________________
१४८
सनातनजैनग्रंथमालायांणामेनोपयमाना कुग्यादिपरद्रव्यं सेटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्रेतयतीति व्यवाहियते । तथा चेतयितापि दर्शनगुणनिर्भरस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणम मानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणमयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो दर्शनगुणनिर्भरस्व. भावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनो दर्शनगुणनिर्भरस्वभावस्य परिणामेनोत्पयमानमात्मनः स्वभावेन पश्यतीति व्यवाहियते ।
अपि च यथा च सैव सेटिका श्वेतगुणानिर्भरस्वभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यं चात्मस्वभावेनापरिणामयंती कुड्यादिपरद्रव्यनिमित्तकेनात्मनः श्वेतगुणानिर्भरस्वभावस्य परिणामेनोत्पद्यमाना कुड्यादिपरद्रव्यं सेटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्वेतयतीति व्यवाहियते । तथा चेतयितापि ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणामयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेनापोहतीति व्यवाहियते । एवमयमात्मनो ज्ञानदर्शनचरित्रपर्यायाणां निश्चयव्यवहारप्रकारः । एवमेवान्येषां सर्वेषामपि पर्यायाणां दृष्टव्यः ।
शुद्धद्रव्यनिरूपणार्पितमतेस्तत्त्वं समुत्पश्यतो नैकद्रव्यगतं चकास्ति किमपि द्रव्यांतरं जातुचित् । ज्ञानं ज्ञेयमवैति यत्तु तदयं शुद्धस्वभावोदयः किं द्रव्यांतरचुंबनाकुलधियस्तत्त्वाच्च्यवंते जनाः ॥१०॥ शुद्धद्रव्यस्वरसभवनास्किं स्वभावस्य शेष-मन्यदृव्यं भवति यदि वा तस्य किं स्यात्स्वभावः । ज्योत्स्नारूपं स्वपयति मुवं नैव तस्यास्तिभूमिमा॑नं ज्ञेयं कलयति सदा ज्ञेयमस्यास्ति नैव ॥१०६॥ रागद्वेषद्वयमुदयते तावदेतन यावद् ज्ञानं ज्ञानं भवति न पुनर्बाध्यतां याति बोध्यं । शान बानं भवतु तदिदं न्यक्कृताज्ञानभावं भावोभावो भवति तिरयन्येन पूर्णस्वभावः ॥१०७॥
कम्मं जं पुवकयं सुहासुहमणेयवित्थरविसेसं । तत्तो णियत्तदे अप्पयं तु जो सो पडिकमणं ॥४०३॥ कम्मं जं सुहमसुहं जझिय भावेण वज्झदि भविस्सं । तत्तो णियत्तदे जो सो पकक्खाणं हवे चेदा ॥४०४॥ जं सुहमसुहमुदिण्णं संपडिय अणेयवित्थरविसेसं । तं दोसं जो चेददि स खलु आलोयणं चेदा ॥४०५॥ णिचं पञ्चक्खाणं कुव्वदि णिचंपि जो पडिक्कमदि । णिचं आलोचेयदि सो हु चरित्तं हवदि चेदा ॥४०॥
कर्म यत्पूर्वकृतं शुभाशुभमनेकविस्तरविशेषं । । तस्माभिवर्तयत्यात्मानं तु यः स प्रतिक्रमणं ॥४०३॥ कर्म यच्छुभमशुभं यस्मिंश्च भावे बध्यते भविष्यत् । सस्माभिवर्तते यः स प्रत्याख्यानं भवति चेतयिता ॥४०४॥ यच्छुभमशुभमुदीर्ण संप्रति चानेकविस्तरविशेषं ।
तं दोषं चेतयते स खल्वालोचनं चेतयिता ॥४०५॥ ददि पाठोऽयं स. पुस्तके।