________________
समातनजैनथमालायांचिच्छक्तिव्याप्तसर्वस्वस्वसारो जीव इयानयं । अतोतिरिक्ताः सर्वेपि भावाः पौगालिकाअमी ॥३६॥
जीवस्स पत्थिवण्णो णवि गंधो णवि रसोणवि य फासो। गवि रूवं ण सरीरं ण वि संठाणं ण संहणणं ॥५५॥ जीवस्स णस्थि रागो णवि दोसो णेव विजदे मोहो । णो पच्चयाण कम्मं णोकम्मं चावि से णत्थि ॥५६॥ जीवस्स णत्थि वग्गो ण वग्गणा व फड्ढया केई । णो अज्झप्यठाणा णेव य अणुमायठाणाणि ॥५७॥ जीवस्स णथि केई जोयट्ठाणा ण बंधठाणा वा। णो व य उदयष्ठाणा ण मग्गणठाणया केई ॥५०॥ णो ठिदिबंधठाणा जीवस्स ण संकिलेसठाणा वा । व विसोहिठाणा णो संजमलबिठाणा वा ॥५९॥ णेव य जीवठाणा ण गुणठाणा य अस्थि जीवस्स । जेण दु एदे सव्वे पुग्गलदव्वस्स परिणामा ॥६॥
जीवस्य नास्ति वर्णो नापि गंधो नापि रसो नापि च स्पर्शः। मापि रूपं न शरीरं नापि संस्थानं न संहननं ॥१९॥ जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः । नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति ॥१६॥ जीवस्य नास्ति वगों न वर्गणा नैव स्पर्टकानि कानिचित् । नो अध्यात्मस्थानानि नैव चानुभागस्थानानि ॥१७॥ जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा। नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित् ॥१८॥ मो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा। नैव विशुरस्थानानि नो संयमलब्धिस्थानानि वा ॥५९ नैव च जीवस्थानामि म गुणस्थानानि वा संति जीवस्य ।
येन त्वेते सर्वे पुद्गलद्रव्यस्य परिणामाः ॥६॥ तात्पर्यवृत्तिः-वर्णगंधरसस्पर्शास्तु रूपशब्दवाच्याः स्पर्शरसगंधवर्णवती मूर्तिश्च औदारिकादि पंच शरीराणि समचतुरस्रादिषट्संस्थानानि वज्रर्षभनाराचादिषट्संहननानि चेति । एते वर्णादयो धर्मिणः शुद्धनिश्चयनयेन जीवस्य न संतीति साध्यो धर्मश्चेति धर्मधर्मिसमुदयलक्षणः पक्षः आस्थासंधाप्रतिजेति यावत् पुद्गलद्रव्यपरिणाममयत्वे सति शुद्धात्मानुभूतेभिन्नत्वादिति हेतुः । एवमत्र व्याख्यान पक्षहेतुरूपेणागद्वयमनुमानं ज्ञातव्यं । अथ रागद्वेषमोहमिथ्यात्वाविरतिप्रमादकषाययोगरूपपंचप्रत्ययमूलोत्तरप्रकृतिभेदभिन्नचानावरणाद्यष्ठविधकौदारिकवैक्रियकाहारकशरीरत्रयाहारादिषट्पर्याप्तिरूपनोकर्माणि इत्यस्य जीवस्य शुद्धनिश्चयनयेन सर्वाण्येतानि न संति कस्मात्पुद्गलपरिणाममयत्व सति शुद्धात्मानुभूतेभिन्नत्वात् । अथ परमाणोरविभागपरिच्छेदरूपशक्तिसमूहो वर्ग इत्युच्यते । वर्गाणां समूहो वर्गणा मण्यते । वर्गणासमूह