________________
१७६
सनातनजनैग्रंथमालायाँ-.एषाचार्यपरंपरागतेदृशी श्रुतिः ॥ ३७० ।। तस्मान्न कोऽपि जीवोऽब्रह्मचारी युष्माकमुपदेशे । यस्मात्कमैव हि कर्माभिलपतीति यद्भणितं ॥ ३७१ ॥ यस्माद्धंति परं परेश हन्यते च सा प्रकृतिः । एतेनार्थेन भण्यते परशतं नामेति ॥ ३७२ ।। तस्मान्न कोऽपि जीव उपघातको युष्माकमुपदेशे । यस्मात्कर्मैव हि कर्म हंतीति भणितं ।। ३७३ ॥ एवं सांख्योपदेशे ये तु प्ररूपयंतीदृशं श्रमणाः । तेषां प्रकृतिः करोत्यात्मानश्चाकारकाः सर्वे ।। ३७४ ॥ अथवा मन्यसे ममात्मात्मानमात्मनः करोति । एष मिथ्यास्वभावस्तवैतन्मन्यमानस्य ॥ ३७५ ॥ . आत्मा नित्योऽसंख्येयप्रदेशो दर्शितस्तु समये ।। नापि स शक्यते ततो हीनोऽधिकश्च कर्तुं यत् ।। ३७६ ॥ जीवस्य जीवस्वरूपं विस्तरतो जानीहि लोकमानं हि । ततः स किं हीनोऽधिको वा कथं करोति द्रव्यं ॥ ३७७ ।। अथ ज्ञायकस्तु भावी ज्ञानस्वभावेन मतं ।
तस्मान्नाप्यात्मात्मानं स्वयमात्मनः करोति ॥ ३७८ ॥ तात्पर्यवृत्तिः-कर्मभिरज्ञानी क्रियते जीव एकांतेन तथैव च ज्ञानी क्रियते कर्मभिः । स्वापं निद्रा नीयते जागरणं तथैवेति प्रथमगाथा गता। कर्मभिः सुखीक्रियते दुःखीक्रियते तथैव च कर्मभिः । कर्मभिश्च मिथ्यात्वं नीयते तथैवासंयमं चैवैकांतेन द्वितीयगाथा गता । कर्मभिश्चैवोद्धोधस्तिर्यग्लोकं च भ्राम्यते कर्मभिश्चैव क्रियते शुभाशुभं यदन्यदपि किंचिदिति तृतीयगाथा गता। यस्मादेवं भाणितः कर्मैव करोति कर्मैव ददाति कर्मैव हरति यत्किंचिच्छुभाशुभं तस्मादेकांतेन सर्वे जीवा अकारका प्राप्ताः, ततश्च कर्माभावः कर्माभावे संसाराभावः सच प्रत्यक्षविरोधः-इति कमैकांतकर्तृत्वदूषणमुख्यत्वेन सूत्रचतुष्टयं गतं । कमैत्र करोत्येकांतेनेति पूर्वोक्तमर्थं श्रीकंदकुंदाचार्यदेवाः सांख्यमतसंवाद दर्शयित्वा पुनरपि समर्थयति । वयं ब्रमो द्वेषेणैव न भवदीयमतेऽपि भणितमास्ते पुंवेदाख्यं कर्म कर्तृ स्त्रीवेदकर्माभिलाषं करोति, स्त्रीवेदाख्यं कर्म पुंवेदकर्माभिलषत्येकांतेन नच जीवः । एवमाचार्यपरंपरायाः समागता श्रुतिरीदृशी। श्रुतिः कोऽर्थः ! आगमो भवतां सांख्यानामिति प्रथमगाथा गता । तथा सति किं दूषणं चेति ? एवं न कोपि जीवोऽस्त्यब्रह्मचारीयुष्माकमुपदेशे किंतु यथा शुद्धनिश्चयेन सर्वे जीवा ब्रह्मचारिणो भवंति तथैकांतेनाशुद्धनिश्चयेनापि ब्रह्मचारिण एव यस्मात्पुंवेदाख्यं कर्म स्त्रीवेदाख्यं कर्माभिलषति नच जीव इत्युक्तं पूर्व सच प्रत्यक्षविरोधः । इत्यब्रह्मकथनरूपेण गाथाद्वयं गतं । यस्मात्कारणात् परं कर्मस्वरूपं प्रकृतिः कर्बी हंति परेण कर्मणा सा प्रकृति रपि हन्यते न च जीवः । एतनार्थेन किल जैनमते परघातनामकर्मेति भण्यते । परं किंतु जैनमते जीवो हिंसा भावेन परिणमति परघातनाम साहकारिकारणं भवति इति नास्ति विरोध इति प्रथमगाथा गता। तस्मारिक दूषणं ? शुद्धपरिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन तावदपरिणामी हिंसापरिणामरहितो जीवो जैनागमे कथितः, कथं ? इति चेत् सव्वे सुद्धा हु सुद्धणया इति वचनात् व्यवहारेण तु परिणामीति । भवदीयमते पुनर्यथा शुद्धनयेन चाशुद्धनयेनाप्युपघातको हिंसकः कोऽपि नास्ति । कस्मात् ! इति चेम यस्मादेकांतेन कर्म चैवहिं स्फुटमन्यत् कर्म हंति, नचात्मेति पूर्वसूत्रे भणितमिति । एवं हिंसाविचारमुख्यत्वेन गाथाद्वयं गतं । एवं संखुवदेशं जे दु परूविंति एरि संसपणा एवं पूर्वोक्तं संख्योपदेशमीदृशमे