________________
सनातन जैनग्रंथमालायां
तात्पर्यवृत्तिः - जो जह्नि गुणो दव्वे सो अण्ण दु ण संकमदि दव्वे यो गुणश्चेतनस्तथैवाचेतनो वा यस्मिंश्चेतनाचेतने द्रव्ये अनादिसंबंधेन स्वभावत एव स्वत एव प्रवृत्तः सोऽन्यद्रव्ये तु न संक्रमत्येव सोपि सो अण्णमसंकतो कह तं परिणामए दव्वं स चेतनोऽचेतनो वा गुणः कर्ता अन्यद्भिन्नं द्रव्यांतरमसंक्रांतः सन् कथं द्रव्यांतरं परिणामयेत्तत्कथं कुर्यादुपादानरूपेण न कथमपि । ततः स्थितं आत्मा पुद्गलकर्मणामकर्तेति ।
६२
आत्मख्यातिः - इह किल यो यावान् कश्चिद्वस्तुविशेषो यस्मिन् यावति कस्मिंश्चिच्चिदात्मन्यचिदात्मनि वा द्रव्ये गुणे च स्वरसत एवानादित एव वृत्तः स खल्वचलितस्य वस्तुस्थितिसीम्नो भेत्तुमशक्यत्वात्तस्मिन्नेव वर्तर्ते न पुनः द्रव्यांतरं गुणांतरं वा संक्रामेत । द्रव्यांतरं गुणांतरं वाऽसंक्रामंश्च कथं त्वन्यं वस्तुविशेषं परिणाम - येत् । अतः परभावः केनापि न कर्तु पार्येत । अतः स्थितः खल्वात्मा पुद्गलकर्मणामकर्ता ।
दव्वगुणस्स य आदा ण कुणदि पुग्गलमय कम्मल । तं उभयमकुव्वतो न कहं तस्स सो कत्ता ॥ १११ ॥
द्रव्यगुणस्य चात्मा न करोति पुद्गलमये कर्मणि । तदुभयमकुर्वस्तस्मिन्कथं तस्य स कर्त्ता ॥ १११ ॥
तात्पर्यवृत्तिः - दव्बगुणस्स य आदा ण कुणदि पुगलमय कम्ममि यथा कुंभकारः कर्ता मृन्मयकलशकर्मविषये मृत्तिकाद्रव्यस्य संबंधि जडस्वरूपं वर्णादिमृत्तिककलशमिव तन्मयत्वेन करोति तथात्मापि पुद्गलमयद्रव्यकर्मविषये पुद्गलद्रव्यकर्मसंबंधिजडस्वरूपं वर्णादिपुद्गलद्रव्यगुणसंबंधिस्वरूपं वा तन्मयत्वेन न करोति तं उभयमकुव्वंतो तद्मि कहं तस्स सो कत्ता तदुभयमपि पुद्गल - द्रव्यकर्मस्वरूपं वर्णादितदूगुणं वा तन्मयत्वेनाकुर्वाणः सन् तत्र पुद्गलकर्मविषये स जीवः कथं कर्ता भवति न कथमपि । चेतनाचेतनेन परस्वरूपेण न परिणमतीत्यर्थः । अनेन किमुक्तं भवति यथा स्फटिको निर्मलोपि जपापुष्पादिपरोपाधिना परिणमति तथा कोपि सदाशिवनामा सदामुक्तोप्यमूर्तोपि परोपाधिना परिणम्य जगत् करोति तं निरस्तं । कस्मादिति चेत् । मूर्त्तस्फटिकस्य मूर्त्तेन सहोपा घिसंबंधो घटते तस्य पुनः सदामुक्तस्यामूर्तस्य कथं मूर्तोपाधि: ? न कथमपि सिद्धजीववत् । अनादिबंधजीवस्य पुनः शक्तिरूपेण शुद्धनिश्वयेनामूर्तस्यापि व्यक्तिरूपेण व्यवहारेण मूर्तस्य मूर्तोपाधिदृष्टांतो घटत इति भावार्थ: । एवं निश्चयनयमुख्यत्वेनगाथाचतुष्टयं गतं । अतः कारणादात्मा द्रव्यकर्म करोतीति यदभिधीयते स उपचारः ।
आत्मख्यातिः: - यथा खलु मृन्मये कलशकर्माणि मृद्रव्यमृद्गुणयोः स्वरसत एव वर्तमाने द्रव्यगुणांतरसंक्रमस्य वस्तुस्थित्यैव निषिद्धत्वादात्मानमात्मगुणं वा नाधत्ते स कलशकारः द्रव्यांतरसंक्रममंतरेणा. न्यस्य वस्तुनः परिणमयितुमशक्यत्वात् तदुभयं तु तस्मिन्ननादधानो न तत्त्वतस्तस्य कर्ता प्रतिभाति । तथा पुद्गलमयज्ञानावरणादौ कर्मणि पुद्गलद्रव्यपुद्गलगुणयोः स्वरसतएव वर्तमाने द्रव्यगुणांतरसंक्रमस्य विधातुमशक्यत्वादात्मद्रव्यमात्मगुणं वात्मा न खल्वाधत्ते । द्रव्यांतरसंक्रममंतरेणान्यस्य वस्तुनः परिणमयितुमशक्यत्वात्तदुभयं तु तस्मिन्ननादधानः कथं तु तत्त्वतस्तस्य कर्ता प्रतिभायात् । ततः स्थितः खल्वात्मा पुद्गलकर्मणामकर्त्ता । अतोन्यस्तूपचारः ।
जीव हेदुभूदे बंधस्स दु परिसदूण परिणामं । जीवेण कदं कम्मं भणदि उवयारमत्तेण ॥ ११२ ॥
जीवे हेतुभूते बंधस्य तु दृष्ट्वा परिणामं । जीवन कृतं कर्म भण्यते उपचारमात्रेण || ११ ||