________________
१३८
सनातैनजैनप्रथमालायांदुक्खिदसुहिंदे जीवे करेमि बंधेमि तह विमोचेमि । जा एसा तुज्झ मदी णिरच्छया सा हु दे मिच्छा ॥२८४॥
दुःखितसुखितान् जीवान् करोमि बनामि तथा विमोचयामि ।
सा एषा तव मतिः निरर्थिका सा खलु अहो मिथ्या ॥२८॥ तात्पर्यवृत्तिः - दुक्खिदसुदिहे जीवे करेमि बंधामि तह विमोचेमि दुःखितसुखितान् जीवान् करोमि, बध्नामि, तथा विमोचयामि जा एसा तुज्झ मदी णिरच्छया साहु दे मिच्छा या एषा तव मतिः सा निरर्थिका निष्प्रयोजना हु स्फुटं । दे अहो ततः कारणात् मिथ्या वितथा व्यलीका भवति । कस्मात् ! इति चेत् भवदीयाध्यवसाने सत्यपि परजीवानां सातासातोदयाभावात् सुखदुःखाभावः स्वकीयाशुद्धशुद्धाध्यवसानाभावात् बंधो मोक्षाभावश्चेति ॥
अथ कस्मादध्यवसानं स्वार्थक्रियाकारि न भवतीति चेत्
आत्मख्यातिः-परान् जीवान् दुःखयामि सुखयामीत्यादि बंधयामि वा यदेतदध्यवसानं तत्सर्वमपि परभावस्य परस्मिन्नव्याप्रियमाणत्वेन स्वार्थक्रियाकारित्वाभावात् खंकुसुमं लुनामीत्यध्यवसानवमिथ्यारूपं केवलमात्मनोऽनर्थायैव । कुतो नाध्यवसानं स्वार्थक्रियाकारि ? इति चेत्
अज्झवसाणणिमित्तं जीवा वझंति कम्मणा जदि हि । मुचंति मोक्खमग्गे ठिदा य ते किंकरोसि तुमं ॥२८५॥
अध्यवसाननिमित्तं जीवा वध्यंते कर्मणा यदि हि ।
मुच्यते मोक्षमार्गे स्थिताश्च किंकरोषि त्वं ॥२८५।। तात्पर्यवृत्तिः--अज्झवसाणणिमित्तं जीवा वझंति कम्पणा जदि हि मिथ्यात्वरागादि स्वकीयाध्यवसाननिमित्तं कृत्वा ते जीवा निश्चयेन कर्मणा वध्यते; इति चेत् मुच्चंति मोक्खमग्गे ठिदा यते शुद्धात्मसम्यक्त्वश्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयलक्षणे मोक्षमार्गे स्थिताः पुनर्मुच्यते यदि चेत्ते जीवाः किं करोसि तुमं तर्हि किं करोषि त्वं हे दुरात्मन् न किमपीति, त्वदीयाध्यवसानं स्वार्थक्रियाकारिन भवति।
अथ दुःखिता जीवाः स्वकीयपापोदयेन भवंति न च भवदीयपरिणामेनेति
आत्मख्यातिः-यत्किल बंधयामि मोचयामीत्यध्यवसानं तस्य हि स्वार्थक्रिया यद्वंधनं मोचनं जीवानां । जीवस्तु, अस्याध्यवसायस्य सद्भावेऽपि सरागवीतरागयोः स्वपरिणामयोः; अभावान्न बध्यते न मुच्यते। सरागवीतरागयोः स्वपरिणामयोः सद्भावात्तस्याध्यवसायस्याभावेऽपि बध्यते मुच्यते च, यतः परत्राकिंचित्करत्वान्नेदमध्यवसानं स्वार्थक्रियाकारि ततश्च मिथ्यैवेति भावः ।
अनेवाध्यवसानेन निष्फलेन विमोहितः ।
तत्किंचनापि नैवास्ति नात्मात्मानं करोति यत् ॥१६५।। कोयेण दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि । सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥२८६।। वाचाए दुक्खवेमिय सत्ते एवं तु जं मदिं कुणसि ।
सव्वावि एस मिच्छा दुहिदा कम्मेण जदि सत्ता ॥२८७॥ इत भारभ्य गाथापचकं मोपलब्धमात्मरव्यातौ ततो नास्त्यस्य गाथापंचकस्यात्मख्यातिः ॥