________________
समयप्राभूतं ।
तथा परद्रव्यं विजहाति ज्ञातापि स्वकेन भावेन ॥४०० ॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं श्रद्धत्ते ज्ञातापि स्वकेन भावेन || ४०१ ॥ एवं व्यवहारस्य तु विनिश्चयो ज्ञानदर्शनचरित्रे | भणितोऽन्येष्वपि पर्यायेषु एवमेव ज्ञातव्यः ||४०२ ||
१८५
तात्पर्यवृत्तिः तः - यथा लोके श्वेतिका श्वेतमृत्तिका खटिका परद्रव्यस्य कुड्यादेर्निश्वयेन श्वेतमृत्तिका न भवति तन्मंयो न भवति बहिर्भागे तिष्ठतीत्यर्थः । तर्हि किं भवति ? श्वेतिका श्वेतिकैव स्वस्वरूपे तिष्ठती त्यर्थः । तथा श्वेतमृत्तिकादृष्टांतेन ज्ञानात्मा घटपटादिज्ञेयपदार्थस्य निश्चयेन ज्ञायको न भवति तन्मयो न भवतीत्यर्थः । तर्हि किं भवति ? ज्ञायको ज्ञायक एव स्वस्वरूपे तिष्ठतीत्यर्थः । एवं ब्रह्माद्वैतवादिवत् - ज्ञानं ज्ञेयरूपेण न परिणमति-इति कथनमुख्यत्वेन गाथा गता । तथा तेनैव च श्वेतमृतिका दृष्टांतेन दर्शकभात्मा दृश्यस्य घटादिपदार्थस्य निश्वयेन दर्शको न भवति, तन्मयो न भवतीत्यर्थः । तर्हि किं भवति १ दर्शको दर्शक एव स्वस्वरूपेण तिष्ठतीत्यर्थः । एवं सत्तावलोकनदर्शनं दृश्यपदार्थरूपेण न परिणमतीति कथनमुख्यत्वेन गाथा गता । तथा तेनैव श्वेतमृत्तिकादृष्टांतेन संयत आत्मा त्याज्यस्य परिग्रहादेः परद्रव्यस्य निश्वयेन त्याजको न भवति, तन्मयो न भवतीत्यर्थः । तर्हि किं भवति ? संयतः संयत एव निर्विकारनिजमनोहरानंद लक्षणस्वस्वरूपे तिष्ठतीत्यर्थः । एवं वीतरागचारित्रमुख्यत्वेन गाथा गता । तथैव च तेनैव श्वेतमृत्तिकादृष्टांतेन तत्त्वार्थश्रद्धानरूपं सम्यग्दर्शनं श्रद्धेयस्य बहिर्भूतजीवादिपदार्थस्य निश्चयनयेन श्रद्धानकारकं न भवति, तन्मयं न भवतीत्यर्थः । तर्हि किं भवतिं ? सम्यग्दर्शनं सम्यग्दर्शनमेव स्वस्वरूपे तिष्ठतीत्यर्थः । एवं तत्त्वार्थाश्रद्धानलक्षणसम्यग्दर्शन मुख्यत्वेन गाथा गता ।
एवं तु णिच्छयणस्स भासिदं णाणदंसणचरित्ते एवं पूर्वोक्तगाथाचतुष्टयेन भाषितं न्याख्यानं कृतं । कस्य संबंधित्वेन ? निश्चयनयस्य । क ! विषये ज्ञानदर्शनचारित्रे । सुणु ववहारणयस्सय वत्तव्वं इदानीं हे शिष्य ! शृणु समाकर्णय किं ? वक्तव्यं व्याख्यानं । कस्य संबंधित्वेन ? व्यवहारनयस्य । कस्प संबंधिव्यवहारः ? से तस्य पूर्वोक्तज्ञानदर्शनचारित्रत्रयस्य । केन ? समासेण संक्षेपेण । इति निश्चयनय व्यख्यानमुख्यत्वेन सूत्रपंचकं गतं ।
1
अथ व्यवहारः कथ्यते- - यथा येन प्रकारेण लोके परद्रव्यं कुड्यादिकं व्यवहारनयेन श्वेतयते श्वतं करोति नच कुड्यादिपरद्रव्येण सह तम्मयी भवति । का ? कर्त्री श्वेतिका श्वेतमृत्तिका खटिका । केन कृत्वा श्वेतं करोति ? स्वकीयश्वेतभावेन । तथा तेन श्वेतमृत्तिकादृष्टांतेन परद्रव्यं घटादिकं ज्ञेयं वस्तु व्यवहारेण जानाति नच परद्रव्येण सह तन्मयो भवति । कोऽसौ ? कर्ता झोतात्मा । केन जानाति ? स्वकीय ज्ञानभावेनेति, प्रथमगाथा गता । तथैव च तेनैव श्वेतमृतिकादृष्टांतेन घटादिकं दृश्यं परद्रव्यं व्यवहारेण पश्यति न च परद्रव्येण सह तन्मयो भवति । कोऽसौ ? ज्ञांतात्मा । केन पश्यति ? स्वकीयदर्शनभावेनेति द्वितीयगाथा गता । तथैव च तेनैव श्वतमृत्तिकादृष्टांतेन परिप्रहादिकं परद्रव्यं व्यवहारेण विरमति त्यजति न च परद्रव्येण सह तन्मयो भवति स कः ? कर्ता ज्ञातात्मा । केन कृत्वा त्यजति ? स्वकीयनिर्विकल्प समाधिपरिणामेनेति तृतीयगाथा गता । तथैव च तेनैव श्वेतमृत्तिकादृष्टांतेन जीवादिकं परद्रव्यं व्यवहारेण श्रद्दधाति न च परद्रव्येण सह तन्मयो भवति । स कः ? कर्ता सम्यग्दृष्टिः । केन कृत्वा ? स्वकीय श्रद्धानपरिणामेनेति चतुर्थगाथा गता । एसो वबहारस्स दु विणिच्छियो णाणदंसणचरित्ते भणिदो भणितः कथितः कोऽसौ ? कर्मतापन्नः, एष प्रत्यक्षीभूतः, पूर्वोक्तगाथाचैतुष्टयेन निर्दिष्टो विनिश्चयः, व्यवहारानुयायी निश्चय इत्यर्थः । कस्य संबंधी ? व्यवहारनयस्य । क ? विषये ज्ञानदर्शनचारित्रत्रये । १ अत्र क. पुस्तके ज्ञानात्मेति पाठ: । २ अत्रापि क. ज्ञानात्मेत्येव पाठः । ३ चतुष्टये पाठोयं . पुस्तके |
२४