________________
१४०
सनातनजैनग्रंथमालायांधर्माधर्म च तथा जीवाजीवौ अलोकलोकं च ।
सर्वान् करोति जीवः अध्यवसानेन आत्मानं ॥२९॥ तात्पर्यवृत्तिः- उदयागतनरकगत्यादिकर्मवशेन नारकतिर्यङ्मनुष्यदेवपापपुण्यरूपान् कर्मजनितभावान् आत्मानं करोति आत्मनः संबंधात्करोति । निर्विकारपरमात्मतत्त्वज्ञानाद् भ्रष्टः सन् नारकोऽहमित्यादि रूपेण, उदयागतकर्मजनितविभावपरिणामान् , आत्मनि योजयतीत्यर्थः।
धर्माधर्मास्तिकायजीवाजीवलोकालोकज्ञेयपदार्थान् अध्यवसानेन तत्परिछित्तिविकल्पेनात्मानं करोति, आत्मनः संबंधात् करोतीत्यभिप्रायः । किं च यथा घटाकारपरिणतं ज्ञानं घट इत्युपचारेणोच्यते । तथा धर्मास्तिकायादिशेयपदार्थविषये धर्मोऽयमित्यादि योऽसौ परिछित्तिरूपो विकल्पः सोप्युपचारेण धर्मास्तिकायादिर्भण्यते । कथं ? इति चेत् धर्मास्तिकायादिविषयत्वात् । स्वस्थभावच्युतोभूत्वा यदा धर्मास्तिकायोयमित्यादिविकल्पं करोति तदा तस्मिन् विकल्पे कृते सति धर्मास्तिकायादिरप्युपचारेण कृतो भवति इति । ____ अथ निश्चयेन परद्रव्याद्भिन्नोऽपि यस्य मोहस्य प्रभावात् आत्मानं परद्रव्ये योजयति स मोहो येषां नास्ति त एव तपोधना इति प्रकाशयति___ आत्मख्यातिः-यथायमेव क्रियागर्भहिंसाध्यवसानेन हिंसकं, इतराध्यवसानैरितरं च ; अत्मात्मानं कुर्यात्, तथा विपच्यमाननारकाध्यवसानेन नारकं, विपच्यमानतिर्यगध्यवसानेन तिर्यंचं, विपच्यमानमनुष्याध्यवसानेन मनुष्यं, विपच्यमानदेवाध्यवसानेन देवं, विपच्यमानसुखादिपुण्याध्यवसानेन पुण्यं, विपच्यमानदुःखादिपापाध्यवसानेन पापमात्मानं कुर्यात् । तथैव च ज्ञायमानधर्माध्यवसानेन धर्म, ज्ञायमानालोकाकाशाध्यवसायेनालोकाकाशमात्मानं कुर्यात् ।
विश्वाद्विभक्तोऽपि हि यत्प्रभावादात्मानमात्मा विदधाति विश्वं ।
मोहैककंदोध्यवसाय एष नास्तीह येषां यतयस्त एव ॥१६॥ एदाणि णत्थि जेसिं अज्झवसाणाणि एवमादीणि । ते असुहेण सुहेण य कम्मेण मुणी ण लिप्पंति ॥२९३।।
एतानि न संति येषामध्यवसानान्येवमादीनि ।
तेऽशुभेन शुभेन वा कर्मणा मुनयो न लिप्यंति ॥२९३॥ तात्पर्यवृत्तिः-एदाणि णत्थि जेसि अज्झवसाणाणि एवमादीणि एतान्येवमादीनि पूर्वोतानि शुभाशुभाध्यवसानानि कर्मबंधनिमित्तभूतानि न संति येषां ते असुहेण सुडेण य कम्मेण मुणी ण लिप्पति त एव मुनीश्वराः शुभाशुभकर्मणा न लिप्यते । किं च विस्तरः शुद्धात्मसम्यश्रद्धानज्ञानानुचरणरूपं निश्चयरत्नत्रयलक्षणं भेदविज्ञानं यदा न भवति तदाहं जीवान् हिनस्मीत्यादि हिंसाध्यवसानं नारकोहमित्यादि कर्मोदयाध्यवसानं, धर्मास्तिकायोयमित्यादि ज्ञेयपदार्थाध्यवसानं च निर्विकल्पशद्धात्मनः सकाशाद्भिन्नं जानातीति । तदा जानन् हिंसाध्यवसानविकल्पेन सहात्मानमभेदेन श्रद्दधाति जानाति अनुचरति च, ततो मिथ्यादृष्टिर्भवति मिथ्याज्ञानी भवति भित्र्याचारित्री भवति । ततः कर्मबंधो भवतीति भावार्थः।
कियंतं कालं परभावानात्मनि योजयतीति चेत्
आत्मख्यातिः-एतानि किल यानि त्रिविधान्यध्यवसानानि समस्तान्यपि शुभाशुभकर्मबंधनिमित्तानि स्वयमज्ञानादिरूपत्वात् । तथा हि यदिदं हिनस्मीत्याद्यध्यवसानं तत्त्वज्ञानमयत्वेन आत्मनः सदहेतुकज्ञप्त्यैकक्रियस्य रागद्वेषविपाकमयीनां हननादिक्रियाणां च विशेषाज्ञानेन विविक्तात्माऽज्ञानादस्ति तावदज्ञानं विविक्तात्माऽदर्शनादस्ति च मिथ्यादर्शनं; विविक्तात्मानाचरणादस्ति चाचारित्रं । यत्पुनरेष धर्मो ज्ञायत
१ अज्ञानादर्शनाचारित्रसंज्ञकानि ।