________________
समयप्राभूतं ।
कार्यसमयसारस्य यो ऽसौ साधको निर्विकल्पसमाधिरूपः कारणसमयसारस्तस्याभावे सत्यशुद्धनिश्वयनयेन अशुद्धोपादानरूपेण मिथ्यात्वरागादिरूपं भावकर्म करोति तेन भाषकर्मणा सह भवति चानन्यः इति भावकर्मकर्तृत्वगाथा गता । जह चेट्टं कुतो दु सिप्पिओ णिच्च दुःखिदो होदि यथा स एव शिल्पी कुंडलादिकमेवमेत्रं करोमीति मनसि चेष्टां कुर्वाणः सन् चित्तखेदेन नित्यं दुःखितो भवति । न केवलं दुःखितः । तत्तोसेय अणण्णो तस्माद्दुः खविकल्पादनुभवरूपेणानन्यश्च स स्यात् तह चेद्वंतो दुही जीवो तथैवाज्ञानिजावोऽपि विशुद्धज्ञानदर्शनादिव्यक्तिरूपस्य कार्यसमयसारस्य साधको योऽसौ निश्चयरत्नत्रयात्मक कारणसमयसारः, तस्यालाभे सुखदुःखभोक्तृत्वकाले हर्षविषादरूपां चेष्टां कुर्वाणः सन्मनसि दुःखितो भवति इति । तया हर्षविषादचेष्टया सह अशुद्धनिश्वयेनाशुद्धोपादानरूपेणानन्यश्च भवति इति । एवं पूर्वोक्तप्रकारेणाज्ञानिजीवो निर्विकल्पस्य सवंदेनज्ञानात् च्युतो भूत्वा सुवर्णकारादिदृष्टांतेन व्यवहारनयेन द्रव्यकर्म करोति भुंक्ते च । तथैवाशुद्धनिश्चयेन भावकर्म चेति व्याख्यानमुरव्यत्वेन षष्ठस्थले गथासप्तकं गतं ।
अथ ज्ञानं ज्ञेयं वस्तु जानाति तथापि धवलकुड्येष्वेतन्मृत्तिकावनिश्चयेन तन्मयं न भवति इति निश्चयमुख्यत्वेन गाथापंचकं । यथैव च श्वतमृत्तिका कुड्यं श्वतं करोतीति व्यवह्रियते तथैव च ज्ञानं ज्ञेयं वस्तु जानात्येवं व्यवहारोऽस्तीति व्यवहारमुख्यत्वेन गाथापंचकं । एवं समुदायेन दशकं । तद्यथा
आत्मख्यातिः: - यथा खलु शिल्पी सुवर्णकारादि: कुंडलादिपरद्रव्यपरिणामात्मकं कर्म करोति । हस्तकुदृकादिभिः परद्रव्यपरिणामात्मकैः करणैः करोति । हस्तकुट्टकादीनि परदव्यपरिणामात्मकानि करणानि गृह्णाति । ग्रामादिपरद्रव्यपरिणामात्मकं कुंडलादिककर्मफलं भुंक्तं नत्वनेकद्रव्यत्वेन ततोऽन्यत्वे सति तन्मयो भवति ततो निमित्तनैमित्तिकभावमात्रेणैव तत्र कर्तृकर्म भोक्तृभोग्यत्वव्यवहारः । तथात्मापि पुण्यपापादि पुद्गलपरिणामात्मकं कर्म करोति । कायवाङ्मनोभिः पुद्गलद्रव्यपरिणामात्मकैः करणैः करोति कायबाङ्मनांसि पुद्गलपरिणामात्मकानि करणानि गृह्णाति सुखदुःखादिपुद्गलद्रव्यपरिणामात्मकं पुण्यपापादिकर्मफलं भुंक्ते च नत्वनेकद्रव्यत्वेन ततोऽन्यत्वे सति तन्मयो भवति ततोनिमित्तनैमित्तिकभावमात्रेणैव तत्र कर्तृकर्भभोक्तृभोग्यत्वव्यवहारः । यथा च स एव शिल्पी चिकीर्षुः चेष्टानुरूपमात्मपरिणामात्मकं कर्म करोति । दुःखलक्षणमात्मपरिणामात्मकं चेष्टानुरूपकर्मफलं भुंक्ते च एकद्रव्यत्वेन ततोऽनन्यत्वे सति तन्मयश्च भवति ततः परिणमपरिणामिभावेन तत्रैव कर्तृकर्मभोक्तृभोग्यत्वनिश्चयः । तथात्मापि चिकीर्षुश्चेष्ट/रूपमात्मपरिणामात्मकं करोति । दुःखलक्षणमात्मपरिणामात्मकं चेष्टारूपकर्मफलं भुंक्ते च एकद्रव्यस्त्रेन ततोनन्यत्वे सति तन्मयश्च भवति ततः परिणामपरिणामिभावेन तत्रैव कर्तृकर्मभोक्तृभोग्यत्वनिश्चयः ।
१८३
तु परिणामि एव किल कर्मविनिश्चयतः स भवति नापरस्य परिणामिन एव न भवेत् । न भवति कर्तृशून्यमिह कर्म चैकतया स्थितिरिह वस्तुनो भवतु कर्तृत्वादेव ततः (१) ॥ १०१ ॥ बहिर्लुठति यद्यपि स्फुटदनंतशक्तिः स्वयं तथाप्यपरवस्तुनो विशति नान्यवस्त्वंतरं । स्वभावनियतं यतः सकलमेव वस्त्विष्यते स्वभावचलनाकुलः किमिह मोहितः क्लिश्यते ॥१०२॥ वस्तु चैकमिह नान्यवस्तुनो येन तेन खलु वस्तु वस्तु तत् । निश्चयोयमपरोऽपरस्य कः किं करोति हि बहिर्लुठन्नपि ॥ १०३ ॥ यत्तु वस्तु कुरुतेऽन्यवस्तुनः किंचनापि परिणामिनः स्वयं । व्यावहारिकदृशैव तन्मतं नान्यदस्ति किमपीह निश्चयात् ॥ १०४॥
जह सेटिया दुण परस्स सेटिया सेटिया य सा होदि । तह जाणगो दु ण परस्स जागो जागो सोदु || ३९३॥ जह सेटिया दु ण परस्स सेटिया सेटिया य सा होदि । तह पस्सगो दु ण परस्स पस्सगो पस्सगो सोदु ॥ ३९४॥