________________
१३७
समयप्राभृतं । तथापि च सत्ये दत्ते ब्रह्मणि, अपरिग्रहत्वे चैव ।
क्रियतेऽध्यवसानं यत्तेन तु बध्यते पुण्यं ॥ २८२ ॥ तात्पर्यवृत्तिः-एवमसत्येऽचौर्येऽऽब्रह्मणि परिग्रहे चैव यत्क्रियतेऽध्वसानं तेन पापं बध्यते इति प्रथमगाथा गता।
___ यश्चाचौर्ये सत्ये ब्रह्मचर्ये तथैवापरिग्रहत्वे यत्क्रियतेऽध्यवसानं तेन पुण्यं बध्यते इति व्रताव्रतविषये पुण्यपापबंधरूपेण सूत्रभूतगाथाद्वयं गतं । अतः परमिदमेव सूत्रद्वयं परिणाममुख्यत्वेन त्रयोदशगाथाभिर्विवृणोति तद्यथा
बाह्यं वस्तुं रागादि परिणामकारणं परिणामवस्तु बंधकारणमित्यावेदयति
आत्मख्यातिः-एवमयमज्ञानात् यो यथा हिंसायां विधीयतेऽध्यवसायः, तथा असत्यादत्ताब्रह्मपरिप्रहेषु यश्च विधीयते स सर्वोऽपि केवल एव पापबंधहेतुः यस्तु अहिंसायां यथा विधीयते, अध्यवसायः। तथा यश्च सत्यदत्तब्रह्मापरिग्रहेषु विधीयते स सर्वोऽपि केवल एव पुण्यबंधहेतुः । न च बाह्यवस्तु द्वितीयोऽपि बंधहेतुरिति शक्यं वक्तुं--
वत्थु पड्डुच्च जं पुण अज्झवसाणं तु होदि जीवाणं । ण हि वत्थुदो दु वंधो अज्झवसाणेण वंधोति ॥२८३॥
वस्तु प्रतीत्य यत्पुनरध्यवसानं तु भवति जीवानां ।
न च वस्तुतस्तु बंधोऽध्यबसानेन बंधोस्ति ॥ २८३ ॥ तात्पर्यवृत्तिः-वत्थु पडुच्च जं पुण अज्झवसाणं तु होदि जीवाणं बाह्यवस्तुचेतनाचेतनं पंचेंद्रियविषयभूतं प्रतीत्य आश्रित्य जीवानां तत्प्रसिद्धं रागाद्यध्यवसानं भवति ण हि वत्थुदो दु वंधो न हि वस्तुनः सकाशाद्वंधो भवति । तर्हि केन बंधः ? अज्झवसाणेण वंधोत्ति वीतरागपरमात्मतत्त्वभिन्नन रागद्यध्यवसानेन बंधो भवति । वस्तुनः सकाशाद्वंधो कथं न भवतीति चेत् अन्वयव्यतिरेकाभ्यां व्यभिचारात् । तथा हि बाह्यवस्तुनि सति नियमेन बंधो भवतीति-अन्वयो नास्ति, तदभावे बंधो भवतीति व्यतिरेकोऽपि नास्ति । तर्हि किमर्थ बाह्यवस्तुत्यागः ? इति चेत् रागाद्यध्यवसानानां परिहारार्थ । अयमत्र भावार्थः । बाह्यपंचेंद्रियविषयभूते वस्तुनि सति, अज्ञानभावात् रागाद्यध्यवसानं भवति तस्मादध्यवसाना ढुंगेभवतीति पारंपर्येण वस्तु, बंधकारणं भवति नच साक्षात् । अध्यवसानं पुनर्निश्चयेन बंधकरणमिति ।
एवं बंधहेतुत्वेन निर्धारितस्याध्यवसानस्य स्वार्थक्रियाकारित्वाभावेन मिथ्यात्वमसत्यत्वं दर्शयति
आत्मख्यातिः--अध्यवसानमेव बंधहेतुर्न तु बाह्यवस्तु तस्य बंधहेतोरध्यवसानस्य हेतुत्वेनैव चरितार्थत्वात् । तर्हि किमर्थो बाह्यवस्तुप्रतिषेधः ? अध्यवसानप्रतिषेधार्थः । अध्यवसानस्य हि बाह्यवस्तु, आश्रभूतं । न हि बाह्यवस्त्वनाश्रित्य, अध्यवसानमात्मानं लभते । यदि बाह्यवस्त्वनाश्रित्यापि, अध्यवसानं जायेत तदा यथा वीरसूसुतस्याश्रयभूतस्य सद्भावे वीरसूनुं हिनस्मीत्यध्यवसायो जायते, तथा बंध्यासुतस्याश्रयभूतस्यासद्भावेऽपि बंध्यासुतं हिनस्मीत्यध्यवसायो जायेत । नच जायते । ततो निराश्रयं नास्त्यध्यवसानमिति नियमः । तत एव चाध्यवसानाश्रयभूतस्य बाह्यवस्तुनोऽत्यंतप्रतिषेधः, हेतुप्रतिषेधेनैव हेतुमप्रतिषेधात् । नच बंधहेतुहेतुत्वे सत्यपि बह्यं वस्तु बंधहेतुः स्यात् ईर्यासमितिपरिणतयतींद्रपदव्यापाद्यमानवेगापतत्कालचोदितकुलिंगवत् बाह्यवस्तुनो बंधहेतुहेतोरबंधहेतुत्वेन बंधहेतुत्वस्यानैकांतिकत्वात् । अतो न बाह्यवस्तु जीवस्यातद्भावो बंधहेतुः । अध्ययसानमेव सस्य तद्भावो बंधहेतुः ।
एवंविधहेतुत्वेन निर्धारितस्याध्यवसानस्य स्वार्थक्रियाकारिलाभावेन मिथ्यात्वं दर्शयति१८