________________
समयप्राभृर्त ।
७७
दु परिणामो जामदि जीवस्स रागमादीहिं अथाभिप्रायो भवतां पूर्वदूषण भयादेकस्य जीवस्यैका - तेनोपादानकारणस्य रागादिपरिणामो जायते तां कम्मोदयहेदु हि विणा जीवस्स परिणामो तस्मादिदं दूषणं कर्मोदय हेतुभिर्विनापि शुद्ध जीवस्य रागादिपरिणामो जायते स च प्रत्यक्षविरोध आगमविरोधश्च । अथवा द्वितीयव्याख्यानं एकस्य जीवस्योपादानकारणभूतस्य कमोंदयोपादानहेतुभिर्विना रागादिपरिणामो यदि भवति तदा सम्मतमेव । किं च द्रव्यकर्मणामनुपचरितासद्भूतव्यवहारेण कर्ता जीवः रागादिभावकर्मणामशुद्धनिश्वयेन सचाशुद्धनिश्चयः यद्यपि द्रव्यकर्मकर्तृत्वविषयभूतस्यानुपचरितासद्भूतव्यवहारस्यापेक्षया निश्चयसंज्ञां लभते । तथापि शुद्धात्मद्रव्यविषयभूतस्य शुद्धनिश्चयस्यापेक्षया वस्तुवृत्त्या व्यवहार एवेति भावार्थ: । अथ निश्चयेन जीवात्पृथग्भूत एव पुद्गलकर्मणः परिणाम इति निरूपयति ।
आत्मख्यातिः– यदि जीवस्य तन्निमित्तभूतविपच्यमानपुद्गलकर्मणा सहैव रागाद्यज्ञान परिणामो भवतीति वितर्कः तदा जीवपुद्गलकर्मणोः सहभूतसुधाहरिद्रयोरिव द्वयोरपि रागाद्यज्ञानपरिणामापत्तिः । अथ चैकस्यैव जीवस्य भवति रागाद्यज्ञानपरिणामः ततः पुद्गलकर्मविपाकाद्धेतोः पृथग्भूतो जीवस्य परिणामः । जीवात्पृथग्भूत एव पुद्गलद्रव्यस्य परिणामः ।
ज जीवेण सहचिय पुग्गलदव्वस्त कम्मपरिणामो । एवं पुग्गलजीवा हु दोवि कम्मत्तमावण्णा ॥ १४९ ॥ एकस्स दु परिणामो पुग्गलदव्वस्त कम्मभावेण । सा जीवभावदूहिं विणा कम्मस्स परिणामो ॥ १५०॥ यदि जीवेन सह चैव पुद्गलद्रव्यस्य कर्मपरिणामः । एवं पुद्गलजीव खलु द्वावपि कर्मत्वमापन्नौ ॥१४९॥ एकस्य तु परिणामः पुद्गलद्रव्यस्य कर्मभावेन । तज्जीवभावहेतुभिर्विना कर्मणः परिणामः || १५० ||
तात्पर्यवृत्तिः - एकस्स परिणामो पुग्गलदव्वस्स कम्मभावेण एकस्योपादानभूतस्य कर्मधर्गणायोग्यपुद्गलद्रव्यस्य द्रव्यकर्मरूपेण परिणामः यत एवं ता जीवभावहेदूहिं विणा कम्मस्स परिणामो तस्मात्कारणाज्जीवगत मिथ्यात्वरागादिपरिणामोपादान हेतुभिर्विनापि द्रव्यकर्मणः परिणामः स्यात् । इति पुण्यपापादिसप्तपदार्थानां पीठिकारूपे महाधिकारे जीवकर्मपुद्गलपरस्परोपादानकारणनिषेधमुख्यतया गाथात्रये - णाष्टमोंतराधिकारः समाप्तः
अथानंतर व्यवहारेण बद्धो निश्चयेनाबद्धो नीव इत्यादिविकल्परूपेण नयपक्षपातेन स्वीकारेण रहितं शुद्धपारिणामिकपरमभावग्राहकेन शुद्धद्रव्यार्थिकनयेन पुण्यपापादिपदार्थेभ्यो भिन्नं शुद्धसमयसारं गाथाचतुष्टयेन कथयतीति नवतराधिकारे समुदायपातनिका । तद्यथा अथ किमात्मनि वद्धस्पृष्टं किमवद्धस्पृष्ट कर्मेति प्रश्ने सति नयविभागेन परिहारमाह ।
आत्मख्यातिः – यदि पुद्गलद्रव्यस्य तन्निमित्तभूतरागाद्यज्ञानपरिणामपरिणतजीवेन सहैव कर्मपरिणामो भवतीति वितर्कः तदा पुद्गलद्रव्यजीवयोः सहभूत हरिद्रासुधयोरिव द्वयोरपि कर्मपरिणामापत्तिः अथ चैकस्यैव पुद्गलद्रव्यस्य भवति कर्मत्वपरिणामः ततो रागादिजीवाज्ञानपरिणामाद्धेतोः पृथग्भूत एव पुद्गलकर्मणः परिणामः । किमात्मनिवद्धास्पृष्ठं किमवद्धस्पृष्टं कर्मेति नयविभागेनाह ।
१४९ तमा गथा न व्याख्याता । किंतु गायात्रेयैणवाष्टमोंतराधिकारः समापित: