________________
२११
सनातनजैनग्रंथमालायांअनेकांतोप्यनेकान्तः प्रमाणनयसाधनः । अनकांतः प्रमाणात्ते तदेकांतोऽर्पितान्नयात् ।। ३ ॥ धर्मिणोऽनंतरूपत्वं धर्माणां न कथंचन ।
अनेकांतोप्यनेकांत इति जैनमतं ततः ॥ ४ ॥ एवं कथंचिच्छब्देन वाचकस्यानेकांतात्मकवस्तुप्रतिपादकस्य स्याच्छब्दस्यार्थः संक्षेपण ज्ञातव्यः । सवमनेकांतव्याख्यानन ज्ञानमात्रभावो जीवपदार्थः एकानेकात्मको जातः। तस्मिन्नेकानेकात्मके जाते. सति ज्ञानमात्रभावस्य जीवपदार्थस्य नयविभागेन भेदाभेदरत्नत्रयात्मकं निश्चयव्यवहारमोक्षमार्गद्वयरूपेणोपायभूतं साधकरूपं घटते । मोक्षरूपेण पुनरुपेयभूतं साध्यरूपं च घटत इति ज्ञातव्यं । अथ प्राभृताध्यात्मशब्दयोरर्थः कथ्यते। तद्यथा-यथा कोऽपि देवदत्तो राजदर्शनार्थ किंचित्सारभूतं वस्तु राजे ददाति तत्प्राभृतं भण्यते। तथा परमात्माराधकपुरुषस्य निर्दोषिपरमात्मराजदर्शनार्थमिदमपि शास्त्रं प्राभृतं । कस्मात् ? सारभूतत्वात् इति प्राभृतशब्दस्यार्थः । रागादिपरद्रव्यनिरालंबनत्वेन निजशुद्धात्मनि विशुद्धाधारभतेऽनुष्ठानमध्यात्मं । इदं प्राभृतशास्त्रं ज्ञात्वा किं कर्तव्यं ? सहजशुद्धज्ञानानंदैकस्वभावोऽहं निर्विकल्पोऽहं, उदासीनोऽहं निजनिरंजनशुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजानदरूपसुखानुभूतिमात्रलक्षणेन स्वसंवेदनेन संवेद्यो गम्यः प्राप्यो भरितावस्थोऽहं । राग-द्वेष-मोह-क्रोध-मान-माया-लोभ-पचेंद्रियाविषयव्यापार-मनोक्चनकायव्यापार-भावकर्म-द्रव्यकर्म-नोकर्म-ख्याति-पूजा-लाभ-दृष्टश्रुतानुभूतभोगाकांक्षारूपनिदानमाया-मिथ्या-शल्यत्रयादिसर्वविभावपरिणामरहितशून्योऽहं । जगत्त्रयेऽपि कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमतैश्च शुद्धनिश्चयेन तथा सर्वजीवा । इति निरन्तरं भावना कर्तव्या। ____अत्र ग्रंथे प्रचुरेण पदानां सधिन कृता वाक्यानि च भिन्नाभिन्नानि कृतानि सुखबोधार्थ । तेन कारणेन लिंग-वचन-क्रिया-कारक-संधि-समास विशेष्य-विशेषेण-वाक्यसमाप्त्यादिकं दूषणं न ग्राह्यं विवेकिभिः । शुद्धात्मादितत्त्वप्रतिपादनविषये यदज्ञानात् किंचिद्विस्मृतं तदपि क्षमितव्यमिति ।
जय उरसि पउमणंदी जेण महातच्च पाहुणस्सेलो । वुद्धिसिरेणुद्धरिओ समप्पिओ भव्वलोयस्स ॥ १ जं से लीणा जीवा तरंति संसार सायरमणंतं ।
तं सव्वजीवसरणं णंदउ जिण सासणं सुइरं ॥ २ ॥ इति श्रीकुंदकुंददेवाचार्यविरचितसमसारमाभृत्ताभिधानग्रंथस्य संबंधिनी दशाधिकारैरेकोनचत्वारिंशदधिकगाथा
शतचतुष्टयेन तात्पर्यवृत्तिः समाप्ता ॥ यश्चाभ्यस्यति संशृणोति पठति प्रख्यापयत्यादरात् ।
तात्पर्याख्यमिदं स्वरूपरसिकैः सर्वर्णितं प्राभृतं । सश्वद्रूपमलं विचित्रसकलं ज्ञानात्मकं केवलं ।
___ संप्राप्याप्रपदेऽपि मुक्तिललनारक्तः सदा वर्तते ।। ॥ इति सतात्पर्यवृत्तिसमयसारपाभृतं समाप्तं ।।
अत्र स्यावादशुद्ध्यर्थं वस्तुतत्वव्यवस्थितिः ।
उपायोपेयभावश्च मनाग भूयोऽपि चिंत्यते ॥१॥ ___ स्याद्वादो हि समस्तवस्तुतत्त्वसाधकमेवमेकमस्खलितं शासनमहत्सर्वज्ञस्य । स तु सर्वमनेकांतात्मकमित्यनुशास्ति सर्वस्यापि वस्तुनोऽनेकांतस्वभावत्वात् । अत्र त्वात्मवस्तुनो ज्ञानमात्रतया-अनुशास्यमानेऽपि न