________________
समय प्राभृतं ।
मणसाए दुक्खवेमिय सत्ते एवं तु जं मदिं कुणास । सव्वावि स मिच्छा दुहिदा कम्मेण जदि सत्ता ॥ २८८॥ सच्छेण दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥ २८९ ॥
कायेन दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ॥ २८६ ॥ वाचा दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ||२८७|| मनसा दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्वाः ||२८८॥ शस्त्रेण दुःखयामि सत्वान् एवं तु यन्मतिं करोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि जीवाः ॥ २८९ ॥
तात्पर्यवृत्तिः कायेण इत्यादि स्वकायपापादयेन जीवाः दुःखिताः भवंति यदि चेत् ? तेषां जीवानां . स्वकीयपापकर्मोदयभावे भवतो किमपि कर्तुं नायाति इति हेतोः मनोवचनकायैः शस्त्रैश्च जीवान् दुःखितान् करोमि इति रे दुरात्मन् त्वदीया मतिर्मिथ्या । परं किं तु स्वस्थभावच्युतो भूत्वा त्वं पापमेव बध्नासि इति । अथ सुखिता अपि निश्चयेन स्वकीयशुभकर्मोदये सति भवतीति कथयति
-
कायेण च वायाइव मणेण सुहिदे करेमि सत्तेति । एवंपि हवदि मिच्छा सुहिदा कम्मेण जदि सत्ता ॥ २९०॥
कायेन च वाचा वा मनसा सुखितान् करोमि सत्वानिति । एवमपि भवति मिथ्या सुखिनः कर्मणा यदि सत्वाः ॥ २९०॥
१३९
तात्पर्यवृत्तिः - स्वकीयकर्मोदयेन जीवा यदि चेत् सुखिता भवंति । न च त्वदीयपरिणामेन तर्हि 'मनोवचन कायैर्जीवान् सुखितानहं करोमि इति भवदीया मतिर्मिथ्या । एवं तवाध्यवसानं स्वार्थकं न भवति । परं किं तु निरुपरागपरम चिज्ज्योतिः स्वभावे स्वशुद्धात्मतत्त्वमश्रद्दधानः, तथैवाजानन् अभावयंश्च तेन शुभ- परिणामेन पुण्यमेव बध्नाति इत्यर्थः ।
अथ स्वस्थभावप्रतिपक्षभूतेन च रागाद्यध्यवसानेन मोहितः सन्नयं जीवः समस्तमपि परद्रव्यमात्मनि नियोजयति इत्युपदिशति -
सव्वे करेदि जीवो अज्झवसाणेण तिरियणेरेइए । 'देवमणुवेपि सव्वे पुण्णं पावं अणेयविहं ॥ २९९ ॥ धमाधम्मं च तहा जीवाजीवे अलोगलोगं च । सव्वे करेदि जीवो अज्झवसाणेण अप्पाणं ॥ २९२॥ सर्वान् करोति जीवानध्यवसानेन तिर्यङ्ङ्गैरयिकान् । देवमनुजांच सर्वान् पुण्यं पापं च नैकविधं ।। २९९ ।।