________________
‘समयप्राभृतं । . यो म्रियते यश्च दुःखितो जायते कर्मोदयेन स सर्वः । समातु मारितस्ते दुःखितो वेति न खलु मिथ्या ॥२७५॥ यो न म्रियते न च दुखितो भवति सोपि च कर्मोदयन खलु जीवः ।
तस्मान मारितो नो दुःखितो वेति न खलु मिथ्या ॥२७॥ तात्पर्यवृति:-जो मरदि जोय दुहिदो जायदि कम्मोदयेण सो सन्चो यो म्रियते यश्च दुःखितो भवति स सर्वोऽपि कर्मोदयेन जायते तह्मा दु मारिदोदे दुहाविदो चेदि णह मिच्छा . तस्मात्कारणात्, मया मारितो दुःखीकृतश्चेति तवाभिप्रायोयं न खलु मिथ्या ? किंतु मिथ्यैव । जोण मरदि णय दुहिंदो सोविय कम्मोदयेण खलु जीवो यो न म्रियते यश्च दुःखितो न भवति कोऽसौ ! जीवः खलु स्फुटं स सर्वोऽपि कर्मोदयेनैव तह्मा ण मारिदो दे दहाविदो चेदि णह मिच्छा तस्मात् कारणात् न मारितो मया न दुःखीकृतश्चेति तवाभिप्रायोयं न खलु मिथ्या ! अपि तु मिथ्यैव अनेनापध्यानेन स्वस्थभावाच्च्युतो भूत्वा कर्मैव बनातीति भावार्थः ।
अथ स एव पूर्वसूत्रद्वयोक्तो मिथ्याज्ञानभावो मिथ्यादृष्टबंधकारणं भवतीति कथयति
आत्मख्यातिः-यो हि म्रियते जीवति वा दुःखितो भवति सुखितो भवति च स खलु कर्मोदयेनैव तदभावे तस्य तथा भवितुमशक्यत्वात् ततः, मयायं मारितः, अयं जीवितः अयं दुःखितः कृतः, अयं सुखितः कृतः, इति पश्यन् मिथ्यादृष्टिः ।
मिथ्यादृष्टेः स एवास्य बंधहेतुर्विपर्ययात ___ स एवाध्यवसायोयमज्ञानात्मास्य दृश्यते ॥१६४॥ एसा दुजा मदी दे दुःखिदसुहिदे करेमि सचेति । एसा दे मूढमदी सुहासुहं बंधदे कम्मं ॥ २७७ ॥
एषा तु या मातिस्ते दुःखितमुखितान् करोमि सत्वानिति । ___एषा त मूढ़मतिः शुभाशुभं बध्नाति कर्म ॥ २७७ ॥ तात्पर्यवृत्तिः -एगदुजा मदी दे दुःखिर सुहिदे करमि सनेति एषा या मतिस्ते तव दुःखितसुखितान् करोम्यहं सत्वान् एसा दे मृढ़नदी सुहासुई वंधदे कम्मं सैषा भवदीया मतिः हे मूढमते स्वस्थभावच्युतस्य शुभाशुभं कर्म बध्नाति न किमप्यन्यत्कार्यमस्ति इति ।
अथ निश्चयन रागाद्यध्यवसानमेव बंधहेतुर्भवति इति प्रतिपादनरूपेण तमेवार्थ दृढयति
आत्मख्याति:--परजीवानहं हिनस्मि न हिनस्मि दुःखयामि सुखयामि इति य एवायमज्ञानमयो ऽध्यवसायो मिथ्यादृष्टेः स एव स्वयं रागादिरूपत्वात्तस्य शुभाशुभबंधहेतुः । अथाध्यवसायं बंधहेतुत्वेनावधारयति
दुक्खिदसुहिदे सत्ते करेमि जं एस मज्झवसिदं ते । तं पाववंधगं वा पुण्णस्स य वंधगं होदि ॥२७॥ मारमि जीवावेमिय सत्ते जं एव मज्झवसिदंते । । तं पाववंधगं वा पुण्णस्स य वंधगं होदि ॥२७९॥
दुःखितसुखितान् सत्वान् करोमि यदेवमध्यवासितं ते । सत्पापबंधकं वा पुण्यस्य च बंधकं वा भवति ॥ २७८ ॥