________________
समयप्राभृतं । इत्याद्यध्यवसानं तदप्यज्ञानमयत्वेनात्मनः सदहेतुकज्ञानैकरूपस्य ज्ञेयमयानां धर्मादिरूपाणां च विशेषाज्ञानेन विविक्तात्माऽज्ञानादस्ति तावदज्ञानं विविक्तात्मादर्शनादस्ति च मिथ्यादर्शनं विविक्तात्मानाचरणादस्ति चाचारित्रं । ततो बंधनिमित्तान्येवैतानि समस्तान्यध्यवसानानि । येषामैवेतानि न विद्यते त एव मुनिकुंजराः । केचन सदहेतुकज्ञप्त्यैकक्रियं सदहेतुकज्ञायकैकभावं सदहेतुकज्ञानैकरूपं च विविक्तात्मानं जानंतः सम्यक्पश्यतोऽनुचरंतश्च स्वच्छस्वच्छदोद्यदमंदांतोतिषोऽत्यंतमज्ञानादिरूपत्वाभावात् शुभेनाशुभेन वा कर्मणाखलु न लिप्येरन् ।
जो संकप्पवियप्पो ता कम्मं कुणद असुहसुहजणयं । अप्पसरूवा रिद्धी जाय ण हियए परिप्फुरइ ॥२९॥ . यावत्संकल्पविकल्पो तावत्कर्म करोत्यशुभशुभजनकं ।
आत्मस्वरूपा ऋद्धिः यावत् न हृदये परिस्फुरति ॥२९४॥ तात्पर्यवृत्तिः- यावत्कालं बहिर्विषये देहपुत्रकलत्रादौ ममेतिरूपं संकल्पं करोति अभ्यंतरे हर्षविषादरूपं विकल्पं च करोति तावत्कालमनंतज्ञानादिसमृद्धिरूपमात्मानं हृदये न जानाति । यावत्कालमित्थंभूत आत्मा हृदये न परिस्फुरति, तावत्कालं शुभाशुभजनकं कर्म करोतीत्यर्थः । अथाध्यवसानस्य नाममालामाह
वुद्धी ववसाओविय अज्झवसाणं मदीय विण्णाणं । इक्कठमेव सव्वं चित्तं भावोय परिणामो ॥२९५॥
बुद्धिर्व्यवसायोऽपि वा अध्यवसानं मतिश्च विज्ञानं ।
एकार्थमेव सर्व चित्तं भावश्च परिणामः ॥२९५॥ तात्पर्यवृत्तिः-बोधनं बुद्धिः, व्यवसानं व्यवसायः, अध्यवसानमध्यवसायः, मननं पर्यालोचनं मतिश्च, विज्ञायते अनेनेति विज्ञानं, चिंतनं चित्तं, भवनं भावः, परिणमनं परिणामः, इति शब्दभेदेऽपि नार्थभेद:-किं तु सर्वोऽपि समभिरूढनयापेक्षयाऽध्यवसानार्थ एव । कथं ! इति चेत् यथेंद्र सक्रः पुरंदर इति। एवं व्रतैः पुण्यं अवतैः पापमिति कथनेन सूत्रद्वयं पूर्वमेव व्याख्यातं तस्यैव सूत्रस्य विशेषविवरणार्थ बाह्यं वस्तु रागाद्यध्यवसानकारणं रागाद्यध्यवसानं तु बंधकारणमिति कथनमुख्यत्वने त्रयोदश गाथा गताः, इति समुदायेन पंचदशसूत्रैश्चतुर्थस्थलं समाप्तं ।
___ अतः परमभेदरत्नत्रयात्मकनिर्विकल्पसमाधिरूपेण निश्चयनयेन विकल्पात्मकव्यवहारनयो हि बाध्यत इति कथनमुख्यत्वेनं गाथाषट्कपर्यंतं व्याख्यानं करोति
आत्मख्यातिः- स्वपरयोविवेके सति जीवस्योध्यवसितिमात्रमध्यवसानं । तदेव च बोधनमात्रत्वाबुद्धिः । व्यवसानमात्रत्वात् व्यवसायः । मननमात्रत्वान्मतिज्ञानं । चेतनामात्रत्वाञ्चित्तं । चितोभवनमात्रत्वाद भावः । चितः परिणमनमात्रत्वात् परिणामः ।
सर्वत्राध्यवसानमेवमखिलं त्याज्यं यदुक्तं जिनैः तन्मन्ये व्यवहार एव निखिलोप्यन्याश्रयस्त्याजितः । सम्यनिश्चयमकमेव तदमी निष्कंपमाक्रम्य किं शुद्धज्ञानघने महिन्नि न निजे बध्नति संतो धृति ॥१६॥
एवं ववहारणओ पडिसिद्धो जाण णिच्छयणयेण ।
णिच्छयणयसल्लीणा मुणिणो पावंति णिव्वाणं ॥२९६॥ १ नेयमात्मख्याती गाथा नात आत्मख्यातिव्याख्यतस्याः । २ निश्चितिरित्यर्थः ।