्धं जीवे एवं तु जानीहि नयपक्ष ।
पक्षातिक्रांतः पुनर्भण्यते यः स समयसारः ॥१५२॥ तात्पर्यवृत्तिः-कम्मं वद्धमवद्धं जीवे एवं तु जाण णयपक्खं जीवेधिकरणभूते कर्म बद्धमबद्धं चेति योऽसौ विकल्पः स उभयोपि नयपक्षपातः स्वीकार इत्यर्थः पक्खातिकतो पुण भण्णदि जो सो समयसारो नयपक्षातिक्रांतो भण्यते यः स समयसारः शुद्धात्मा। तद्यथा व्यवहारेषा बद्धो जीव इति नयविकल्पः शुद्धजीवस्वरूपं न भवति निश्चयेनाबद्धो जीव इति च नयविकल्पः शुद्धजीवस्वरूपं न भवति निश्चयव्यवहाराभ्यां बद्धाबद्धजीव इति वचनविकल्पः शुद्धजीवस्वरूपं न भवति । कस्मादिति. चेत् ? श्रुतविकल्पा नया इति बचनात् । श्रुतज्ञानं च क्षायोपशमिकं क्षायोपशमस्तु ज्ञानावरणीयक्षयोपशमजनितत्वात् । यद्यपि व्यवहारनयेन छद्मस्थापेक्षया जीवस्वरूपं भण्यते तथापि केवलज्ञानापेक्षयाशुद्धजीवस्वरूपं न भवति । तर्हि कथं भूतं जीवस्वरूपमिति चेत् ? योसौ नयपक्षपातरहितस्वसंवेदनज्ञानी तस्याभिप्रायेण बद्धाबद्धमूढामूढादिनयविकल्परहितं चिदानंदैकस्वभावं जीवस्वरूपं भवतीति । तथा चोक्तं
य एव मुक्त्वा नयपक्षपातं स्वरूपगुप्ता निवसंति नित्यं । विकल्पजालच्युतशांतचित्तास्तएव साक्षादमृतं पिवंति ॥ ६८॥ एकस्य बद्धो न तथा परस्य चितिद्वयोविति पक्षपातौ ।।
यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ६९॥ समयाख्यानकाले या बुद्धिर्नयद्वयात्मिका । वर्तते बुद्धतत्त्वस्य सा स्वस्थस्य निवर्तते ॥
हेयोपादेयतत्त्वे तु विनिश्चित्य नयद्वयात् । त्यक्त्वा हेयमुपादेयेवस्थानं साधुसम्मतं ॥ अथ नयपक्षातिक्रांतस्य शुद्धविस्य किं स्वरूपमिति पृष्टे सति पुनर्विशेषेण कथयति ।
आत्मख्यातिः--यः किल जीवे बद्धं कर्मेति यश्च जीवेऽबद्धं कर्मेति विकल्पः स द्वितयोपि हि नयपक्षः । य एवैनमतिक्रामति स एव सकलविकल्पातिक्रांतः स्वयं निर्विकल्पैकाविज्ञानघनस्वभावो भूत्वा साक्षात्समयसारः संभवति । तत्र यस्तावज्जीवे बद्धकर्मेति विकल्पयति स जीवेऽबद्धं कर्मेति एक पक्षमति