________________
५८
सनातनजनग्रंथमालायांसरागमपि स्वसंवेदनज्ञानमस्तीति ? अनोत्तरं । विषयसुखानुभवानंदरूपं स्वसंवेदनज्ञानं सर्वजनप्रसिद्ध सरागमप्यस्ति । शुद्धात्मसुखादिभूतिरूपं स्वसंवेदनज्ञानं वीतरागमिति । इदं व्याख्यानं स्वसंवेदनज्ञानव्याख्यानकाले सर्वत्र ज्ञातव्यमिति भावार्थः । ततः स्थितमेतत् शुद्धात्मानुभूतिलक्षणसम्यग्ज्ञानान्नश्यति कर्मकर्तृत्वं ।
आत्मख्यातिः-यत्किल क्रोधोहमित्यादिवद्धर्मोहमित्यादिवच्च परद्रव्याण्यात्मीकरोत्यात्मानमणि परद्रव्यीकरोत्येवमात्मा, तदयमशेषवस्तुसंबंधविधुरनिरवधिविशुद्धचैतन्यधातुमयोप्यज्ञानादेव मनिपाधी कृतचैतन्यपरिणामतया तथाविधस्यात्मभावस्य कर्ता प्रतिभातीत्यात्मनो भूताविष्टध्यानाविष्टस्यव.. प्रेरित कर्तृत्वमूलमज्ञानं । तथाहिन्यथा खलु भूताविष्टोऽज्ञानाद्भूतात्मानावेकीकुर्वन्नमानुषोचितविशिष्टचेष्टावष्टंभनिर्भरभयंकरारंभगंभीरामानुषव्यवहारतया तथाविधस्य भावस्य कर्ता प्रतिभाति । तथायमात्माप्यज्ञानादेव भाव्यभावको परात्मानावेकीकुर्वन्नविकारानुभूतिमात्रभावकानुचितविचित्रभाव्यक्रोधादिविकारकरवितचैतन्यपरिणामविकारतया तथाविधस्य भावस्य कर्ता प्रतिभाति । यथा वा परीक्षकाचार्यादेशेन मुग्धः कश्चिन्महिषध्यानाविष्टो ज्ञानान्महिषात्मानावेकीकुर्वन्नात्मन्यभ्रंकषविषाणमहामहिषत्वाध्यासात्प्रच्युतमानुषोचितापवरकद्वारविनिस्सरणतया तथाविधस्य भावस्य कर्ता प्रतिभाति । तथायमात्माप्यज्ञानाद् ज्ञेयज्ञायको परात्मानावेकीकुर्वन्नात्मनि परद्रव्याध्यासान्नोइंद्रिविषयीकृतधर्माधर्माकाशकालपुद्गलजीवांतरनिरुद्धचैतन्यधातुतयतथेंद्रियविषयीकृतरूपिपदार्थतिरोहितकेवलबोधतया मृतककलेवरमूछितपरमामृतविज्ञानघनतया च तथाविधस्य भावस्थ कर्ता प्रतिभाति । ततः स्थितमेतद् ज्ञानानश्यति कर्तृत्वं ।
एदेण दु सो कत्ता आदा णिच्छयविहिं परिकहिदो। एवं खलु जो जाणदि सो मुंचदि सव्वकत्तित्तं ॥१०४॥ एतेन तु स कर्तात्मा निश्चयविद्भिः परिकथितः ।
एवं खलु यो जानाति स मुंचति सर्वकर्तृत्वं ॥१०॥ तात्पर्यवृत्तिः-एदेण दु सो कत्ता आदा णिच्छयविहिं परिकहिदो एतेन पूर्वोक्तगाथात्रयव्याख्यानरूपेणाचानभावेन स आत्मा कर्ता भणितः । कैर्निश्चयविद्भिर्निश्चयज्ञैः सर्वज्ञैः । तथाहिवीतरागपरमसामायिकसंयमपरिणताभेदरत्नत्रयस्य प्रतिपक्षभूतेन पूर्वगाथात्रयव्याख्यानप्रकारेणाज्ञानभावेन यदात्मा परिणमति, तदा तस्यैव मिथ्यात्वरागादिरूपस्याज्ञानभावस्य कर्ता भवति । ततश्च द्रव्यकर्मबंधो भवति । यदा तु चिदानंदैकस्वभावशुद्धात्मानुभूतिपरिणामेन परिणमति, तदा सम्यग्ज्ञानी भूत्वा मिथ्यात्वरागादिभावकर्मरूपस्याज्ञानभावस्य कर्ता न भवति । तत्कर्तृत्वाभावपि द्रव्यकर्मबंधोपि न भवति । एवं खलु जो जाणदि सो मुंचदि सबकत्तित्तं एवं गाथापूर्वार्द्धव्याख्यानप्रकारेण मनसि योसौ वस्तुस्वरूपं जानाति स सरागसम्यग्दृष्टिः सन्नशुभकर्मकर्तृत्वं मुंचति । निश्चयचारित्राविनाभाविवीतरागसम्यग्दृष्टिभूत्वा शुभाशुभसर्बकर्मकर्तृत्वं च मुंचति । एवमज्ञानात्कर्म प्रभवति संज्ञानानश्यतीति स्थितं । इत्यज्ञानिसज्ञानिजीवप्रतिपादनमुख्यत्वेन द्वितीयस्थले गाथाषदं गतं । एवं द्विक्रियावादिनिराकरणविशेषव्याख्यानरूपेण द्वादशगाथा गताः । अथ पुनरप्युपसंहाररूपेणैकादशगाथापर्यंतं द्विक्रियावादिनिराकरणविषये विशेषव्याख्यानं करोति । तद्यथा-परभावानात्मा करोतीति यद्व्यवहारिणो वदंति स व्यामोह इत्युपदिशति ।
. आत्मख्यातिः -- येनायमज्ञानात्परात्मनोरेकत्वविकल्पमात्मनः करोति तेनात्मा निश्चयतः कर्ता प्रतिभाति । यस्त्वेवं जानाति स समस्तं कर्तृत्वमुत्सृजति, ततः स खल्वकर्ता प्रतिभाति । तथाहि-इहायमात्मा किलाज्ञानीसन्नज्ञानादासंसारप्रसिद्धेन मिलितस्वादस्वादनेन मुद्रितभेदसंवेदनशक्तिरनादित एव स्यात् ततः परात्मानावेकत्वेन जानाति ततः क्रोधोहमित्यादिविकल्पमात्मनः करोति ततो निर्विकल्पादकृतकादेकस्माद्विशानघनात्प्रभ्रष्टो वारंवारमनेकविकल्पैः परिणमन् कर्ता प्रतिभाति । ज्ञानी, तु सन् ज्ञाना