________________
सनातनमैमप्रथमालापासुणु णिच्छयस्स वयणं परिणामकदं तु जं होदि ॥३९०॥ जह सिप्पिओ दु चिटं कुव्वदि हवदिय तहा अणण्णो सो । तह जीवोवि य कम्मं कुव्वदि हवदि य अणण्णो सो ॥३९१॥ जह चिठं कुव्वंतो दु सिप्पिओ णिच दुक्खिदो होदि । तत्तोसेय अणण्णो तह चेटुंतो दुही जीवो ॥३९२॥
यथा शिल्पिकस्तु कर्म करोति नच स तु तन्मयो भवति । तथा जीवोऽपि च कर्म करोति नच तन्मयो भवति ॥३८॥ यथा शिल्पिक करणैः करोति न स तु तन्मयो भवति । तथा जीवः करणः करोति नच तन्मयो भवति ॥३८७॥ यथा शिल्पिकस्तु करणानि गृह्णाति न स तु तन्मयो भवति । तथा जीवः करणानि च गृहाति नच तन्मयो भवति ॥३८८॥ यथा शिल्पिकः कर्मफलं भुंक्त नच स तु तन्मयो भवति । तथा जीवः कर्मफलं भुक्ते नच तन्मयो भवति ॥३८९॥ एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन । शृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति ॥३९०॥ यथा विल्पिकस्तु चेष्टां करोति भवति च तथानन्यस्तस्याः। तथा जीवोऽपि च कर्म करोति भवति चानन्यस्तस्मात् ॥३९१।। यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति ।
तस्माच स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ॥३९२॥ तात्पर्यवृत्तिः - यथा लोके शिल्पी तु सुवर्णकारादिः सुवर्णकुंडलादिकर्म करोति, कैः कृत्वा ? हस्तकुटकाद्युपकरणैः । हस्तकुटकाद्युपकरणानि च हस्तेन गृह्णाति, तथापि तैः सुवर्णकुंडलादिकर्महस्तकुहकादिकरणैरुपकरणैः सह तन्मयो न भवति । तथैव ज्ञानी जीवोऽपि निष्क्रियवीतरागस्वसंवेदन ज्ञानच्युतः सन् ज्ञानावरणादिद्रव्यकर्माणि करोति । कैः कृत्वा ? मनोवचनकायव्यापाररूपैः कर्मोत्पादकरणैरुपकरणैः तथैव च कर्मोदयवशान्मनोवचनकायव्यापाररूपाणि कर्मोत्पादकरणान्युपकरणानि संश्लेषरूपेण व्यवहारनयेन गृह्णाति तथापि ज्ञानावरणादिद्रव्यकर्ममनोवचनकायव्यापाररूपकर्मोत्पादकोपकरणैः सह टंकोत्कीर्णज्ञायकत्वेन भिन्नत्वात्तन्मयो न भवति । तथैव च स एव शिल्पी सुवर्णकारादिः सुवर्ण कुडलादिकर्मणि कृते सति यत्किमप्यशनपानादिक मूल्यं लभते भुक्ते च तथापि तेनाशनपानादिना तन्मयो न भवति । तथा जीवोऽपि शुभाशुभकर्मफलं बहिरंगेन दृष्टाशनपानादिरूपं निजशुद्धात्मभावनोत्थमनोहरानंदसुखास्वादमलभमानो भुक्ते न च तन्मयो भवति । एवं ववहारस्स दु वत्तव्वं दसणं समासेण एवं पूर्वोक्तप्रकारेण गाथाचतुष्टयेन द्रव्यकर्मकर्तृत्वभोक्तृत्वरूपस्य व्यवहारनयस्य दर्शनं दृष्टांत उदाहरणं हे शिष्य ! वक्तव्यं व्याख्येयं कथनीयं समासेन संक्षेपेण मुणु णिच्छ यस्स वयणं परिणाम कदंतु जं हवदि इदं त्वग्रे वक्ष्यमाणं निश्चयस्य वचनं व्याख्यानं शृणु, कथंभूतं ? परिणामकृतं रागादिविकल्पेन निष्पादितमिति । जह सिप्पिओ दु चेठं कुन्धादि हवदि य तहा अणण्णोसो यथा सुवर्णकारादिशिल्पी कुंडलादिकमेवमेवं करोमीति मनसि चेष्टां. करोति इति तया चेष्टया सह भवति चानन्यस्तन्मयः तहजीवोविय कम्मं कुन्चदि हवदि य अणण्णो सो तथैवाज्ञानी जीवः केवलज्ञानादिव्यक्तिरूपस्य