________________
समयप्राभूतं ।
१७७ कातरूपं ये केचन परमागमोक्तं नयविभागमजानंतः समणा श्रमणाभासाः द्रव्यलिंगिनः प्ररूपयंति कथयति । तसि पयडी कुव्यादि अप्पाय अकारया सव्वे तेषां मतेनैकांतेन प्रकृतिः की भवति । आत्मानश्च पुनरकारकाः सर्वे । ततश्च कर्तृत्वाभावे कर्माभावः, कर्माभावे संसाराभावः । ततो मोक्षप्रसंगः । स च प्रत्यक्षविरोध इति । जैनमते पुनः परस्परसापेक्षनिश्चयव्यवहारनयद्वयेन सर्व घटत इति नास्ति दोषः । एवं सांख्यमतसंवाद दर्शयित्वा जीवस्यकांतेनाकर्तृत्वदूषणद्वारण सूत्रपंचकं गतं । अहवामण्णसि मज्झं अप्पा अप्पाणमप्पणो कुणदि हे सांख्य ! अथवा मन्यसे त्वं पूर्वोक्तकर्तृत्वदूषणभयान्मदीयमते जीवो ज्ञानी ज्ञानित्वे च कर्मकर्तृत्वं न घटते यतः कारणादज्ञानिनां कर्मबंधो भवति । कित्वात्मा कर्ता आत्मानं कर्मतापन्नं आत्मना करणभूतेन करोति ततः कारणादकर्तृवे क्षणं न भवति ? इति चेत् एसो मिच्छ. सहावो तुझं एवं मुणंतस्स अयमपि मिथ्यास्वभाव एवं मन्यमानस्य तव इति पूर्वपक्षगाथा गता। . अथ सूत्रत्रयेण परिहारमाह कस्मान्मिथ्यास्वभावः १ इति चेत् जे यस्मात् कारणात् अप्पा णिचासं खजपदेसो देसिदो दु समयम्मि आत्मा द्रव्यार्थिकनयेन नित्यस्तथा चासंख्यातप्रदेशो देशितः समये परमागमे तस्यात्मनः शुद्धचैतन्यान्वयलक्षणद्रव्यत्वं तथैवासंख्यातप्रदेशत्वं च पूर्वमेव तिष्ठति णवि सो सकदि तत्तो हीणो अहियो व कादं जे तद्द्व्यं प्रदेशत्वं च तत्प्रमाणादधिकं हीन वा कर्तुं नायाति-इति हेतोरात्मा करोतीति वचनं मिथ्येति । अथ मतं असंख्यातमानं जघन्यमध्यमोत्कृष्टभेदेन बहुभेदं तिष्ठति तेन कारणेन जघन्यमध्यमोत्कृष्टरूपेण संख्यातप्रदेशत्वं जीवः करोति तदपि न घटते यस्मात्कारणात् नीवस्स जीवरूवं वित्थरदो जाण लोगमित्तं हि जीवस्य जीवरूपं प्रदेशापेक्षया विस्तरतो महामस्यकाले लोकपूरणकाले वा अथवा जघन्यतः सूक्ष्मनिगोदकाले नानाप्रकारमध्यमावगाहशरीरप्रहणकाले वा प्रदीपवद्विस्तारोपसंहारयशेन लोकमात्रप्रदेशमेव जानीहि हि स्फुटं तत्तो सो किं हीणो अहिभो व कदं भणसि दव्वं तस्माल्लोकमात्रप्रदेशप्रमाणात्स जीवः किं हीनोऽधिको वा कृतो येन त्वं भणसि आत्म द्रव्यं कृतं किंतु नैवेति । अह जाणगो दु भावोणाणसहावेण अस्थि देदिमदं अथ हे शिष्य ! ज्ञायको भावः पदार्थः आत्मा ज्ञानरूपेण पूर्वमेयास्तीति मतं । सम्मत्तमेव तह्मा णवि अप्पा अप्पयं तु सयमप्पणो कुणदि यस्मानिर्मलानंदैकज्ञानस्वभावशुद्धात्मा पूर्वमेवास्ति तस्मादारमा कर्ता आत्मानं कर्मतापन्नं स्वयमेवात्मना कृत्वा नैव करोतीत्येकं दूषणं । द्वितीयं च निर्विकारपरमतत्त्वज्ञानी तु कर्ता न भवतीति पूर्वमेव भणितमास्ते । एवं पूर्वपक्षपरिहाररूपेण तुतीयांतररूपगाथाचतुष्टयं गतं । कश्चिदाहजीवात्प्राणा भिन्ना अभिन्ना वा यद्यभिन्नास्तदा यथा जीवस्य विनाशो नास्ति तथा प्राणानामापि विनाशो नास्ति कथं हिंसा ! । अथ भिन्नास्तहि जीवस्य प्राणघातेऽपि किमायातं ? तत्रापि हिंसा नास्तीति । तन कायादिपरिणामैः सह कथंचिद्भेदाभेदः । कथं ! इति चेत् तप्तायःपिंडवदर्तमानकाले पृथक्त्वं कर्तुं ना. याति तेन कारणेन व्यवहारेणाभेदः । निश्चयेन पुनर्मरणकाले कायादिप्राणा जीवेन सहैव न गच्छंति तेन कारणेन भेदः । यद्येकांतेन भेदो भवति तर्हि यथा परकीये काये छिद्यमाने भिद्यमानेऽपि दुःखं न भवति । तथा स्वकीयकायेऽपि दुःखं न प्राप्नोति न च तथा ? प्रत्यक्षविरोधात् । ननु तथापि व्यवहारेण हिंसा जाता नतु निश्चयेनेति ? सत्यमुक्तं भवता व्यवहारेण हिंसा तथा पापमपि नारकादिदुःखमपि व्यवहारेणेत्यस्माकं सम्मतमेव । तनारकादि दुःखं भवतामिष्टं चेत्तर्हि हिंसां कुरुत । भीतिरस्ति ! इति चेत् तर्हि त्यज्यतामिति । ततः स्थितमेतत् एकांतेन सांख्यमतवदकर्ता न भवति किं तर्हि रागादिविकल्परहितसमाधिलक्षणभेदज्ञानकाले कर्मणः कर्ता न भवति शेषकाले कर्तेति व्याख्यानमुख्यतयांतरस्थलत्रयेण चतुर्थस्थले त्रयोदश सूत्राणि गतानि ।
अथ यावत्कालं निजशुद्धात्मानमात्मत्वेन न जानाति पंचेंद्रियविषयादिकं परद्रन्यं च परत्वेन न जानात्ययं जीवः-तावत्कालं रागद्वेषाभ्यां परिणमतीत्यानेदयति-अथवा बाहिरंगपत्रंद्रियविषयमागसहका