________________
सनातनजैनग्रंथमालायांकर्मनिमित्तं सर्वे दुःखितसुखिता भवंति यदि सत्वाः । कर्म च न ददासि त्वं दुःखितसुखिताः कथं कृतास्ते ॥२७२।। कनिमित्तं सर्वे दुःखितमुखिता भवंति यदि सत्वाः।। कर्म च न ददासि त्वं कथं त्वं सुःखितः कृतस्तैः ॥२७॥ कर्मोदयेन जीवा दुःखितमुखिता भवंति यदि सर्वे ।
कर्म च न ददासि त्वं कथं त्वं दुखितः कृतस्तैः ।।२७४॥ तात्पर्यवृत्तिः-कम्मणिमित्तं सव्वे दुक्खिदसुहिदा हबंति जदि सत्ता यदि चेत् कर्मोदयनिमित्तं सर्वे सत्वा जीवाः सुखितदुःखिता भवति ? कम्मं च ण देसि तुमं दुःखिदसुहिदा कहं कदा ते तर्हि शुभाशुभकर्म च न ददासि त्वं कथं ते जीवात्वया सुखितदुःखिताः कृताः ! न कथमपि । .
कम्मणिमित्तं सव्वे दुःखिदसुहिदा हवंति जदि सत्ता यदि चेत्कर्मोदयनिमित्तं सर्वे जीवा सुखितदुःखिता भवंति कम्मं च ण देसि तुमं कह सुहिदो कदो तेहिं तर्हि शुभाशुभकर्म च न ददासि त्वं न प्रयच्छसि तेभ्यः कथं त्वं सुखीकृतस्तैः ! न कथमपि । ___ कम्मोदयेण जीवा दुःखिदसुहिदा हवंति जदि सव्वे यदि चेत् कर्मोदयेन सर्वे जीवा दुःखित सुखिता भवंति कम्मं च ण देसि तुमं कह तं दुहिदो कदो तेहिं तर्हि शुभाशुभकर्म च न ददासि लं न प्रयच्छसि तेभ्यः कथं त्वं सुखीकृतस्तैः ! न कथमपि ।
किं च तत्त्वज्ञानी जीवस्तावत् अन्यस्मै परजीवाय सुखदुःखे ददामि, इति विकल्पं न करोति । यदा पुनर्निर्विकल्पसमाधेरभावे सति प्रमादेन सुखदुःखं करोमीति विकल्पो भवति तदा मनसि चिंतयति-अस्य जीवस्यांतरंगपुण्यपापोदयो जातः अहं पुनर्निमित्तमात्रमेव, इति, ज्ञात्वा मनसि हर्षविषादपरिणामेन गर्व न करोति, इति । एवं परजीवानां जीवितमरणं सुखदुःखं करोमीति व्यख्यानमुख्यतया गाथासप्तकेन द्वितीयस्थलं गतं ।
अथ परोजनः परस्य निश्चयेन जीवितमरणसुखदुःखं करोतीति योसौ मन्यते स बहिरात्मेति प्रतिपादयति
आत्मख्यातिः-सुखदुःखे हि तावजीवानां स्वकर्मोदयेनैव तदभावे तयोर्भवितुमशक्यत्वात् । स्वकर्म च नान्येनास्य दातुं शक्यं तस्य स्वपरिणामेनैवोपाय॑माणत्वात् । ततो न कथंचनापि, अन्योन्यस्य सुखदुःखे कुर्यात् । अतः सुखितदुःखितान् करोमि । सुखितदुःखितश्च किये चेत्यध्यवसायो ध्रुवमज्ञानं ।
सर्व सदैव नियतं भवति स्वकीयकर्मोदयान्मरणजीवितदुःखसौख्यं । अज्ञानमेतदिह यत्तु परः परस्य कुर्यात् पुमान् मरणजीवितदुःखसौख्यं ॥१६२॥ अज्ञानमेतदधिगम्य परात्परस्य पश्यंति ये मरणजीवितदुःखसौरख्यं । कर्माण्यहंकृतिरसेन चिकीर्षवस्ते मिथ्यादृशो नियतमात्महनो भवति ॥१६३॥ जो मरदि जोय दुहिदो जायदि कम्मोदयेण सो सम्बो । तमा दु मारिदोदे दुहाविदो चेदि णहु मिच्छा ॥२७५॥ जो ण मरदि णय दुहिदो सोविय कम्मोदयेण खलु जीवो।
तमा ण मरिदोदे दुहाविदो चेदि णहु मिच्छा ॥२७६॥ १ 'सोचिय कम्मोदयेण सो चैव' पाठोयमात्मख्याती ।