________________
५९.
समयप्राभृतं ।
त्तदादिप्रसिद्ध्या प्रत्येकस्वादस्वादनेनोन्मुद्रितभेदसंवेदनशक्तिः स्यात् । ततोऽनादिनिधनानवरतस्वदमाननिखिलरसांतरविविक्तात्यंतमधुरचैतन्यैकरसोयमात्मा भिन्नरसाः कषायास्तैः सह यदेकत्वविकल्पकरणं तदज्ञानादित्येवं नानात्वेन परात्मानौ जानाति । ततोऽकृतकमेकं ज्ञानमेवाहं न पुनः कृतकोऽनेकः क्रोधादि - रपीति क्रोधोहमित्यादिविकल्पमात्मनो मनागपि न करोति ततः समस्तमपि कर्तृत्वमपास्यति । ततो नित्यमेवोदासीनावस्थो जानन् एवास्ते । ततो निर्विकल्पोऽकृतक एको विज्ञानघनो भूतोऽत्यंतमकर्ता प्रतिभाति । अज्ञातस्तु सतृणाभ्यवहारकारी ज्ञानं स्वयं किल भवन्नपि रज्यते यः । पीत्वा दधीक्षुमधुराम्लरसातिगृद्ध्या गां दोग्धि दुग्धमिव नूनमसौ रसालं ॥५७॥
अज्ञानान्मृगतृष्णिकां जलधिया धावंति पातुं मृगा अज्ञानात्तमसि द्रवंति भुजगाध्यासेन रज्जौ जनाः । अज्ञानाच्च विकल्पचक्रकरणाद्वातोत्तरंगांब्धिवत् शुद्धज्ञानमया अपि स्वयममी कर्त्री भवत्याकुलाः ॥५८॥ ज्ञानाद्विवेचकतया तु परात्मनार्यो जानाति हंस इव वाः पयसोर्विशेषं । चैतन्यधातुमचलं स सदाधिरूढो जानाति एव हि करोति न किंचनापि ॥१९॥ ज्ञानादेव ज्वलनपयसोरौष्ण्यशैत्यव्यवस्था ज्ञानादेवोल्लसति लवणस्वाद भेदव्युदासः । ज्ञानादेव स्वरसविकसन्नित्यचैतन्यधातोः क्रोधादेश्व प्रभवति भिदा भिंदती कर्तृभावं ॥ ६० ॥ अज्ञानं ज्ञानमप्येवं कुर्वन्नात्मानमंजसा । स्यात्कर्तात्मात्मभावस्य परभावस्य न क्वचित् ॥ ६१ ॥ आत्मा ज्ञानं स्वयं ज्ञानं ज्ञानादन्यत्करोति किं । परभावस्य कर्तात्मा मोहोयं व्यवहारिणां ॥ ६२॥ तथा हि
ववहारेण द एवं करेदि घडपडरथाणि दव्वाणि । करणाणि य कम्माण य णोकम्माणीह विविहाणि ॥ १०५ ॥ व्यवहारेण त्वात्मा करोति धेरथान् द्रव्याणि । करणानि च कर्माणि च नोकमा
विविधानि ॥ १०५ ॥
तात्पर्यवृत्तिः - बवहारेण दु एवं करेदिण देव्याणि यतो यथा अन्योन्यव्यवहारेणैवं तु पुनः घटपटरथादिबहिर्द्रव्याणीहापूर्वेण करोत्यात्मा करणाणि य कस्मौणि प-पोक म्माणीह विविहाणि तथाभ्यंतरेपि करणाणींद्रियाणि च कर्माणि इह जगति विविधानि कावादिद्रव्यकर्माणीहापूर्वेणाविशेषेण करोतीति मन्यते, ततोस्ति व्यामोह हारिणा । अथ स व्यामोहः
सत्यो न भवतीति कथयति ।
आत्मख्यातिः -- व्यवहारिणां हि यतो यथायमात्मात्मविकल्पव्यापाराभ्यां घटादिपरद्रव्यात्मकं बहिःकर्म कुर्वन् प्रतिभाति ततस्तथा क्रोधादिपरद्रव्यात्मकं च समस्तमंतः कर्मापि करोत्यविशेषादित्यस्ति व्यामोहः । स न सन्—
जदि सो परदव्वाणि य करिज्ज णियमेण तम्मओ होज । जा ण तम्मओ तेण सो ण तेसिं हवदि कत्ता ॥ १०६ ॥
यदि स परद्रव्याणि च कुर्यान्नियमेन तन्मयो भवेत् ।
यस्मान्न तन्मयस्तेन स न तेषां भवति कर्ता ॥ १०६ ॥
तात्पर्यवृत्तिः - ज़दि सो परदव्वाणि य करिज्ज नियमेण तम्मओ होज्ज यदि स आत्मा परद्रव्याणि नियमेनैकांतरूपेण करोति तदा तन्मयः स्यात् जह्मा ण तम्मओ तेण सो ण ते सिंहवदि कत्ता यस्मात्सहजशुद्धस्वाभाविकानंतसुखादिस्वरूपं त्यक्त्वा परद्रव्येन सह तन्मयो न भवति । ततः स
१ अत्र आदा इत्यपि पाठः ।