________________
सनातनजैनग्रंथमालायां___अथ श्रीकुमारनंदिसैद्धांतिकदेवशिष्यैः प्रसिद्धकथान्यायेन पूर्वविदेहं गत्वा वीतराग सर्वज्ञसीमंधरस्वामितीर्थकरपरमदेवं दृष्वा च तन्मुखकमलविनिर्गतदिव्यवर्णश्रवणादवधारितपदार्थसमूहैर्बुद्धात्मतत्त्वादिसारार्थ गृहीत्वा पुनरप्यागतैः श्रीमत्कुंद कदाचार्यदेवैः पद्मनंद्य परनामधेयरंतस्तत्त्वबहिस्तत्त्वगौणमुख्यप्रतिपत्त्यर्थं - अथवा-शिवकुमारमहाराजादिसंक्षेप रुचिशिष्यप्रतिबोधनार्थ विरचिते पंचास्तिकायमाभृतशास्त्रे यथाक्रमेणाधिकारशुद्धिपूर्वक तात्पयोर्थव्याख्यानं कथ्यते___इति श्रीमज्जयसेनाचार्यकरकल्पमहीरुहखचितसमयसारसंस्कृतटीकालिखितगद्यतश्च पमनंदीत्यपराभिधाविभूषितश्रीकुंदकुंदभगवान् कुमारनंदिसैद्धांतिदेवशिष्यः प्रकटीकृतः । किंतु मतद्वयमपीदमर्वाचीनतमत्वान्न प्रामाणिकी तथ्यतामवांचति । यतः--
- श्रुतावतारे--अहंदलेः पश्चान्माघनंदिनस्तदनंतरं च धरसेनादिगुरुणां समुल्लेखः कृतः न माघनंद्यनंतरं गुणचंद्रस्य नापि कुमारनंदिनः । श्रवणवेलगुललेखेष्वपि न कापि श्रीकुंदकुंद गुरोरुल्लेखो दृष्टिपथमवातरत् किंतु महीपतिचंद्रगुप्तवर्णनासमनंतरं कुंदकुंदभगवानेव समुपवर्णितः । प्राधा च गुरुपरंपरा श्रीमत्कुंदकुंदत एव तद्वर्णनायां । नंदिसंघस्य प्रधानारातीयः श्रीकुंदकुंद एवाजीगणत, इति न केनापि विजज्ञे क आसीत्कुंदकुंदभगवद्गुरुः ? स्वरचितग्रंथेष्वपि कापि नोल्लेखयांचक्रे कुंदकुंदभगवानात्मनीनं गुरुमिति ।
शिष्यपरंपरा श्रीमद्भगवत्कुंदकुंदाचार्यः समजनिष्ट नंदिसंघस्य नंदिगणस्य वा प्राथमिकाचार्यः । समस्ति कश्चित् १११५ तम-ए. डी. शताब्दिसन्निकृष्टः शिलालेखः । तत्र व्यलेखि विस्तरतया समुल्लेखः श्रीकुंदकुंदशिष्य परंपरायाः । स्थानाभावादप्रकाशयतोऽपि वयं तं, समुद्भावयामः कियन्तं चित्तत्सारं
श्रीमत्पद्मनंदिनोऽपराभिधेयः कुंदकुंद आसीत् । स च समियाय चारणद्धिं प्रखरामलाचारणमाहा. स्म्यात् । समजनि च तस्योमास्वातिः शिष्यः । गृध्रपिच्छाचार्यनाम्नापि स समुपालेभे भुवि विश्रति । नाभूच्च पद्मनंद्यन्वये गृध्रपिच्छसमः कश्चिदन्यः प्रखरविद्वान् । तस्य च नैकनरपतिपरिपूजितचरणः वोभवतिस्म वलाकपिच्छः शिष्यः । वलाकपिच्छस्यांतेवासी च तर्कव्याकरणसाहित्यादिनिगमागमजल निधिसमाहितपारो यतिश्च समजनि गुणनंदिविद्वान् । गुणनंदिनश्च त्रिशतशिष्या समभूवन् तेष्वपि कठिनतममपि विषयं सुलभतया व्याख्यातृत्वात्, प्रमाणतत्त्वावबोद्धृत्वात् सिद्धांतशास्त्रस्य वेत्तृत्वाच्च समन्निखिलांतेवासिशिरोमणिः श्रीदेवेंद्रविद्वान् । देवेंद्राचार्यांतेवासी सिद्धांतचक्रवर्ती वा कमिनीवल्लभश्चवभूव कलधौतनंदी ( कनकनंदी ( ? । ) तस्य च पुत्रो मदनशंकरो महेंद्रकीर्तिर्वा समजनि । तच्छिष्यश्च श्रीवीरनंदी स च कविचूडामणिः, गमकः महावादी, वाग्मी च जातः । इत्यादि ।
वतीयमंगराजरचितशिलालेखेऽपि पद्मनंदि-उमास्वाति-वलाकपिच्छेत्याचार्यत्रयवर्णनानंतरं सं. स्तुताः समंतभद्र-पूज्यपाद-अकलंकप्रभृतयः सूरयः । किंतु न कापि समुलिलिख समंतभदः किल वलाकपिच्छस्य शिष्य आसीदिति । परं तद्वंशपरंपरायामभूदिति लेखः । ४०तमे शिलालेखेऽपि यत्र बलाकपिच्छवर्णनानंतरं समंतभद्रपूज्यपादौ स्त्येतेस्म तत्र समंतभद्रः ~वलाकपिच्छपरंपरायामेव समजनि न तु तच्छिष्य इति समाविरभावि सुस्पष्टतया। .
परंतु लेखद्वितयमपीदं न नंदिसंघपट्टावलीसमतामवांचति । नदिसंघपट्टावल्यास्तु परंपरेयं-उमास्वातिः, लोहाचार्यः, यशःकीर्तिः, यशोनंदी, देवनंदी, (पूज्यपादः) गुणनंदीत्यादयः । संभाव्यते पट्टभेदाद्भवेदयं भेदः । पट्टावलीरचयितारो वा प्रमाणाभावेऽप्यनुमानतस्तं क्रमं लिलिखुरिति ।