________________
श्रीमद्भगवत्कुंदकुंदाचार्याः ।
प्रिय पाठकमहाशयाः
श्रीमन्महावीरजिनवरपरमनिश्रेयसप्रापणानंतरमजनिषत नैकविधागमपयोमरालायमाना आर्हतहर्म्यस्तंभायमानाश्च भुत्रि गरीयांसोऽनेकविद्वांसः । परं पूज्यतामहत्तयोः परमावधिं तेषु भगवान् श्रीकुंदकुंदाचार्य एव समुपालभत । प्रतिवादिकरिनिकरपंचलपनायमानैर्गरीयोभिर्विद्वद्धिः समाविरभावि यत्र कुतश्चिदात्मनीनपरिचितिस्तत्र 'वयं भगवत्कुंदकुंदान्वयिनस्तदनुयायिनश्चेति प्रतिपादयद्भिरेव तैः सानंदमवाबोधि स्वीयं सौभाग्यं । अद्यत्वेऽपि भगवान् कुंदकुंदः तीर्थप्रवर्तकधर्मसंस्थापक सामान्येनैव दिगम्बरसमाजे प्रतिष्ठाप्यते । आर्हतमतामलतत्त्वतत्पवित्रता संरक्षकंषु भगवत्कुंदकुंद एवाभून्मुख्यः । दिगम्बर जैन संप्रदायस्य बहलतमांशः किल सांप्रतं भगवत्कुंदकुंदजल्पितसरणिशरण एव विभाव्यते, किंतु सत्यप्येवं भगवत्कुंदकुंदः क़ आसीत् ? कदा, क, परमपावनात्मनीनवैदुष्येण भारतभूमिं विभूषयामास ? इति नांशमात्रमपि जानीमो वयं । भक्तिवशंवदतया तद्विषयं किमपि वृत्तं परिचाययितुं समाश्रयतोऽपि परंपरागण भ्रमाकीर्णत्वात्तस्य नात्मकामनां कर्तुं फलवतीं पारयामः । ततः परिश्रमतमत्वेऽपि भगवत्कुंदकुंदपरिचय समाविर्भावाय नियतं विद्वद्भिः सुदृढप्रतिज्ञैर्भवितव्यमिति सनतिं तेषां पुरस्सरमास्माकीनाभ्यर्थना ।
भगवत्कुंदकुदविषयकं यत्किमपीतिवृत्तं समवाबोधि, समुपानीयते विदुषां पुरस्तात् तदस्माभिरत्र— नामविचारः
प्राथमिकः प्रधानश्चाभिधेयः श्रीमद्भगवत्कुंदकुंदस्य पद्मनंदीति । परं विश्रुतिर्वहलतयाद्यत्वेऽस्य महात्मनः कोण्डकुंदनाम्ना कुंदकुंदेन वा । आसीच्चायं कोण्डकुण्डाभिधनगरवास्तव्यस्ततोऽनुमीयते नागरिकाभिधयैवायमात्मविश्रुतिं प्रत्यपद्यत । कोण्ड कुंदेतिकर्णाटकभाषीयं नाम तस्य श्रुतिकटुकतया संस्कृतकविभिः समस्ति परावर्तितं श्रुतिमधुरकुंद कुंदरूपेणेति । श्रीमदिंद्रनंदि सूरिभिर्व्यलेखि स्वविरचितश्रुतावतारग्रंथेएवं द्विविधो द्रव्यभावपुस्तकगतः समागच्छन्
गुरुपरिपाट्या ज्ञातः सिद्धांत: कोण्डकुण्ड पुरे ॥ १६० ॥
श्रीपद्मनंदिमुनिना सोऽपि द्वादशसहस्रपरिमाण: ग्रंथपरिकर्मकर्ता षट्खंडाद्यत्रिखंडस्य ।। १६१ ।
अमुना पद्येन श्रीमन्मुनिवरपद्मनंदिवास : कोण्डकुण्ड पुर एव निश्चीयते । अन्येऽपि समभूवन् भूयांस आचार्याः कार्णाटकदेशे, समुपालेभिरे ये स्वनिवासस्थाननाम्नैव भुवि विश्रुतिं यथा श्रीतुम्बुलूराचार्यः । प्राथमिकं नाम श्रीमत्तुंबुल्लूराचार्यस्य वर्धनदेव आसीत् परं तुम्बुलूर ग्रामनिवासित्वादयमाचार्यपादो विशुश्राव तुम्बुलाचार्याभिधया । विलिखितं श्रुतावतारे तदुल्लेखसमये -
"
अथ तुम्बुलूरनामाचार्योऽभूत्तम्बुलूर सद्ग्रामे ' इति
नवमे दशमे च श्रवणवेलगुलशिलालेखे श्रीमत्कुंदकुंदाचार्यस्य समुल्लेखः खलु पद्मनंदि - कुंदकुंदेतिनामद्वितयेनैव कृतः । एवमन्यत्रापि । किंतु नंदिसंघपट्टावल्यामस्य पावनात्मनः कुंदकुंद - वक्रग्रीव - एलाचार्य-गृध्रपिच्छ-पद्मनंदीतिनामपंचकमभाणि -
ततोऽभवत्पंचसु नामधामा श्रीपद्मनंदी मुनिचक्रवर्ती ।
आचार्यः कुंदकुंदाख्यो वक्रग्रीवा महामतिः । एलाचार्यो गृध्रपिच्छः पद्मनंदीति तन्नुतिः ||४||