________________
समयसारप्राभृतं । नित्यं प्रत्याख्यानं करोति नित्यमपि यः प्रतिक्रामति ।
नित्यमालोचयति स खलु चरित्रं भवति चेतयिता ॥४०६॥ तात्पर्यवृत्ति:-णियत्तदे अप्पयंतु जो इहलोकपरलोकाकांक्षारूपख्यातिपूजालाभदृष्टश्रुतानुभूतभोगाकांक्षालक्षणनिदानबंधादिसमस्तपरद्रव्यालंबनोत्पन्नशुभाशुभसंकल्पविकल्परहिते शून्ये विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुभवनरूपाभेदरत्नत्रयात्मनिर्विकल्पपरमसमाधिसमुत्पन्नवीतराग सहजपरमानंदस्वभावसुखरसास्वादसमरसीभावपरिणामेन सालंबने भरितावस्थे केवलज्ञानाद्यनंतचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्योत्पादके कारणसमयसारे स्थित्वा यः कर्ता, आत्मानं कर्मतापन्नं निकतयति । कस्मात्सकाशात् ? कम्मं जं पुवकयं सुहासुहमणेयवित्थरविसेसं तत्तो . शुभाशुभमूलोत्तरप्रकृतिभेदनानेकविस्तरविस्तीर्ण पूर्वकृतं यत्कर्म तस्मात् सो पडिक्कमणं स पुरुष एवाभेदनयेन निश्चयप्रतिक्रमणं भवतीत्यर्थः । णियत्तदे जो अनंतज्ञानादिस्वरूपात्मद्रव्यसम्यक्श्रद्धानज्ञानानुभूति स्वरूपाभेदरत्नत्रयलक्षणे परमसामायिके स्थित्वा यः कर्ता आत्मानं निवर्तयति । कस्मात्सकाशात् ! कम्मं जं सुहमसुई जह्मियभावेण वज्झदि भविस्सं तत्तो शुभाशुभानेकविस्तरविस्तीर्ण भविष्यकर्म यस्मिन्मिथ्यात्वादिरागादिपरिणामे सति बध्यते तस्मात् सो पच्चक्खाणं हवे चेदा स एवंगुणविशिष्टस्तपोधन एवाभेदनयेन निश्चयप्रत्याख्यानं भवतीति विज्ञेयं । जो वेददि नित्यानंदैकस्वभाव शुद्धात्मसम्यश्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मके सुखदुःखजीवितमरणादिविषये सर्वोपेक्षासंयमे स्थित्या यः कर्ता वेदयत्यनुभवति जानाति । किं जानाति । जं यत्कर्म तं तत् । केन रूपेण ! दोसं दोषोयं मम स्वरूपं न भवति । कथं भूतं कर्म ! उदिण्णं उदयागतं । पुनरपि कथभूतं ? सुहमसुहं शुभाशुभं । पुनश्च किंरूपं ! अणेयवित्थरबिसेसं मूलोत्तरप्रकृतिभेदेनानेकविस्तरविस्तीर्ण । संपडिय संप्रति काले खलु स्फुटं । सो आलोयणं चेदा स चेतायता पुरुष एवाभेदनयेन निश्चयालोचनं भवतीति ज्ञातव्यं । णिचं पच्चक्खाणं कुव्वादि णिच्चंपि जो पडिक्कमदि णिच्च अलोचेदिय निश्चयरत्नत्रयलक्षणे शुद्धात्मस्वरूपे स्थित्वा यः कर्ता पूर्वोक्तनिश्चयप्रत्याख्यानप्रतिक्रमणालोचनानुष्ठानानि नित्यं सर्वकालं करोति सोदु चरित्तं हवदि चेदा स चेतयिता पुरुष एवाभेदनयेन निश्चयचारित्रं भवति । कस्मात् ! इति चेत् शुद्धात्मस्वरूपे चरणं चारित्रमिति वचनात् । एवं निश्चयप्रतिक्रमणप्रत्याख्याना लोचनाचारित्रव्याख्यानरूपेणाष्टमस्थले गाथाचतुष्टयं गतं ।।
अथेंद्रियमनोविषयेषु रागद्वेषौ मिथ्याज्ञानपरिणतमेव जीवं करोतीत्याख्याति
आत्मख्यातिः - यः खलु पुद्गलकर्मविपाकभवेभ्यो भावेम्यश्चेतयितात्मानं निवर्तयति स तत्कार णभूतं पूर्वकर्म प्रतिक्रामन् स्वयमेव प्रतिक्रमणं भवति । स एव तत्कार्यभूतमुत्तरं कर्म प्रत्याचक्षाणः प्रत्याख्यानं भवति । स एव वर्तमान कर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः, आलोचना भवति । एवमयं नित्यं प्रतिक्रामन् , नित्यं प्रत्याचक्षाणो नित्यमालोचयंश्च पूर्वकर्मकार्येभ्य उत्तरकर्मकरणेभ्या भावेभ्योत्यंत निवृत्तः, वर्तमानं कर्मविपाकमात्मनोऽत्यंतभेदेनोपलभमानः स्वस्मिन्नेव खलु ज्ञानस्वभावे निरंतरचरणा चारित्रं भवति । चारित्रं तु भवन् स्वस्य ज्ञानमात्रस्य चेतनात् स्वयमेव ज्ञानचेतना भवतीति भावः ।
ज्ञानस्य संचेतनयैव नित्यं प्रकाशते ज्ञानमतीव शुद्धं ।
अज्ञानसंचेतनया तु धावन् बोधस्य शुद्धिं निरुणद्धि बंधः ॥१०॥ णिदिदसंथुदवयणाणि पोग्गला परिणमंति वहुगाणि । ताणि सुणिदण रूसदि तूसदिय अहं पुणो भणिदो ॥४०७॥ पोग्गलदव्वं सदुत्तह परिणदं तस्स जदि गुणो अण्णो ।