________________
समयसारप्राभृतं । अथेदानी व्यवहारिकजीवादिनवपदार्थभ्यो भिन्नमपि टंकोत्कीर्णज्ञायकैकपारमार्थिकपदार्थसई गद्यपद्यादिविचित्ररचनारचितशास्त्रैः शब्दादिपंचेद्रियविषयप्रभृतिपरद्रव्यैश्च शून्यमपि रागादिविकल्पोपाधिरहितं सदानदैकलक्षणसुखं तरसास्वादेन भरितास्थपरमात्मतत्त्वं प्रकाशयति ।
आत्मख्याति:-ज्ञानादन्यत्रेदमहमिति चेतनं अज्ञानचेतना । सा द्विधा कर्मचेतना कर्मफलचेतना च । तत्र ज्ञानादन्यत्रेदमहं करोमीति चेतनं कर्मचेतना । ज्ञानादन्यत्रेदं वेदयेऽहमिति चेतनं कर्मफलचेतना। सा तु समरसापि संसारबीजं । संसारबीजस्याष्टविधकर्मणो बीजत्वात् । ततो मोक्षार्थिना पुरुषेणाज्ञानचेतना प्रलयाय सकलकर्मसन्यासभावनां सकलकर्मफलसन्यासभावनां च नाटयित्वा स्वभावभूता भगवती ज्ञानचेतनैवैका नित्यमेव नाटयितव्या । तत्र तावत्सकलकर्मफलसन्यासभावनां नाटयति
कृतकरितानुमननैस्त्रिकालविषय मनोवचनकायैः ।
परिहत्यकर्म सर्व परमं नैष्कर्म्यमवलंबे ॥ १११ ।। यदहमकार्षे यदचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा वाचा च कायेन चेति तन्मिथ्या मे दुष्कतमिति १ यदहमकार्षे यदचीकर यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा वाचा च तन्मे मिथ्या दुष्कृतमितिर यदहमकार्ष यदाकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन चेति तन्मिथ्या मे दुष्कृतमिति ३ यदहमकार्षे यदचीकर यत्कुर्वतमप्यन्य समन्वज्ञासिषं वाचा च कायेन चेति तन्मिथ्या मे दुष्कृतमिति ४ यदहमकार्ष यदचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिंघ मनसा च तन्मिथ्या मे दुष्कृतमिति ५ यदहमकार्ष यदचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मे मिथ्या दुष्कृतमिति ६ यदहमकार्ष यदचीकर यत्कुर्वतमप्यन्यं समन्वज्ञासिषं कायेन च तन्मिथ्या मे दुष्कृतमिति ७ यदहमकार्ष यदचीकरं मनसा वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ८ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ९ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन तन्मिथ्या मे दुष्कृतमिति १० यदहमकार्षे यदचीकरं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ११ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति १२ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मे मिथ्या दुष्कृतमिति १३ यदहमकार्ष यदधीकरं मनसा कायेन च तन्मिथ्या मे दुष्कृतमिति १४ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति १५ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति १६ यदहमकार्ष यदचीकरं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति १७ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति १८ यदहमचीकर यत्कुर्वतमप्यन्य समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति १९ यदहमकार्ष यदचीकर मनसा च तन्मिथ्या मे दुष्कृतमिति २० यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिध्या में दुष्कृतमिति २१ यदहमचीकर यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति २२ यदहमकार्ष यदचीकरं वाचा.च तन्मिथ्या मे दुष्कृतमिति २३ यदहमकार्ष यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मिथ्या मे दुष्कृतमिति २४ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मिथ्या मे दुष्कृत २५ यदहमकार्ष यदचीकरं कायेन च तन्मिथ्या मे दुष्कृतमिति २६ यदहमकार्ष यत्कुर्वतमप्यन्य समन्वज्ञासिष कायेन च तन्मिध्या मे दुष्कृतं २७ यदहमचीकरं यत्कुर्वतमप्यन्यं समन्वज्ञासिषं कायेन तन्मिध्या मे दुष्कृतमिति २८ यदहमकार्ष मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति २९ यदचीकरं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतं ३० यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३१ यदहमकार्ष ‘मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ३२ यदहमचीकरं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ३३ यत्कुर्वतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मिध्या मे दुष्कृत