________________
समयप्रारलं ।
१७९ दंसणणाणचरितं किंचिवि णत्थि दु अचेदणे विसए । तमा किं घादयदे चेदयिदा तेसु विसएसु ॥३७९॥ दसणणाणचरित्तं किंचिवि णाथि दु अचेदणे कम्मे । तह्मा किं घादयदे चेदयिदा तेसु कम्मेसु ॥३८०॥ दसणणाणचरित्तं किंचिवि णत्थि दु अचेदणे काये । तह्मा किं घादयदे चेदयिदा तेसु कायेसु ॥३८१॥ णाणस्स दंसणस्स य भणिदो घादो तहा चरित्तस्स । णवि तझि कोणव पुग्गलदव्वे घादो दु णिहिट्ठो ॥३८॥ जीवस्स जे गुणा केई णत्थि ते खलु परेसु दव्वेसु । तह्मा सम्मादिहिस्स पत्थि रागो दु विसएसु ॥३८३॥ रागो दोसो मोहो जीवस्सेवदु अणण्ण परिणामा। एदेण कारणेण दु सदादिसु णत्थि रागादि ॥३८४॥
दर्शनज्ञानचरित्रं किचिदपि नास्ति त्वचेतने विषये । तस्माकि यातयति चेतयिता तेषु कायेषु ।।३७९।। दर्शनज्ञानचरित्रं किंचिदपि नास्ति त्वचेतने कर्मणि । तस्माकिं घातयति चेतयिता तेषु कर्मसु ॥३८०॥ दर्शनज्ञानचरित्रं किंचिदपि नास्ति त्वचेतने काये । तस्मात् किं घातयति चेतयिता तेषु कायेषु ॥३८१॥ ज्ञानस्य दर्शनस्य भणितो घातस्तथा चरित्रस्य । नापि तत्र पुद्गलद्रव्यस्य कोऽपि घातो निर्दिष्टः ॥३८२॥ जीवस्य ये गुणाः केचिन्न संति खलु ते परेषु द्रव्येषु । तस्मात्सम्यग्दृष्टर्नास्ति रागस्तु विषयेषु ॥३८३॥ रागो द्वषो मोहो जीवस्यैव चानन्यपरिणामाः
एतेन कारणेन तु शब्दादिषु न संति रागादयः ॥३८४॥ सात्पर्यवृत्तिः-दर्शनज्ञानचारित्रं किमपि नास्ति । केषु शब्दादिपंचेंद्रियविषयेषु ज्ञानावरणादि द्रव्यकर्मसु औदारिकादिपंचकायेषु । कथंभूतेषु तेषु ? अचेतनेषु । तस्मात्किं घातयते चेतयिता आत्मा सेषु जडस्वरूपविषयकर्मकायेषु ! न किमपि । किंच शब्दादिपंचेंद्रियाभिलाषरूपो ज्ञानावरणादिद्रव्यकर्मबंधकारणभूतः कायममत्वरूपश्च योऽसौ मिथ्यात्वरागादिपरिणामो. मनसि तिष्ठति तस्य घातः कर्तव्यः ते च शब्दादयो रागादीनां बहिरंगकारणभूतास्त्याज्याः-इति भावार्थः । तस्यैव पूर्वोक्तगाथात्रयस्य विशेषविवरणं करोति-तद्यथा णाणस्स दंसणस्स य भणिदो घादो सहा चरित्तस्स शब्दादिपंचेंद्रियाभिलाषरूपेण कायममत्वरूपेण वा ज्ञानावरणादिकर्मबंधनिमित्तमनंतानुबंध्यादिरागद्वेपरूपं यन्मनसि मिथ्याज्ञानं तिष्ठति तस्य मिथ्याज्ञानस्य निर्विकल्पसमाधिप्रहरणेन सवे|तो भणितः न केवलं मिथ्याज्ञानस्य मिथ्या