________________
सनातनजैनग्रंथमालायांव्रतादिकर्तव्यरूपः शोभनः पश्चादवतादिरूपो वर्जनीयः सचाशोभनः इति । अथ-एदेस हेदुभूदेस क. म्म इयवग्गणागयं जं तु एतेषु पूर्वोक्तेषु हेतुभूतेषु स मिथ्यात्वादिपंचप्रत्ययेषु कार्मणवर्गणागतं परिणतं यदभिमतं नवतरं पुद्गलद्रव्यं परिणमदे अठविहं णाणावरणादिभावहिं जीवस्य सम्यग्दर्शनज्ञानचारित्रैकपरिणतिरूपपरमसामयिकाभावे सति ज्ञानावरणादिद्रव्यकर्मरूपेणाष्टविधं परिणमतीति । अथतं खलु जीवणिवद्धं कम्मइयवग्गणागयं जझ्या तत्पूर्वोक्तसूत्रोदितं कर्मवर्गणायोग्यमभिनवं पुद्गलद्रव्यं जीवनिवद्धं जीवसंबद्धं योगवशेनागतं यदा भवति खलु स्फुटं तइया दु होदि हे जीवोपरिणामभावाणं तदा काले पूर्वोक्तेषूदयागतेषु द्रव्यप्रत्ययेषु सत्सु स्वकीयगुणस्थानानुसारेण जीवो हेतुः कारणं भवति केषां परिणामरूपाणां भावानां प्रत्ययानामिति । किंच उदयागतद्रव्यप्रत्ययनिमित्तेन मिथ्यात्वरागादि भावप्रत्ययरूपेण परिणम्य जीवो नवतरं कर्मबंधस्य कारणं भवतीति तात्पर्य । अयमत्र भावार्थः उदयागतेषु द्रव्यप्रत्ययेषु यदि जीवः स्वस्वभावं मुक्त्वा रागादिरूपेण भावप्रत्ययेन परिणमतीति तदा बंधो भवतीति नैवोदयमात्रेण घोरोपसर्गेपि पांडवादिवत्, यदि पुनरुदयमात्रेण बंधो भवति तदा सर्वदैव संसारएव । कस्मादिति चेत् संसारिणां सर्वदैव कर्मोदयस्य विद्यमानत्वात् । इति पुण्यपापसप्तपदार्थानां पीठिकारूपे महाधिकारेऽज्ञानिभावः पंचप्रत्ययरूपेण शुद्धात्मस्वरूपच्युतानां जीवानां बंधकारणं भवतीति व्याख्यानमुख्यत्वेन पंचगाथाभिः सप्तमोन्तराधिकारः समाप्तः ।
___ अतः परं जीवपुद्गलयोः परस्परोपादानकारणनिषेधमुख्यत्वेन गाथात्रयमित्यष्टमांतराधिकारे समुदायपातनिका । अथ निश्चयेन कर्मपुद्गलात्पृथग्भूतएव जीवस्य परिणाम इति प्रतिपादयति।
आत्मख्याति:- अतत्त्वोपलब्धिरूपेण ज्ञाने स्वदमानो अज्ञानोदयः । मिथ्यात्वासंयमकषाययोगोदयाः कर्महेतवस्तन्मयाश्चत्वारो भावाः । तत्त्वाश्रद्धानरूपेण ज्ञाने स्वदमानो मिथ्यात्वोदयः अविरमणरूपेण ज्ञाने स्वदमानोऽसंयमोदयः कलुषोपयोगरूपेण ज्ञाने स्वदमानः कषायोदयः शभाशभप्रवृत्तिनिवृत्तिव्यापाररूपेण ज्ञाने स्वदमानो योगोदयः । अथैतेषु पौद्गलिकेषु मिथ्यात्वाद्युदयेषु हेतुभूतेषु यत्पुद्गलद्रव्यं कर्मवर्गणागतं ज्ञानावरणादिभावैरष्टधा स्ववमेव परिणमते तत्खलु कर्मवर्गणागसं जीवनिवद्धं यदा स्यात्तदा जीवः स्वयमेवाज्ञानात्परात्मनोरेकत्वाध्यासेनाज्ञानमयानां तत्त्वश्रद्धानादीनां स्वस्य परिणामभावानां हेतुर्भवति । पुद्गलद्रव्यात्पृथग्भूतएव जीवस्य परिणामः ।
जीवस्सदु कम्मेण य सह परिणामा दु होति रागादी। एवं जीवो कम्मं च दोवि रागादिमावण्णा ॥१४७॥ एकस्स दु परिणामा जायदि जीवस्स रागमादीहि । ता कम्मोदयहेदू हि विणा जीवस्स परिणामो ॥१४॥ जीवस्य तु कर्मणा च सह परिणामाः खलु भवंति रागादयः । एवं जीवः कर्म च द्वे अपि रागादित्वमापन्ने ॥१४७॥ एकस्य तु परिणामो जायते जीवस्य रागादिभिः ।
तत्कर्मोदयहेतुभिर्विना जीवस्य परिणामः ॥१४८॥ तात्पर्यत्तिः-जीवस्स दु कम्मेण य सह परिणामा दु होति रागादी यदि जीवस्योपादानकारणभूतस्य कर्मोदयेनोपादानभूतेन सह रागादिपरिणामा भवंति । एवं जीवो कम्मं च दोवि रागादिमावण्णा एवं द्वयोर्जीवपुद्गलयोः रागादिपरिणामानामुपादानकारणत्वे सति सुधाहरिद्रयोखि द्वयोरागित्वं प्राप्नोति । तथा सति पुद्गलस्य चेतनत्वं प्राप्नोति स च प्रत्यक्षविरोध इति । अथ-एकस्स