________________
समयप्राभूतं ।
आयुरुदयेन जीवति जीव एवं भणति सर्वज्ञाः ।
आयुश्व न ददाति तव कथं तु ते जीवितं कृतं तैः ॥२७०॥
तात्पर्यवृत्तिः - आउउदयेण जीवदि जीवो एवं भांति सव्वण्हू आयुरुदयेन जीवति जीक एवं भणति सर्वज्ञाः । आउं च ण देसि तुमं कहं तए जीविदं कदं तेसिं आयुः कर्म च न ददासि त्वं तेषां जीवानां तस्यायुषः स्वकीयशुभाशुभपरिणामेनैव उपार्ज्यमाणत्वात् कथं त्वया जीवितं कृतं ? न कथमपि । किं च ज्ञानिना पुरुषेण स्वसंवित्तिलक्षणत्रिगुणत्रिगुप्तसमाधौ स्थातव्यं तावत् । तदभावे चाशक्यानुष्ठानेन प्रमादेन; अस्य मरणं करोमि, अस्य जीवितं करोमि, इति यदा विकल्पो भवति तदा मनसि चिंतयति अस्य शुभाशुभकर्मोदये सति, अहं निमित्तमात्रमेव जातः इति मत्वा मनसि रागद्वेषरूपोऽहंकारो न कर्तव्य इति भावार्थ: ।
अथ दुःखसुखमपि निश्चयेन स्वकर्मोदयवशाद् भवति, इत्युपदिशति
आत्मख्यतिः - जीवितं हि तावज्जीवानां स्वायुः कर्मोदयेनैव तदभावे तस्य भावयितुमशक्यत्वात् । आयुः कर्म च नान्येनान्यस्य दातुं शक्यं तस्य स्वपरिणामेनैव, उपार्थ्यमाणत्वात् । ततो न कथंचनापि अन्योऽन्यस्य जीवितं कुर्यात् । अतो जीवयामि जीव्ये चेत्यध्यवसायो ध्रुवमज्ञानं ।
दुःखसुखकरणाध्यवसायस्यापि, एषैव गति:
जो अप्पणादु मण्णदि दुःखिदसुखिदे करेमि सत्तेति । सो मूढो अण्णाणी गाणी एत्तोदु विवरदो ॥ २७१|| य आत्मना तु मन्यते दुःखितसुखितान् करोमि सत्वानिति । स मूढोऽज्ञानी ज्ञान्यतस्तु विपरीतः || २७१ ||
१३३
तात्पर्यवृत्तिः – जो अप्पणादु मण्णदि दुःखिदसुहिदे करेमि सत्तेति यः कर्ता आत्मनः संबंधित्वेन मन्यते किं ? दुःखितसुखितान् सत्वान् करोम्यहं । सो मूढ़ो अण्णाणी णाणी एत्तोदु विवरीदो यश्वाहमिति परिणामों निश्चितमज्ञानः स एव बंधकारणं स परिणामो यस्यास्ति स अज्ञानी बहिरात्मा । एतस्माद्विपरीतः परमोपेक्षासंयमभावनापरिणताभेदरत्नत्रयलक्षणे भेदज्ञाने स्थितो ज्ञानीति ।
अथ परस्य सुखदुःखं करोमीत्यध्यवसायकः कथमज्ञानी जात: ? इति चेत् —
आत्मख्यातिः - परजीवानहं दुःखितान् सुखितांश्च करोमि । परजीवैर्दुखितः सुखितश्च क्रियेहं, इत्यध्यवसायो ध्रुवमज्ञानं । स तु यस्यास्ति सोऽज्ञानित्वान्मिथ्यादृष्टिः । यस्य तु नास्ति स ज्ञानित्वात् सम्यग्दृष्टिः । कथमध्यवसायोऽज्ञानमिति चेत् ।
कम्मैणिमित्तं सव्वे दुक्खिद सुहिदा हवंति जदि सत्ता । कम्मं च ण देसि तुमं दुक्खिदसुहिदा कहं कदा ते ॥ २७२॥ कम्मणिमित्तं सव्वे दुक्खिदसु हिदा हवंदि जदि सत्ता । कम्मं च ण देसि तुमं कह तं सुहिदो कदो तेहिं ॥ २७३॥ कम्मोदयेण जीवा दुक्खिदसुहिदा हवंति जदि सव्वे | कम्मं च ण देसि तुमं कह तं दुहिदो कदो तेहिं ॥ २७४॥
१ आनरूपात “ कम्मोदयेण जीवा दुक्खिदसु हिदा हवंति जदि सव्वे " इति पाठः ।