________________
१३
समयप्राभृतं । विचित्रव्यंजनसंयोगोपजातसामान्यविशेषतिरोभावाविर्भावाभ्यामनुभूयमानं लवणं लोकानामवुद्धानां व्यजनलुब्धानां स्वदते न पुनरन्यसंयोगशून्यतोपजातसामान्यविशेषाविभीवीतरोभावाभ्यां । अथ च यदेव विशेषाविर्भावेनानुभूयमानं लवणं तदेव सामान्याविर्भावेनापि तथा विचित्रज्ञेयाकारकरंवितत्वोपजातसामान्यविशेषतिरोभावाविर्भावाभ्यामनुभूयमानं ज्ञानमबुद्धानां ज्ञेयलुब्धानां स्वदते न पुनरन्यसंयोगशून्यतोपजातसामान्यविशेषाविर्भावतिरोभावाभ्यां । अथ च यदेव विशेषाविर्भावेनानुभूयमानं ज्ञानं तदेव सामान्याविर्भावनाप्यलुब्धवुद्धानां यथा सैंधवखिल्योन्यद्रव्यसंयोगाव्यच्छेदेन केवल एवानुभूयमानः सर्वतोप्येकलवणरसत्वाल्लवणत्वेन स्वदते तथात्मापि परद्रव्यसंयोगव्यवच्छेदेन केवलएवानुभूयमानः सर्वतोप्येकविज्ञानघनत्वात् ज्ञानत्वेन स्वदते।
अखंडितमनाकुलं ज्वलदनंतमंतर्बहिर्महः परममस्तु नः सहजमुद्विलासं सदा । चिदुच्छलननिर्भरं सकलकालमालंबते यदेकरसमुल्लसल्लवणखिल्यलीलायितं ॥ १४ ॥
एष ज्ञानधनो नित्यमात्मसिद्धमभीप्सुभिः ।
साध्यसाधकभावेन द्विधैकः समुपास्यतां ॥१५॥ आदा खु मज्झ णाणे आदा मे दंसणे चरित्ते य । आदा पञ्चक्खाणे आदा मे संवरे जोगे ॥१०॥ आत्मा स्फुटं मम ज्ञाने आत्मा मे दर्शने चरित्रे च ।
आत्मा प्रत्याख्याने आत्मा मे संवरे योगे ॥१८॥ तत्पर्यवृत्तिः-आदा शुद्धात्मा खु स्फुटं मज्झ मम भवति क विषये गाणे आदा मे दंसणे चरित्ते य आदा पञ्चक्खाणे आदा मे संवरे जोगे सम्यग्ज्ञानदर्शनचारित्रप्रत्याख्यानसंवरयोगभावना विषये । योगे कोऽर्थः : निर्विकल्पसमाधौ परमसामायिके परमध्याने चेत्येको भावः भोगाकांक्षानिदानबंधशल्यादिभावरहिते शुद्धात्मनि ध्याते सर्व सम्यग्ज्ञानादिकं लभ्यत इत्यर्थः एवं शुद्धनयव्याख्यानमुख्यत्वेन प्रथमस्थले गाथात्रयं गत । इत ऊर्ध्वं भेदाभेदरत्नत्रयमुख्यत्वेन गाथात्रयं कथ्यते तद्यथा-प्रथम गाथायां पूर्वार्द्धन भेदरत्नत्रयभावनामपरार्द्धन चाभेदरत्नत्रयभावनां कथयति
दंसणणाणचरित्ताणि सेविदव्वाणि साहुणा णिचं । ताणि पुण जाण तिण्णिवि अप्पाणं चेव णिच्छयदो॥१९॥ दर्शनज्ञानचारित्राणि सेवितव्यानि साधुना नित्यं ।
तानि पुनर्जानीहि त्रीण्यप्यात्मानमेव निश्चयतः ॥१९॥ तात्पर्यवृत्तिः-दसणणाणचारित्ताणि सेविदव्वाणि साहुणा णिचं सम्यग्दर्शनज्ञानचारित्राणि सेवितव्यानि साधुना व्यवहारनयेन नित्यं सर्वकालं ताणि पुण जाण तिण्णवि तानि पुनर्जानी हि त्रीण्यपि अप्पाणं चेव शुद्धत्मानं चैव णिच्छयदो निश्चयतः शुद्धनिश्चयतः । अयमत्रार्थः-पंचेंद्रियविषयक्रोधकषायादिरहितनिर्विकल्पसमाधिमध्ये सम्यग्दर्शनज्ञानचारित्रत्रयमस्तीति । अथ गाथाद्वयेन तामेव भेदाभेदरत्नत्रयभावना दृष्टांतदाष्टांताभ्यां समर्थयति । __आत्मख्याति:-येनैव हि भावनात्मा साध्यं सावनं च स्यात्तेनैवायं नित्यमुपास्य इति स्वयमाकूय परेषां व्यवहारेण साधुना दर्शनज्ञानचारित्राणि नित्यमुपास्यानीति प्रतिपाद्यते । तानि पुनस्त्रीण्यपि परमार्थनात्मैक एव वस्त्वंतराभावात् यथा देवदत्तस्य कस्यचित् ज्ञानं श्रद्धानमनुचरणं च देवदत्तस्य स्वभावानातक्रमाद्देवदत्त एव न वस्त्वंत्तरं तथात्मन्यप्यात्मनो ज्ञानं श्राद्धानमनुचरणं चात्मस्वभावानतिक्रमादात्मैव नवस्त्वतरं तत आत्मा एक एवोपास्य इति स्वयमेव प्रद्योतते स किल