________________
भगवत्कुंदकुंदाचार्यः। काले गते कियत्यपि ततः पुनश्चित्रकूटपुरवासी श्रीमानेलाचार्यों वभूव सिद्धान्ततत्त्वज्ञः ॥ ७७ ॥ तस्य समीप सकलं सिद्धान्तमधीत्य वीरसेनगुरुः उपरि तमनिवंधनाद्यधिकारानष्ट च लिलेख ॥ १७८ ॥
कुन्दकुन्द उमास्वामी च । कुन्दकुन्दोमास्वामिनोः कः पास्परिकसंबंध आसीदित्यत्र मतात्रिकं-उमास्वामिनो गुरुरासीत्कुंदकुंद इत्याद्यं । कुंदकुंद एव शिष्य उमास्वामिन इति द्वितीयं । तृतीयं कुंदकुंद एवोमास्वामीति । परन्तु येषु सप्तसु श्रवेणवेलगुलशिलालेखेषु भगवत्कुंदकुंदसमुल्लेखस्तेषु-भगवदुमास्वामी श्रीकुंदकुंदांतेवासीति प्रथमप्रमाणात् । पट्टावलीलेखकश्च-उमास्वाम्येव कुंदकुंदस्य शिष्य इति संपुष्य समाविरभावि श्रीकुंदकुंदगुरुर्जिनचंद्र इति द्वितीयप्रमाणात् । अनेकेषु प्रथेषु कुंदकुंदस्यानुल्लिख्योमास्वमिनं गुरुं तदपर एव विलिखित इति तृतीय प्रमाणाञ्च नियतं विज्ञायतंऽस्माभिः-उमास्वाम्येव कुंदकुंदस्यांतवासीत्यस्मन्मतानुसार्याद्यस्यैव श्रेयस्त्वं सिद्धांतस्येति ।
श्रीमानुमास्वातिरयं यतीशस्तत्त्वार्थसूत्रं प्रकटीचकार । यन्मुक्तिमार्गे चरणोद्यतानां पाथेयमयं भवति प्रजानां ॥ १ ॥ तस्यैव शिष्योऽजनि गृद्धपिच्छो द्वितीयसंज्ञास्य वलाकपिच्छः ।
यत्सूक्तिरत्नानि भवन्ति लोके मुक्त्यंगनामोहनमंडनानि ॥ १ ॥ इति पद्यद्वयं यशोधरचरितभूमिकायां कस्यचिद्ग्रंथस्य समुद्भुतं । अमुना पद्यद्वयेन समुत्पद्यते गरीयसी संशतिरियं यद्गृध्रपिच्छ इतीदं नाम न भगवदुमास्वातेः किन्तु कस्यचित्तच्छिष्यस्य स च कुंदकुद एव स्याद् । पदावलीलेखकेनापि च गृध्रपिच्छ इति नाम कुंदकुंदस्य समाविरभावि परंतु भ्रांतिरेवेयमेकां. न्तेन । वलोकपिच्छः खलु भगवदुमास्वामिशिष्यस्यांन्तेवास्यासीत् समुपवर्णितश्चानेकत्र भगवदुमास्वाति शिष्याशिष्यत्वेन सः। निष्टंकितं चैतत् गृधपिच्छेतिनाम भगवदुमास्वातेरेव । यदि तच्छिष्यस्यापि श्रूयते तदा तस्य भगवदुमास्वामिशिष्यत्वेनैवेति.विभावनीय ।।
कुंदकुंद एवामास्वातिरिति तृतीयमतसमुल्लेखः सर्वार्थसिद्ध्यवतरणिकायां प्राकाशि निटववंशोद्भवपंडित-कल्लापाभरमापामहोदयैः परन्तु तयौरैक्ये वलवत्प्रमाणाभावात् , एकैश्च संस्कृतभाषायां गूढगभीरदर्शनशास्त्रप्रतिपादकः, अपरश्च प्राकृतथाषायां सरलतमभाषयाध्यात्मशास्त्रनिदर्शक इत्युभयो विभिन्नरचनासमालोचनाच्च न हि कुंदकुंदोमास्वामिनोरैक्यं प्रामाण्यमास्कंदति-तयोरैक्यकल्पनासमुत्पत्तिस्तूभयोर्विदेहगमनात्, उभयोर्वा गृध्रपिच्छेतिनामसमालोचनात् भ्रांत्याभूदिति निश्चीयते
भगवत्कुंदकुंदगुरुः __भगवत्कुंदकुंदस्य पाठयिता गुरुः क आसीदित्यत्रापि मतपार्थक्यं-पूर्वोद्धृतपट्टावलीपद्यद्वितयेन विभाव्यते माघनंद्याचार्यांतेवासी गुणचंद्रस्तच्छिष्य उत्तराधिकारी वा भगवान् कुंदकुंदः समभूत् इति व्यावर्णितः।
१ श्रीमूलसंघेऽजनि नंदिसंघस्तस्मिन् वलात्कारगणोऽतिरम्यः । तत्राभवत्पूर्वपदांशवेदी श्रीमाघनंदी नरदेववंद्यः ॥१॥ पदे तदीये मनिमान्यवत्तौ जिनादेिचद्रः समभदतन्तः । ततोऽभवत्पंच सुनामधामा श्रीपद्मनंदी मुनिचक्रवर्ती ॥१॥ २ श्रीगृध्रपिच्छमुनिपस्य बालकपिच्छः शिष्योऽजनिष्ट भुवनत्रयवर्तिकीर्तिः
चारित्रचंचुरखिलावनिपालमौलिमालाशिलीमुखविराजितपादपद्मः ॥ १॥ श्रवणवेलस्य ४० तमोलखः, . ३ उमाखातिः ४ कुंदकुंदः।