________________
समयप्राभृतं ।
१४३ शुद्धात्मस्वरूपमिति । कस्मान्न श्रद्धत्ते ! दर्शनचारित्रमोहनीयोपशमक्षयोपशमक्षयाभावात् । तदपि कस्मात् ? अभव्यत्वादिति भावार्थः।
अथ तस्य पुण्यरूपधर्मादिश्रद्धानमस्तीति चेत्
आत्मख्यातिः--मोक्षं हि न तावदभव्यः श्रद्धत्ते शुद्धज्ञानमयात्मज्ञानशून्यत्वात् । ततो ज्ञानमपि नासौ श्रद्धत्ते, ज्ञानमश्रद्दधानश्चाचाराद्येकादशांगं श्रुतमधीयानोऽपि श्रुताध्ययनगुणाभावान्न ज्ञानी स्यात् स किल गुणः श्रुताध्ययनस्य यद्विविक्तवस्तुभूतज्ञानमयात्मज्ञानं तच्च विविक्तवस्तुभूतं ज्ञानमश्रद्दधानस्याभव्यस्य श्रुताध्ययनेन न विधातुं शक्येत ततस्तस्य तद्गुणाभावः, ततश्च ज्ञानश्रद्धानाभावात् सोऽज्ञानीति प्रतिनियतः। तस्य धर्मश्रद्धानमस्तीति चेत् -
सदहदिय पत्तयदिय रोचेदिय तह पुणोवि फासेदि । धम्म भोगणिमित्तं णहु सो कम्मक्खयणिमित्तं ॥२९९॥
श्रद्दधाति प्रत्येति च रोचयति तथा पुनश्च स्पृशति ।
धर्म भोगनिमित्तं न खलु स कर्मक्षयनिमित्तं ॥२९९॥ तात्पर्यवृत्तिः-सद्दहदि श्रद्धत्ते च पत्तेदिय ज्ञानरूपेण प्रत्येति च प्रतीति परिच्छित्तिं करोति रोचेदिय विशेषश्रद्धानरूपेण रोचते च तह पुणोवि फासदिय तथा पुनःस्पृशति च अनुष्ठानरूपेण कं? धम्म भोगणिमित्तं अहमिंद्रादिपदवीकारणत्वादिति मत्वा भोगाकांक्षारूपेण पुण्यरूपं धर्म ण हु सो कम्मक्खयणिमित्तं नच कर्मक्षयनिमित्तं शुद्धात्मसंवित्तिलक्षणं निश्चयधर्ममिति ।
अथ कीदृशौ तौ प्रतिषेध्यप्रतिषेधको व्यवहारनिश्चयनयाविति चेत्
आत्मख्यातिः-अभव्यो हि नित्यकर्मफलचेतनारूपं वस्तु श्रद्धत्ते, नित्यज्ञानचेतनामात्रं न तु श्रद्धत्ते नित्यमेव भेदविज्ञानानहत्वात् । ततः स कर्ममोक्षनिमित्तं ज्ञानमात्रं भूतार्थ धर्म न श्रद्धते भोगनिमित्तं शुभकर्ममात्रमभूतार्थमेव श्रद्धत्ते । तत एवासौ, अभूतार्थधर्मश्रद्धानप्रत्ययनरोचनस्पर्शनैरुपरितनप्रैवेयकभोगमात्रमास्कंदन्न पुनः कदाचनापि विमुच्यते ततोऽस्य भूतार्थधर्मश्रद्धानाभावात् , श्रद्धानमपि नास्ति एवं सति तु निश्चयनयस्य व्यवहारनयप्रतिषेधो युज्यत एव ।। कीदृशौं प्रतिषेध्यप्रतिषेधको व्यवहारनिश्चयनयाविति चेत्
आयारादीणाणं जीवादीदंसणं च विण्णेयं । छजीवाणं रक्खा भणदि चरितं तु ववहारो ॥३०॥ आदा खु मज्झणाणे आदा मे दसणे चरित्ते य । आदा पञ्चक्खाणे आदा मे संवरे जोगे ॥३०१॥ .
आचारादिज्ञानं जीवादिदर्शनं च विज्ञेयं । षद्जीवानां रक्षा भणति चरित्रं तु व्यवहारः ॥३०॥ आत्मा खलु मम ज्ञानमात्मा मे दर्शनं चरित्रं च।
आत्मा प्रत्याख्यानं आत्मा मे संवरो योगः ॥३०॥ तात्पर्यवृत्तिः-आयारादीणाणं आचारसूत्रकृतमित्यादि एकादशांगशब्दशास्त्रज्ञानस्याश्रयत्वात्कारणत्वाद् व्यवहारेण ज्ञानं भवति । जीवादी दंसणं च विण्णेयं जीवादिनवपदार्थः श्रद्धानविषयः सम्य
१ भात्मख्याती छजीवाणं च तहा इति पाठः ।