________________
१३६
सनातनजैनग्रंथमालायांमारवामि जीवधामि च सत्वान् यदेवमध्यवसितं ते ।
तत्पापबंधकं वा पुण्यस्य बंधकं वा भवति ॥ २७९ ।। तात्पर्यवृत्तिः--दुःखितसुखितान् सत्वान् करोम्यहं कर्ता यदेवमध्यवसितं रागाद्यध्यवसानं ते तव शुद्धात्मभावनाच्युतस्य सतः पापस्य पुण्यस्य वा तदेव बंधकारणं भवति नचान्यत् किमपि दुःखादिकं कर्तुमायाति । कस्मात् ? इति चेत् तस्य सुखदुःखपरिणामस्य जीवस्य स्वोपार्जितशुभाशुभकर्माधीनत्वात् इति ।
___मारयामि जीवयामि सत्वान् यदेवमध्यवसितं ते तव शुद्धात्मश्रद्धानज्ञानानुष्ठानशून्यस्य सतः पापस्य पुण्यस्य वा तदेव बंधकं भवति नचान्यत् किमपि कर्तुमायाति । कस्मात् ? इति चेत् तस्य परजीवस्य जीवितमरणादेः स्वोपार्जितकर्मोदयाधीनत्वात् इति ।
अथैवं निश्चयनयेन हिंसाध्यवसाय एव हिंसेत्यायातं विचार्यमाणं
आत्मख्यातिः-य एवायं मिथ्यादृष्टेरज्ञानजन्मारागमयोध्यवसायः स एव वंधहेतुः, इत्यवधारणीयं न च पुण्यपापत्वेन द्वित्वाद्वंधस्य तद्वित्वंतरमन्वेष्टव्यं ? एकेनैवानेनाध्यवसायेन दुःखयामि, मारयामि, इति सुखयामि, जीवयामीति च द्विधा शुभाशुभाहंकाररसनिर्भरतया द्वयोरपि पुण्यपापयोर्बधहेतुत्वस्याविराधोत् एवं हि हिंसाध्यावसाय एव हिंसेत्यायातं
अन्झवसिदेण वंधो सत्ते मारे हि माव मारे हि । एसो वंधसमासो जीवाणं णिच्छयणयस्स ॥ २८॥
अध्यवसितेन बंधः सत्वान् मारयतु मा वा मारयतु ।
एष बंधसमासो जीवानां निश्चगनयस्य ॥ २८० ॥ तात्पर्यवृत्तिः-अज्झवसिदेण बंधो सत्ते मारे हि मान मारे हि अध्यवसितेन परिणामेन बंधो भवति, सत्वान् मारय मा वा मारय एसो बंधसमासो एष प्रत्यक्षीभूतो बंधसमासः बंधसंक्षेपः । तद्विपरीतेन निरुपाधिचिदानंदैकलक्षणनिर्विकल्पसमाधिना मोक्षो भवतीति मोक्षसमासः । केषां ! नीवाणां णिच्छयणयस्स जीवानां निश्चयनयस्येति । एवं जीवितमरणसुखदुःखानि परेषां करोमीत्यध्यवसाय एव बंधकारणं, प्राणव्यपरोपरागादिव्यापारो भवतु मा भवतु । एवं सर्वं ज्ञात्वा रागाद्यपध्यानं त्यजनीयमिति व्याख्यानमुख्यत्वेन सूत्रषट्केन तृतीयस्थलं गतं ।।
अथ हिंसाध्यवसानं पूर्वमुक्तं तावत् इदानीं पुनः असत्याद्यव्रताध्यवसानैः पापं सत्याद्यवसानैश्च पुण्यबंधो भवतीत्याख्याति
आत्मख्यातिः-परजीवानां स्वकर्मोदयवैचित्र्यवशेन प्राणव्यपरोपः कदाचिद् भवतु, कदाचिन्माभवतु । य एव हिनस्मीत्यहंकाररसनिर्भरो हिंसायामध्यवसायः स एव निश्चयतस्तस्य बंधहेतुः, निश्चयेन परभावस्य प्राणव्यपरोपस्य परेण कर्तुमशक्यत्वात् । अथाध्यवसायं पापपुण्ययो बैधहेतुत्वेन दर्शयति--
एवमलिये अदत्ते अवह्मचेरे परिग्गहे चेव । कीरदि अन्झवसाणं जं तेण दु वज्झदे पावं ॥२८१ ॥ तहय अचोजे सच्चे वंभे अपरिगहत्तणे चेव । कीरदि अज्झवसाणं जं तेण दु वज्झदे पुण्णं ॥ २८२ ॥
एवमलीकेऽदत्तेऽब्रह्मचर्ये परिग्रहे चैव । । क्रियतेऽध्वसानं यत्तेन तु बध्यते पापं ॥ २८ ॥ .