________________
१७८
सनातनजैनप्रथमा कार्या
रित्वेनाविक्षिप्तचित्त भावनोत्पन्न निर्विकारसुखामृतरसास्वाद वलेन विषयकर्मकायानां विघातं करोम्यहमिति-भजानन् स्वसंवित्तिरहित कायक्लेशनात्मानं दमयति तस्य भेदज्ञानार्थं शिक्षां प्रयच्छति -
---
आत्मख्यातिः -- कर्मैवात्मानमज्ञानिनं करोति ज्ञानावरणाख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैत्र ज्ञानिनं करोति ज्ञानावरणाख्यकर्मक्षयोपशममंतरेण तदनुपपत्तेः । कर्मैव स्वापयति निद्राख्यकर्मोदयमंतरेण तदनुपत्तेः । कर्मैव जागरयति निद्राख्यकर्मोदयक्षयोपशममंतरेण तदनुपपत्तेः । कर्मैव सुखयति सद्वेदाख्यकर्मोदयमतरेण तदनुपपत्तेः । कर्मैव दुःखयति असद्वेदाख्यकमार्दयमंतरेण तदनुपपत्तेः । कर्मैव मिथ्यादृष्टिं करोति मिथ्यात्वकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैवासंयतं करोति चारित्रमोहाख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैवोद्भूधिस्तिर्यग्लोकं भ्रमयति आनुपूर्व्याख्यकर्मोदयमंतरेण तदनुपपत्तेः । अपरमपि यद्यावत्किचिच्छुभाशुभभेदं तत्तावत्सकलमपि कर्मैव करोति प्रशस्ताप्रशस्तरागाख्यकर्मोदयमंतरेण तदनुपपत्तेः । यत एवं समस्तमपि स्वतंत्र कर्म करोति कर्म ददाति कर्म हरति च ततः सर्व एव जीवाः नित्यमेवैति नाकर्तार एवेति निश्विनुमः । किंच - श्रुतिरप्येनमर्थमाह पुंवेदाख्यं कर्म स्त्रियमभिलषति स्त्रीदाख्यं कर्म पुमांसमभिलषति इति वाक्येन कर्मण एव कर्माभिलाषकर्तृत्वसमर्थनेन जीवस्याब्रह्मकर्तृत्वसमर्थनेन प्रतिषेधात् । तथा यत्परेण हंति, येन च परेण हन्यते तत्परघातकर्मेति वाक्येन कर्मण एव कर्मघातकर्तृस्वसमर्थनेन जीवस्य घातकर्तृत्वप्रतिषेधाच्च सर्वथैवाकर्तृत्वज्ञापनात् । एवमीदृशं सांख्यसमयं स्वप्रज्ञापराधेन सूत्रार्थमबुध्यमानाः केचिच्छ्रमणाभासाः प्ररूपयंति तेषां प्रकृतेरेकांतेन कर्तृत्वाभ्युपगमेन सर्वेषामेव जी - वानामेकांतेनाकर्तृत्वापत्तेः-- जीवः कर्तेति कोपो दुःशक्यः परिहर्तुं । यस्तु कर्म, आत्मनो ज्ञानादिसर्वभावान् पर्यायरूपान् करोति, आत्मा त्वात्मानमेवैकं करोति ततो जीवः कर्तेति श्रुतिकोपो न भवतीत्यभिप्रायः स मिथ्यैव । जीवो हि द्रव्यरूपेण तावन्नित्योऽसंख्येयप्रदेशो लोकपरिमाणश्च । तत्र न तावन्नित्यस्यकार्यत्वमुपपन्नं कृतकत्वनित्यत्वयोरेकत्वविरोधात् । नचावस्थिताऽसंख्येयप्रदेशस्यैकस्य पुन स्कंधस्येव प्रदेशप्रक्षेपणाकर्षणद्वारेणापि कार्यत्वं प्रदेशप्रक्षेपणाकर्षणे सति तस्यैकत्वव्याघातात् । नचापि सकल लोकवस्तुविस्तारपरिमितनियतनिजाभोगसंग्रहस्य प्रदेशसंकोचनविकाशद्वारेण तस्य कार्यत्वं, प्रदेशसंकोचविकाशयोरपि शुष्कार्द्रचर्मवत्प्रतिनियत निजविस्ताराद्धीनाधिकस्य तस्य कर्तुमशक्यत्वात् । यस्तु वस्तुस्वभावस्य सर्वथापोढुमशक्यत्वात् ज्ञायको भावो ज्ञानस्वभावेन तिष्ठति, तथातिष्ठंश्च ज्ञायककर्तृत्वयोरत्यंतविरुद्धत्वान्मिथ्यात्वादिभावानां न कर्ता भवति । भवति च मिथ्यात्वादिभावाः ततस्तेषां कर्मैव कर्तृ प्ररूप्यत इति वासनोन्मेषः स तु नितरामात्मानं करोतीत्यभ्युपगममुपहत्येव ततो ज्ञायकस्य भावस्य सामान्या पेक्षया ज्ञानस्वभावावस्थितत्वेऽपेि कर्मजानां मिथ्यात्वादिभावानां ज्ञानसमयेऽनादिज्ञेयज्ञानशून्यत्वात् परमात्मेति जानतो विशेषापेक्षया त्वज्ञानरूपस्य ज्ञानपरिणामस्य करणात्कर्तृत्वमनुमंतव्यं तावद्यावत्तदादिज्ञेयज्ञानभेदविज्ञानपूर्णत्वादात्मानमेवात्मेति जानतो विशेषापेक्षयापि ज्ञानरूपेणैव ज्ञानपरिणामेन परिणममानस्य केवलं ज्ञातृत्वात्साक्षादकर्तृत्वं स्यात् ।
मा कर्तारममी स्पृशं पुरुषं सांख्या इवाप्यार्हताः कर्तारं कलयंतु तं किल सदा भेदावबोधादधः । तूद्धतबोधधामनियतं प्रत्यक्षमेनं स्वयं पश्यंतु च्युतकर्तृभावमचलं ज्ञातारमेकं परं ॥ ९५ ॥
क्षणिकमिदमिहैकः कल्पयित्वात्मतत्त्वं निजमनसि विधत्ते कर्तृभोक्त्रोर्विभदं । अपहरति विमोहं तस्य नित्यामृतौघैः स्वयमयमभिषिंचश्चिचमत्कार एव ॥ ९६ ॥
वृत्त्यंशभेदतोऽत्यंतं वृत्तिमन्नाशकल्पनात्
अन्यः करोति भुंक्तेऽन्यः इत्येकांतश्चकास्तु मा ।
१ व्याघातात् पाठोऽयं ख. पुस्तके | २ ऊर्ध्वं मिध्यात्वरूपविभाव परिणामध्वंसानंतरं - उद्धतम विलंबेन ज्ञेयमाहि यद्बोधधाम ज्ञानतेजस्तत्र नियतं तत्परं ।