________________
सनातनजैनग्रंथमालायांसंसारकारणं ततः संसारभयभीतेन मोक्षार्थिना समस्तरागादिविभावरहिते शुद्धद्रव्यगुणपर्याये स्वरूपे निज परमात्मनि भावना कर्त्तव्येत्यभिप्रायः । एवं स्वतंत्रव्याख्यानमुख्यत्वेन तृतीयस्थले गाथात्रयं गतं । अथ यथाकोप्यप्रतिबुद्धः अग्निरिंधनं भवति इंधनमग्निर्भवति अग्निरिंधनमासीत् इंधनमग्निरासीत् अग्निरिंधनं भविष्यति इंधनमग्निर्भविष्यतीति वदति तथा यः कालत्रयेपि देहरागादिपरद्रव्यमात्मनि योजयति सोऽप्रतिबुद्धो बहिरात्मा मिथ्याज्ञानी भवतीति प्ररूपयति ।
आत्मख्यातिः–यथा स्पर्शरसगंधवर्णादिभावेषु पृथुवुध्नोदराद्याकारपरिणतपुद्गलस्कंधेषु घटोयमिति घटे च स्पर्शरसगंधवर्णादिभावाः पृथुतुनोदराद्याकारपरिणतपुद्गलस्कंधाश्चामी इति वस्त्वभेदेनानुभूतिस्तथा कर्मणि मोहादिष्वंतरंगेषु, नोकर्मणि शरीरादिषु बहिरंगेषु चात्मतिरस्कारिषु पुद्गलपरिणामेष्वहमित्यात्मनि च कर्ममोहादयोऽतरंगा नोकर्मशरीरादयो बहिरंगाश्चात्मतिरस्कारिणः पुद्गलपरिणामा अमी इति वस्त्वभेदेन यावंतं कालमनुभूतिस्तावंतकालमात्मा भवत्यप्रतिबुद्धः । यदा कदाचिद्यथारूपिणो दर्पणस्य स्वपराकारावभासिनी स्वच्छतैव वन्हेरौष्ण्यं ज्वाला च तथा नीरूपस्यात्मनः स्वपराकारावभासिनी ज्ञातृतैव पुद्गलानां कर्म नोकर्मचेति स्वतःपरतो वा भेदविज्ञानमूलानुभूतिरुत्पश्यति तदैव प्रतिबुद्धो भविष्यति ।
कथमपि हि लभंते भेदविज्ञानमूलामचलितमनुभूतिं ये स्वतो वान्यतो वा । प्रतिफलननिमग्नानंतभावस्वभावैर्मुकुरवदविकारा संततं स्युस्तएव ॥ २१॥ ननु कथमयमप्रतिबुद्धो लक्ष्येत
अहमेदं एदमहं अहमेदस्सेव होमि मम एदं । अण्णं जं परदव्वं सचित्ताचित्तमिस्सं वा ॥२५॥ आसि मम पुव्वमेदं अहमेदं चावि पुवकालनि । होहिदि पुणोवि मझं अहमेदं चावि होस्सामि ॥२६॥ एयत्तु असंभूदं आदवियप्पं करेदि संमूढो । भूदत्थं जाणतो ण करेदि दु तं असंमूढो ॥२७॥ अहमेतदेतदहमेतस्यामि ममैतत् ।। अन्यद्यत्परद्रव्यं सचित्ताचित्तमिश्र वा ॥२५॥ आसीन्मम पूर्वमेतदेतत् अहमिदंच पूर्वकाले। भविष्यति पुनरपिमम अहमिदं चैव पुनर्भविष्यामि ॥२६॥ एतत्त्वसद्भूतमात्मविकल्पं करोति संमूढः ।
भूतार्थ जानन करोति तु तमसंमूढः ॥२७॥ तात्पर्यवृत्तिः-अहमेदं एदमहं अहं इदं परद्रव्यं इदं अहं भवामि । अहमेदस्सेव हि होमि ममएदं अहमस्य संबंधी भवामि मम संबंधीदं । अण्णं जं परद्रव्यं देहादन्यद्भिन्नं पुत्रकलत्रादि यत्पर द्रव्यं सचित्ताचित्तमिस्सं वा सचित्ताचित्तमिश्रं वा। तच्च गृहस्थापेक्षया सचित्तं स्त्र्यादि, अचित्तं सुवर्णादि, मिश्रं साभरणस्यादि । अथवा तपोधनापेक्षया सचित्तं छात्रादि, अचित्तं पिच्छकमंडलुपस्तकादि मिश्रमुपकरणसहितछात्रादि । अथवा सचित्तं रागादि अचित्तं पुद्गलादि पंच द्रव्यरूपं मिश्रं गुणस्थानजीवमार्गणादि परिणतसंसारिजीवस्वरूपमिति वर्तमानकालापेक्षया गाथा गता । आसीत्यादि आसि मम पुब्वमेदं आसीत् मम पूर्वमेतत् । अहमेदं चावि पुवकालहि अहमिदं चैव पूर्वकाले होहिदि पुणोबि