________________
समयप्राभृतं । १५ खल्यात्मा ज्ञानतादात्म्येपि क्षणमपि ज्ञानमुपास्ते स्वयं बुद्धबोधितबुद्धत्वकारणपूर्वकत्वेन ज्ञानस्योत्पत्तेः । तर्हि तत्कारणात्पूर्वमज्ञानएवात्मा नित्यमेवाप्रतिबुद्धत्वादेवमेतत् । तर्हि कियंतकालमयमप्रतिबुद्धो भवतीत्यभिधीयतां ।
कम्मे णोकमयि अहमिदि अहकं च कम्म णोकम्मं । जा एसा खलु बुद्धी अप्पडिबुद्ध हवदि ताव ॥२२॥ कर्मणि नोकर्मणि चाहमित्यहकं च कर्म नोकर्म यावदेषा खलु बुद्धिरप्रतिबुद्धो भवति तावत् ||२२||
तात्पर्यवृत्तिः - कम्मे कर्मणि ज्ञानावरणादिद्रव्यकर्मणि रागादिभावकर्मणि च णोकम्मल य शरीरादिनोकर्मणि च अहमिदि अहमिति प्रतीतिः अहकं च कम्म णोकम्मं अहकं च कर्म नोकर्मेति प्रतीति: यथा घटे वर्णादयो गुणा घटाकारपरिणतपुद्गलस्कंधाश्च वर्णादिषु घट इत्यभेदेन जा यावंतं कालं एसा एषा प्रत्यक्षीभूता खलु स्फुटं बुद्धी कर्मनोकर्मणा सह शुद्धबुद्धैकस्वभावनिजपरमात्मवस्तुनः एका बुद्धिः अप्पाढबुद्धो अप्रतिबुद्धः स्वसंवित्तिशून्यो बहिरात्मा हवदि भवति ताव तावत्कालमिति । अत्र भेदविज्ञानमूलं शुद्धात्मानुभूतिः स्वतः स्वयंबुद्धापेक्षया परतो वा बोधितबुद्धापेक्षया ये लभंते ते पुरुषाः शुभाशुभबहिर्द्रव्येषु विद्यमानेष्वपि मुकुरुंदवदविकारा भवतीति भावार्थ: । अथ शुद्धजीवे यदा रागादिरहित परिणामस्तदा मोक्षो भवति । अजीवे देहादौ यदा रागादि परिणामस्तदा बंधो भवतीत्याख्याति -
जीवेव अजीवे वा संपदि समय जत्थ उवजुत्तो । तत्व बंध मोक्खो होदि समासेण णिद्दिट्ठो || २३॥
जीवे वा अजीवे वा संप्रतिसमये यत्रोपयुक्तः ।
तत्रैव बंधः मोक्षो भवति समासेन निर्दिष्टः || २३॥
तात्पर्यवृतिः - जीवेव स्वशुद्धजीवे वा भजीवे वा देहादौ वा संपादेसमयमि वर्त्तमानकाले जत्थ उवजुतो यत्रोपयुक्तः तन्मयत्वेनोपादेयबुद्ध्या परिणतः तत्थेव तत्रैव अजीवे जीवे वा बंधमोक्खो अजीवदेहादौ बंधो, जीवे शुद्धात्मनि मोक्षः हवदि भवति समासेण णिद्दिद्वो संक्षेपेण सर्वज्ञैर्निर्दिष्ट इति । अत्रैव ज्ञात्वा सहजानंदैकस्वभावनिजात्मनि रतिः कर्त्तव्या । तद्विलक्षणे परद्रव्ये विरतिरित्यभिप्रायः ॥ अथाशुद्धनिश्चयेनात्मा रागादिभावकर्मणां कर्त्ता अनुपचरितासद्भूतव्यवहारनयेन द्रव्यकर्मणामित्यावेदयति ।
1
जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स । पिच्छयदो ववहारा पोग्गलकम्माण कत्तारं ॥२४॥
यं करोति भावं आत्मा कर्त्ता स भवति तस्य भावस्य । निश्रयतः व्यवहारनयात् पुद्गलकर्मणां कर्त्ता ||२४||
तात्पर्यवृत्तिः - जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स यं करोति रागादि भावमात्मा स तस्य भावस्य परिणामस्य कर्त्ता भवति । णिच्छयदो अशुद्धनिश्चयनयेन अशुद्धभावानां शुद्धानेश्चयनयेन शुद्धभावानां कर्त्तेति भावानां परिणमनमेव कर्तृत्वं । ववहारा अनुपचरितासद्भूतव्यवहारनयात् पोग्गलकम्माण पुद्गलद्रव्यकर्मादीनां कत्तारं कर्त्तेति । कर्तारं इति कर्मपदं कर्त्तेति कथं भवतीति श्वेत् प्राकृते क्वापि कारकव्यभिचारोलिंगव्यभिचारश्च । अत्र रागादीनां जीवः कर्त्तेति भणितं ते च