________________
समयप्राभृतं । चिरमिति नवतत्त्वच्छन्नमुन्नीयमानं कनकमिव निमग्नं वर्णमालाकलापे ।
अथ सततविविक्तं दृश्यतामेकरूपं प्रतिपदमिदमात्मज्योतिरुद्योतमानं ॥८॥ अथैवमेकत्वेन द्योतमानस्यात्मनोऽधिगमोपायाः प्रमाणनयनिक्षेपाः ये ते खल्वभूतार्थास्तेष्वप्ययमेकएव भूतार्थः । प्रमाणं तावत्परोक्षं प्रत्यक्षं च तत्रोपात्तानुपात्तपरद्वारेण प्रवर्त्तमानं परोक्षं केवलात्मप्रतिनियतत्वेन वर्तमानं प्रत्यक्षं च तदुभयमपि प्रमातृप्रमाणप्रमेयभेदस्यानुभूयमानतायां भूतार्थमथ च व्युदस्तसमस्तभेदैकजीवस्वभावस्यानुभूयमानतायामभूतार्थ । नयस्तु द्रव्यार्थिकश्च पर्यायार्थिकश्च तत्र द्रव्यपर्यायात्मके वस्तुनि द्रव्यं मुख्यतयानुभावयतीति द्रव्यार्थकः पर्यायमुख्यतयानुभावयतीति पर्यायार्थिकः तदुभयमपि द्रव्यपर्याययोः पर्यायेणानुभूयमानतायां भूतार्थे । अथ च द्रव्यपर्यायानालीढशुद्धवस्तुमात्रजीवस्वभावस्यानुभूयमानतायामभूतार्थ । निक्षेपस्तु नाम स्थापना द्रव्यं भावश्च । तत्रातद्गुणे वस्तुनि संज्ञाकरणं नाम । सोयमित्यन्यत्र प्रतिनिधिव्यवस्थापनं स्थापना । वर्तमानतत्पर्यायादन्यद्रव्यं, वर्तमानतत्पर्यायोभावस्तच्चतुष्टयं स्वस्वलक्षणवैलक्षण्येनानुभूयमानतायां भूतार्थ । अथ च निर्विलक्षणस्वलक्षणैकजीवस्वभावस्यानुभूययानतायामभूतार्थ अथैवममीषु प्रमाणनयनिक्षेपेषु भूतार्थत्वेनैको जीव एव प्रद्योतते ।
उदयति न नयश्रीरस्तमेति प्रमाणं क्वचिदपि च न विमो याति निक्षेपचक्र । किमपरमभिदध्मो धानि सर्वकषेऽस्मिन्ननुभवमुपयाते भाति नं द्वैतमेव ॥९॥
आत्मस्वभावं परभावभिन्नमापूर्णमाद्यंतविमुक्तमेकं ।।
विलीनसंकल्पविकल्पजालं प्रकाशयन् शुद्धनयोभ्युदेति ॥१०॥ जो पस्सदि अप्पाणं अवद्धपुढे अणण्णयं णियदं। अविसेसमसंजुत्तं तं सुद्धणयं वियाणीहि ॥१६॥
यः पश्यति आत्मानं अवद्धस्पृष्टमनन्यकं नियतं ।
अविशेषमसंयुक्तं तं शुद्धनयं विजानीहि ॥१६॥ सात्पर्यवृत्तिः-जो पस्सदि यः कर्ता पश्यति जानाति कं अप्पाणं शुद्धात्मानं कथंभूतं अवद्धपुढे द्रव्यकर्मनोकर्मभ्यामसंस्पृष्टं जले विसिनीपत्रवत् । अणण्णयं अनन्यकं नरनारकादिपर्यायेषु द्रव्यरूपेण तमेव थासकोशकुशूलघटादिपर्यायेषु मृत्तिकाद्रव्यवत् णिययं नियतमवस्थितं निस्तरंगोत्तरगावस्थासु समुद्रवत् अविसेसं अविशेषमभिन्नं ज्ञानदर्शनादिभेदरहितं गुरुत्वस्निग्धत्वपीतत्वादिधर्मेषु सुववत् असंजुत्तं असंयुक्तमसंबद्धं रागादिविकल्परूपभावकर्मरहितं निश्चयनयेनोष्णरहितजलवदिति तं सुद्धणयं वियाणीहि तं पुरुषमेवाभेदनयेन शुद्धनयविषयत्वाच्छुद्धात्मसाधकत्वाच्छुद्धाभिप्रायपरिणतत्वाच्च शुद्धं विजानीहीति भावार्थः । अथ द्वितीयगाथायां या पूर्व भणिता शुद्धात्मानुभूतिः सा चैव निर्विकारस्वसंवेदनज्ञानानुभूतिरिति प्रतिपादयति । ___ आत्मख्यातिः-या खल्वबद्धस्पृष्टस्यानन्यस्य नियतस्याविशेषस्यासंयुक्तस्य चात्मनोऽनुभूतिः स शुद्धनयः सात्वनुभूतिरात्मैवेत्यात्मैकएव प्रद्योतते कथं यथोदितस्यात्मनोनुभूतिरिति चेद्वद्धस्पृष्टत्वादीनामभूतार्थत्वात्तथाहि-यथा खलु विसिनीपत्रस्य सलिलनिमग्नस्य सलिलस्पृष्टत्वपर्यायेणानुभूयमानतायां सलिलस्पृष्टत्वभूतार्थमप्येकांततः सलिलास्पृश्यं विसिनीपत्रस्वभावमुपेत्यानुभूययानतायामभूतार्थ । तथात्मनोनादिबद्धस्पृष्टत्वपर्यायेणानुभूयमानतायां बद्धस्पृष्टत्वं भूतार्थमप्येकांततः पुद्गलास्पृश्यमात्मस्वभावमुपेत्यानुभूयमानतायामभूतार्थ । यथा च मृत्तिकायाः कस्ककरीरकर्करीकपालादिपर्यायेणानुभूयमानतायामन्यत्वं भूतार्थमपि सर्वतोप्यस्स्वलंतमेकं मृत्तिकास्वभावमुपेत्यानुभूयमानतायामभूतार्थ तयात्मनो नारकादिपर्यायेणानुभूयमानतायामन्यत्वं भूतार्थमपि सर्वतोप्यस्वलंतमेकमात्मस्वभावमुपेत्यानुभूयमानतायामभूतार्थे । नथा च