________________
सनातनजैनग्रंथमालायांगृध्रपिच्छ-वक्रमीव-एलाचार्येति नामत्रिकमन्यदप्यास्त श्रीमत्कुंदकुंदाचार्यस्येति पट्टावलीस्थपद्यपंक्तीनामासामत्र तात्पर्य ।
. कुतश्चिदसाधारणकारणसंपातात्तिरोभूतत्वात्पुरातनपट्टावलीनां तत्स्थाने-अनुमानतः, कल्पनावलतः पूर्वापरविरुद्धमिलितकियच्चित्पराचीनोल्लोखैश्चेमा विरचिताः संयभिनवाः पट्टावल्यः शतद्विशतसांवत्सरिकैर्भट्टारकैः । ततः समुपलब्धाधुनिकपट्टावल्यः सर्वथा संशीतिकारणत्वान्न प्रमाणतामंचंति । नंदिसंघपट्टावल्यपि तथाभूतैव । एवं च तल्लिखितगध्रपिच्छ इति नाम न भगवत्कुंदकुंदस्वामिनः किंतु-भगवदुमास्वामिनः उमास्वातेर्वा । अत्र नैकानि प्रमाणनि संति यथा
तत्त्वार्थसूत्रकर्तारं गृध्रपिच्छोपलाक्षतं वंदे गणींद्रसंजातमुमास्वामिमुनीश्वरं ॥ १ ॥
तत्त्वार्थप्रशस्तिः तस्यान्वये भूविदिते वभूव यः पद्मनंदिप्रथमाभिधानः श्रीकुंदकुंदादिमुनीश्वराख्यः सत्संयमादुद्गतचारणार्द्धः ॥ ४ ॥ अभूदुमास्वातिमुनीश्वरोऽसावाचार्यशब्दोत्तरगृध्रपिच्छः । तदन्वये तत्सदृशोऽस्ति नान्यस्तात्कालिकाशेषपदार्थवेदी ॥५॥
४० तमः श्रवणवेलगुललेख: तदीयवंशाकरतः प्रसिद्धादभूदद्यदेषा यतिरत्नमाला बभौ यदंतर्मणिवन्मुनींद्रस्स कुण्डकुण्डोदितचंडदंडः ॥१०॥ अभूदुमास्वातिमुनिः पवित्रे वंशे तदीये सकलार्थवेदी सूत्रीकृतं येन जिनप्रणीतं शास्त्रार्थजातं मुनिपुंगवेन ॥११॥ स प्राणिसंरक्षणसावधानो बभार योगी किल गृध्रपक्षान् तदा प्रभृत्येव बुधा यमाहुराचार्यशब्दोत्तरगृध्रपिच्छं ॥१२॥
मंगराजकविकृतशिलालेखः। एतत्प्रमाणातिरिक्तान्यन्यान्यपि-उमास्वामिनो गृध्रपिच्छनामत्वे संति तानि च संकीर्तितानि स्युर्यथावसरं पुरस्तात् ततोऽनया प्रमाणसमष्ट्या नियतं निर्धार्यते नाभवत् भगवत्कुंदकुंदस्य गृध्रपिच्छ इति नाम ।
विमुच्य प्रतिपादितपट्टावलीं वक्रग्रीवनामापि कुंदकुंदस्य नोपलभ्यते काप्यन्यत्र, किंतु तन्नाम्नापर एव कश्चिदाचार्यो व्यश्रौषीद्भुवि । श्रवणवेलगुणमल्लिषेणप्रशस्तौ समुदीरितश्चायं तदुल्लेखः
वक्रग्रीवमहामुनेर्दशशतग्रीवोऽप्यहींद्रो यथा
___ जातं स्तोतुमलं वचोवलमसौ किं भग्नवाग्मिनजं योऽसौ शासनदेवतावहुमतो हावक्रवादिग्रह
प्रीवोऽस्मिन्नथ शब्दवाच्यमवदन्मासान्समासेन षट् ॥ इति ॥ कथितमल्लिषेण प्रशस्तौ च ।
___ 'वंद्यो विभुर्भुवि न कैरिह कोण्डकुंदः" __ इति पूर्व कुंदकुदं समुपवर्ण्य ततश्च समंतभद्र सिंहनंदिनं च समुल्लिख्य पश्चाद्वक्रग्रीवः संस्तुतस्ततो समनुमन्यते भगवत्कुदकुंदतोऽन्य एव कश्चित् समजनि परवादिभुग्नभारतीग्रीवो वक्रग्रीवो विद्वान् न कुंदकुंद एव वक्रग्रीवः पट्टावलीलेखकाधारात् ।
.. नांचति किमपि गमकमत्रापि दृष्टिगोचरतां यत्कुदकुदस्वामिन एवाभूदेलाचार्य इत्यभिधयः । किंत्वपर एव कश्चित् प्रत्यपद्यताऽभिधयानया प्रत्यग्रविद्यो विद्वानेलाचार्यः । स चासचित्रकूटपुरवास्तव्यः । तत्समीपे च भगवज्जिानसेनगुरुवीरसेनः प्राध्यैष्ट सुकरतयानवद्यासद्धांतशास्त्रं । तत्र गमक