________________
समयप्राभृतं । शानिनश्च स्वयं ज्ञानमयाद्भावाद्ज्ञानजातिमनतिवर्तमानाः सर्वे ज्ञानमया एव भावा भवेयु न पुनरञ्चाममयाः ।
अज्ञानमयभावानामज्ञानी व्याप्यभूमिकां । द्रव्यकर्मनिमित्तानां भावनामेति हेतुतां ॥६७१ ।
मिच्छुत्तस्सदु उदयं जं जीवाणां दु अतचसदहणं । असंजमस्स दु उदओ जं जीवाणां अविरदत्तं ॥१४२॥ अण्णाणस्स दु उदओ जं जीवाणं अतचउवलद्धी । जो दु कलुसोवओगो जीवाणं सो कसाउदओ ॥१४३॥ तं जाण जोगउदयं जो जीवाणं तु चिट्ठउच्छाहो । सोहणमसोहणं वा कायव्वो विरदिभावो वा ॥१४॥ एदेसु हेदुभूदेसु कम्मइयवग्गणागयं जं तु । परिणमदे अठविहं णाणावरणादिभावेहिं ॥१४५॥ तं खलु जीवाणवद्धं कम्मइयवग्गणागयं जइया । तइया दु होदि हेदू जीवो परिणामभावाणं ॥१४६॥
अज्ञानस्य स उदयो या जीवानामतत्त्वोपलब्धिः । मिथ्यात्वस्य तूदयो जीवस्याश्रद्दधानत्वं ॥१४२॥ उदयोऽसंयमस्य तु यजीवानां भवेदविरमणं तु | यस्तु कलुषोपयोगो जीवानां स कषायोदयः ॥१४॥ तं जानीहि योगोदयं यो जीवानां तु चेष्टोत्साहः । शोभनोऽशोभनो वा कर्तव्यो विरतिभावो वा ॥१४४॥ एतेषु हेतुभूतेषु कार्मणवर्गणागतं यत्तु ।। परिणमतेऽष्टविधं ज्ञानावरणादिभावैः ॥१४५॥ तत्खलु जीवनिबद्धं कार्मणवर्गणागतं यदा।
तदा तु भवति हेतु वः परिणामभावानां ॥१४६॥ तात्पर्यवृत्तिः-मिच्छत्तस्सदु उदयं जं जीवाणं अतच्च सद्दहणं मिथ्यात्वस्योदयो भवति जीवानामनंतज्ञानादिचतुष्टयरूपं शुद्धात्मतत्त्वमुपादेयं विहायान्यत्र यच्छृद्धानं रुचिरुपादेयबुद्धिः असंजमसदउदओ जं जीवाणं अविरदत्तं असंयमस्य च स उदयो भवति जीवानामात्मसुखसंवित्यभावे सति विषयकषायेभ्यो यदनिवर्त्तनमिति । अथ-अण्णाणस्स दु उदओ जं जीवाणं अतच उवलद्धी अज्ञानस्योदयो भवति यत्किं भेदज्ञानं विहाय जीवानां विपरीतरूपेण परद्रव्यैकत्वेनोपलब्धिः प्रतीतिः जो द कसाउवओगो सो जीवाणं कसाउदओ स जीवानां कषायोदयो भवति यः शांतात्मोपलब्धिलक्षणं शुद्धोपयोगं विहाय क्रोधादिकषायरूप उपयोगः परिणाम इति । अथ-तं जाण जोगउदयं जंजीवाणं तु चिउच्छाहो तं योगोदयं जानीहि त्वं हे शिष्य जीवानां मनोवचनकायवर्गणाधारण वीर्यातरायक्षयोपशमजानतः कर्मादानहेतुरात्मप्रदेशपरिस्पंदलक्षणः प्रयत्नरूपेण यस्तु चेष्टोत्साहो व्यापारोत्साहः सोहणमसोहणं वा कायन्वो विरदिभावो वा स च शुभाशुभरूपेण द्विधा भवति तत्र