________________
सनातमजैमग्रंथमालायादर्शनस्य च । तथैव मिथ्यात्वचारित्रस्य च णवि तमि कोधि पुग्गलदव्वे पादोदु णिविटा नच चेतने शन्दादिविषयकर्मकायरूपे पुद्गलद्रव्ये कोऽपि घातो निर्दिष्टः । किं च यथा घटाधारभूते हते सति घटो हतो न भवति तथा रागादिनिमित्तभूते शब्दादिपंचेंद्रियहतेऽपि सति मनसि गता रागादयो हता न भवंति नचान्यस्य घाते कृते सत्यन्यस्य घातो भवति । कस्मात् ? अतिप्रसंगादिति भावः । जीवस्स जे गुणा केई णत्थि ते खलु परेसु दव्येसु यस्माज्जीयस्य ये केचन सम्यक्त्वादयो गुणास्ते परेषु परद्रव्येषु शब्दादिविषयेषु न संति खल स्फुटं तमा सम्मादिहिस्स पत्थि रागो दु विसयेसु तस्मात्कारणानिर्विषयस्वशुद्धात्मभावानोत्थसुखतृप्तस्य सम्यग्दृष्टेर्विषयेषु रागो नास्तीति रागो दोसो मोहो जीवस्स दु जे अणण्णपरिणामा रागद्वेषमोहा यस्मादज्ञानिजीवस्याशुद्धनिश्चयेनाभिम परिणामाः । एदेण कारणे ण दु सदादिमु णत्थि रागादी तेन कारणेन शब्दादिमनोज्ञामनोज्ञपंचें द्रियविषयेष्ववेतनेषु यद्यप्यज्ञानी जीवो भ्रांतिज्ञानेन शब्दादिषु रागादीन् कल्पयत्यारोपयति तथापि शब्दा दिषु रागादयो न संति। कस्मात् शब्दादीनामचेतनत्वात् ततःस्थितं तावदेव रागद्वेषद्वयमुदयते बहिरात्मनो यावन्मनसि त्रिगुप्तिरूपं स्वसंवेदनज्ञानं नास्ति । इति गाथाषट्कं गतं ।
एवमेतदायाति शब्दादींद्रियविषया अचेतनाश्चेतना रागाद्युत्पत्तौ निश्चयेन कारणं न भवंति
आत्मख्यात्तिः-यद्धि यत्र भवति तत्तद्वाते हन्यत एव यथा प्रदीपघाते प्रकाशो हन्यते । यत्र च यद्भवति तत्तद्घाते हन्यते यथा प्रकाशघाते प्रदीपो हन्यते । यत्तु यत्र न भवति तत्तद्घाते न हन्यते यथा घटप्रदीपघाते घटो न हन्यते । तथात्मनो धर्मा ज्ञानदर्शनचारित्राणि पुद्गलद्रव्यघातेऽपि न हन्यते, नच दर्शनज्ञानचारित्राणां घातेऽपि पुद्गलद्रव्यं हन्यते, एवं दर्शनज्ञानचारित्राणि पुद्गलद्रव्ये न भवंतीत्यायाति अन्यथा तराते पुद्गलद्रव्यघातस्य, पुद्गलद्रव्यघाते तद्घातस्य दुर्निवारत्वात् । यत एवं ततो ये यावतः केचनापि जीवगुणास्ते सर्वेऽपि परद्रव्येषु न संतीति सम्यक् पश्यामः । अन्यथा अत्रापि जीवगुणघाते पुद्गलद्रव्यघातस्य पुद्गलद्रव्यघाते जीवगुणघातस्य च दुर्निवारत्वात् । यद्येवं तर्हि कुतः सम्यग्दृष्टे र्भवति रागो विषयेषु ! न कुतोऽपि । तर्हि रागस्य कतरा खानिः रागद्वेषमोहादि जीवस्यैवाज्ञानमयाः परिणामास्ततः परद्रव्यत्वाद्विषयेषु न संति, अज्ञानाभावात्सम्यग्दृष्टौ तु न भवंति एवं ते विषयेष्वसंतःसम्यदृष्टेन भवंतो न भवत्येव । रागद्वेषाविह हि भवति ज्ञानमज्ञानभावात् तौ वस्तुत्वं प्रणहितदृशा दृश्यमानौ न किंचित् । सम्यग्दृष्टिः क्षपयतु ततस्तत्त्वदृष्टया स्फुटंतो ज्ञानज्योति लति सहजं येन पूर्णाचलार्चिः ॥९॥
रागद्वेषोत्पादकं तत्त्वदृष्टया नान्यद् द्रव्यं वीक्ष्यते किंचनापि ।
सर्वद्रव्योत्पत्तिरंतश्चकास्ति व्यक्तात्यतं स्वस्वभावेन यस्मात् ॥९॥ अण्णदवियेण अण्णदवियस्स णो कीरदे गुणविघादो। तमा दु सव्वदव्वा उप्पजंते सहावेण ॥३८५॥
अन्यद्रव्येणान्यद्रव्यस्य न क्रियते गुणोत्पादः ।
तस्मात्तु सवेद्रव्याण्युत्पद्यते स्वभावेन ॥३८५॥ तात्पर्यवृत्तिः-अण्णदविएण अण्णदवियस्स णो कीरदे गुणविघादो अन्यद्रव्येण बहिरंगनिमित्तभूतेन कुंभकारादिनाऽन्यद्रव्यस्योपादानरूपस्य मृत्तिकादेर्न क्रियते स कः ? चेतनस्याचेतनरूपेण, अचेतनस्य चेतनरूपेण वा चेतनाचेतनगुणघातो विनाशो न क्रियते यस्मात् । तह्मा दु सव्वदचा उप.
१भतश्र परिणामाः ख. २ नास्त्येष पाठःख पुस्तकं ।