Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
Catalog link: https://jainqq.org/explore/090536/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ AK MAYEKER ज्ञानेन महि सदृशं पवित्रमिह विद्यते। माणिकचन्द - दिगम्बर जैन ग्रन्थमाला विक्रान्तकौरवम नाटकम् । Page #2 -------------------------------------------------------------------------- ________________ विक्रान्तकौरवम् । Page #3 --------------------------------------------------------------------------  Page #4 -------------------------------------------------------------------------- ________________ माणिकचन्द-दिगम्बरजैनग्रन्थमाला, तृतीय पुष्प। उभयभाषाकविचक्रवर्ति-श्रीहस्तिमल्लविरचितं विक्रान्तकौरवं सुलोचनापरनामकम् नाटकम् । पाढमानवासि पण्डित-मनोहरलालशास्त्रिणा संशोधितम्। प्रकाशिकामाणिकचन्द-दिगम्बरजैनग्रन्थमालासमितिः। फाल्गुण, वीर नि. संवत् २४४२ । विक्रमाब्द १९७२। Page #5 -------------------------------------------------------------------------- ________________ AVANA Printed by Chintaman Sakharam Deole, at the Bombay Vaibhav Press, Servants of India Society's Building, Sandhurst Road, Girgaon, Bombay. Published by Nathuram Premi, Honorary Secretary Manickchandra D. Jain Granth Mala Hirabag, Near C. P. Tank Bombay. wa UNI Page #6 -------------------------------------------------------------------------- ________________ H O STALS - - - UNCTION प्रस्तावना। nãber हस्तिमल्लकवेः परिचयः। सोऽयं समस्तजगदूर्जितचारुकीर्तिः स्याद्वादशासनरमाश्रितशुद्धकोतिः। जीयादशेषकविराजकचक्रवर्ती श्रीहस्तिमल्ल इति विश्रुतपुण्यमूर्तिः॥ (अय्यपार्यः) तद्ग्रंथकर्तुर्हस्तिमल्लेति नाम प्रथितमासीत् । अयं च गोविंदभाख्यविदुषः सूनुर्दाक्षिणात्य आसीत् । गोविंदभठ्ठो वत्सगोत्रीयो ब्राह्मणः पूर्वमजैन आसीत्, पश्चाद्भगवत्समंतभद्रविरचितदेवागमसूत्राध्ययनेन जैनो जातः । ग्रंथस्यास्य तृतीयपृष्ठे हस्तिमल्लेन सूत्रधारमुखेनाख्यापितः “अस्ति किल सरस्वतीस्वयंवरवल्लभेन भारगोविंदस्वामिसूनुना हस्तिमल्लनाम्ना महाकवितल्लजेन विरचितं विक्रांतकौरवं नाम रूपकमिति" । अस्मिन् तेन कविना स्वपितृनाम्ना साकं यत् 'भधार' 'स्वामी' इत्येतत्पदद्वयं योजितं ताभ्यां प्रतीयते कदाचित् गोविंदभः तदानीं साधुर्भारको वा प्रथितः स्यात् । अन्यच्चास्यां विक्रांतकौरवीयप्रशस्तौ वीरसेन-जिनसेन-गुणभद्राद्याचार्यपरंपराया उल्लेखं कृत्वा लिखितं । तच्छिश्यानुक्रमेयातेऽसंख्येये विश्रुतो भुवि। गोविंदभट्ट इत्यासीद्विद्वान् मिथ्यात्ववर्जितः॥ अस्यां यत् गोविंदभधे गुणभद्रादिशिष्यपरंपरायां निरूपितः अनेनापीति प्रतीयते यद् गोविंदभद्ये गृही नासीत् साधुर्भारको वा स्यात् । ___ अस्ति गोविंदभो दक्षिणदेशनिवासी । तत्र स्वर्णयक्षीनाम्नी काचिद्देवी समाराधिता जाता । तत्प्रसादेन तस्य एतत्षट्पुत्रप्राप्तिः संजाता-१ श्रीकुमार, २ सत्यवाक्य, ३ देवरवल्लभ, ४ उदयभूषण, ५ हस्तिमल्ल ६ वर्द्धमानश्च । एते षडपि Page #7 -------------------------------------------------------------------------- ________________ (२) कवयो विद्वांसश्च बभूवुः । हस्तिमल्लेन स्वीय-मैथिलीकल्याणनाटकस्य प्रस्तावनायक निजाग्रजः सत्यवाक्यः ' श्रीमतीकल्याण' प्रभृतिग्रंथानां कर्ता प्ररूपितः परं तु सत्य. वाक्यस्येदानींतनपर्यंत कोपि ग्रंथो नोपलब्धः । एतेषु कुमारकविनिर्मित आत्म प्रबोधाख्यो लघुग्रंथो ईडराख्यपुरस्य सरस्वतीभवने अस्ति । स हास्तमलभ्रातृ. श्रीकुमारस्यैव वान्यस्य कस्यापीति न प्रतीयते।। ___ 'राजावली' कथातः ज्ञायते यत् हस्तिमल्लस्य पार्श्वपंडितादयः पुत्रा आसन् लोकपालार्याख्य एकः शिष्यश्च । अवश्यमेव तेपि विद्वांसः कवयश्च भविष्यंति किंतु तेषां विषये नाद्यापि पर्यन्तं किञ्चिद् ज्ञातम् । हस्तिमल्लकवेरनुजस्य वर्धमानकवेर्विषये जनानामयं विश्वासोस्ति यत्स गणरत्नमहोदधिनामकव्याकरणविषयग्रंथस्य कर्त्ता परमय भ्रमः । ततो गणरत्नकर्ता विक्रमसंवत् ११९७ अनुमिते अर्थात् हस्तिमल्लसमयात् सार्धशतवर्षपूर्वमासीत् । किंच स गोविंदसूरेः शिष्य आसीत् अयं च गोविंदभट्टस्य सूनुः । अन्यच्च स साधुरयं च गृहस्थः । अपरं च स श्वेतांवाराम्नायी प्रतीयते अयं तु दिगंबरसंप्रदायानुगोस्ति । गणरत्नमहादधिकर्ता श्वेतांबर आसीत् । अस्मिन् विषयेऽनेकानि प्रमाणानि संति । पूर्व तु तेन स्वकीयग्रंथ यत् शतश उदाहरणानि दत्तानि तानि सर्वाणि अजैनानां श्वेत्तांबरग्रंथकर्तृणामेव, दिगंबराणामेकमपि न दत्तं । द्वितीयं पूर्वोक्तोदाहरणेषु द्वौ श्लोकावेतादृशौ ययोः श्वेतांबराणां प्रशंसा दिगंबराणां च निंदा कृतासीत् । यथा वीराचार्याणाम्-- युक्तं सितांबराणां तुम्बग्रहणं कुटुंबपरिहरणं । कथमन्यथा तरीतुं शक्यः संसारतोयानिधिः॥ यथा श्रीसागरचंद्रस्य-- (गणरत्नमहोदधिः, पृष्ठ २२) अकल्पितप्राणसमासमागमा मलीमसांगा धृतभैक्षवृत्तयः। निर्ग्रथतां त्वत्परिपंथिनो गता जगत्पते किं त्वजिनावलंबिनः ॥ (गणर. पृष्ठ १६४) गणरत्नमहोदधिकर्तृनिर्मितं किमपि सिद्धराजवर्णनाख्यं काव्यं वर्तते तस्मिन् चौलुक्यनरेशसिद्धराजस्य वर्णनमास्ति । एतत्काव्यस्यानेके श्लोका गणरत्नमहोदधावुदाहरणस्वरूपेणोद्धृता । अणहिल्लपुर (पाटण) नरेशस्य सिद्धराजस्य श्वेतांबरजैनसंप्रदाये महती कृपासीत् । अनेन प्रतीयते यत् गणरत्नमहोदधेः कर्ता गुर्जरदेशसन्निकटस्थः श्वेतांबरश्च स्यात् सिद्धराजाणहिल्लपुरप्रशंसायां कश्चिदपि दिगंबराम्नायी ग्रंथो लिखिष्यतीति न किंचित्संभावना प्रतीयते । Page #8 -------------------------------------------------------------------------- ________________ ( ३ ) साराश इत्येव यत् हस्तिमल्लस्य भ्रातुर्वर्धमानकवेः गणरत्नमहोदधिकर्तुश्च नामसाम्यं विहाय नान्यः कोपि संबंधः । अस्मिंश्च विषयेऽनेकानि प्रमाणानि निरूपयितुं शक्यानि । हस्तिमो महान् प्रख्यातकविः प्रतीयते । तस्य विरुदावल्याः प्रशंसासूचकपदेभ्य एतत्सूचितं भवति । ग्रंथेस्मिन् स स्वं सरस्वतीस्वयंवरवल्लभ, महाकवितलजेति निरूपितवान् । मैथिलीकल्याणस्यांते स स्वीयं नाम ' सूक्तिरत्नकरेति प्रथयामास । तस्याग्रजेन सत्यवाक्येन स ' कवितासाम्राज्यलक्ष्मीपतिः' इति कथयित्वा संबोधितः । अनेन प्रतीयते हस्तिमल्ल इति कवेरिदं वास्तविकनामधेयं नास्ति | किंत्विदं तद्गुणविशेषेणैव निक्षिप्तं । अस्मिन् विषये अय्येपार्यनामकविदुषा विरचिते जिनेंद्र कल्याणाभ्युदयनानि ग्रंथे श्लोको दत्तः सम्यक्त्वं सुपरीक्षितुं मद्गजे मुक्ते सरण्यापुरे चास्मिन् पाण्ड्यमहीश्वरेण कपटाद्धंतु स्वमभ्यागते । शैलूषं जिनमुद्धारिणमपास्यासौ मदध्वंसिना श्लोकेनापि मदेभमल्ल इति यः प्रख्यातवान् सूरिभिः ॥ १६ ॥ अनेन प्रतीयते यत् हस्तिमल्लेन हंतुमागतस्य मदमत्तहस्तिनो मदो दूरीकृतः कश्चिज्जिनमुद्राधारी धूर्तश्चैकेन श्लोकेन निर्मदीकृतः । अतस्तस्य नाम मदेभमल्लो हस्तिमो वा प्रथितं । एतन्नाटकस्य प्रथमांकेपि श्लोको वर्तते तस्मिन् कवेर्हस्तियुद्धे विजयप्राप्तेस्तन्निमित्तकपांड्यनरेश्वरद्वारा सत्कारप्राप्तेरुल्लेखोस्ति श्रीवत्स गोत्रजनभूषण गोपभट्टप्रेमैकधामतनुजो भुवि हस्तियुद्धात् । नानाकलां बुनिधिपांड्यमहेश्वरेण श्लोकैः शतैस्सदसि सत्कृतवान् बभूव ॥ ४० ॥ उपर्युक्तश्लोकद्वयेनांजनापवनंजयस्य निम्नलिखितप्रशस्तिश्लोकेन प्रतीयते यत् हस्तिमल्लः पांड्यदेशीयराज्ञः कृपापात्रोऽभूत् तद्राजधान्यां च स्वबन्धुभिः सह निवासं चकारश्रीमत्पाण्ड्य महीश्वरे निजभुजांडावलंबीकृते कर्णाटावनमंडलं पदनताने कावनीशेऽवति । तत्प्रीत्यानुसरन्स्वबंधुविव है र्विद्वद्भिरा तैस्समं जैनागारसमेत संतरन मे (?) श्रीहस्तिमल्लोऽवसत् ॥ १ अय्यपार्येण १३७६ विक्रमसंवत्सरे जिनेंद्र कल्याणाभ्युदयस्य रचना कृता Page #9 -------------------------------------------------------------------------- ________________ (४) द्रविडदेशसनिहितस्य मदुरा (दक्षिणमथुरा) याः समीपस्थप्रदेशानां पाण्ज्यदेश इति नाम आसीत् । कविस्थितिसमये तत्रत्यः पांड्यमहेश्वरो नृपो बभूव । अयं सुंदरपांड्य (प्रथम) स्योत्तराधिकारी स्यात् । तस्य राज्यकालः १३०७ वि. संवत्सरात्प्रारंभो भवति । एनं कविः राजाधिराज-नानाकलांबुनिधीति लिखितवान् । अयं कवेर्महदादरश्चकार । कर्णाटककविचरितस्य का हस्तिमल्लकविसमयः ई. सन् १२९० अर्थात् १३४७ विक्रमाब्दो निश्चितः । अयमेव च सम्यक् प्रतीयते, यत अय्यपार्येन स्वीयजिनेन्द्रकल्याणाभ्युदयग्रंथः १३७६ विक्रमाब्दे समाप्तिं नीतः, तस्मिंश्च हस्तिमलस्योल्लेखः कृतः । स चोल्लेख एतादृशो येन हस्तिमलस्तत्समकालीनः तस्य कविना समं साक्षात्परिचयो वा प्रतीयेत । __ हस्तिमल्लो गृहस्थ आसीत् न गृहत्यागी, एतत्कथनस्योल्लेखो नेमिचंद्रकृतप्रतिष्ठातिलकस्यास्मिन् श्लोके कृतः परवादिहस्तिनां सिंहो हस्तिमलस्तदुद्भवः । गृहाश्रमी बभूवार्हच्छासनादिप्रभावकः ॥ १३ ॥ हस्तिमलो महान् प्रसिद्धकविः प्रतीयते । तस्य प्रतिभा परं तन्नाटकेभ्य अनुमीयते अधुनापर्यंत तस्य केवलं नाटकग्रंथा एव उपलब्धाः , तेष्वयमेकः प्रकाश्यते । द्वितीयो मैथिलीकल्याणरूपकग्रंथः त्वरया प्रकाशयिष्यते । तृतीयः सुभद्राहरणः चतुर्थोऽजनापवनंजयश्चापि उपलब्धा आसन् , ययोः प्रकाशने प्रयत्नो विधास्यते। हस्तिमल्लस्यैक आदिपुराणः पुरुचरितं वा नाम ग्रंथो श्रीदौलिशास्त्रिणां सरस्वतीभवने वर्तते यस्मिन्नेकसहस्रानुमिताः श्लोकाः संति; परं स अस्मदृष्टिपथे नायातः। देवचंद्रकविः स्वीय ‘राजावलीकथायां' हस्तिमल्लमुभयभाषाकविचक्रवर्तीति लिखितवान् । अनेन प्रतीयते यत्स संस्कृतं विहाय कनड़ीभाषायाश्च कविरासीत् एतद्भाषायां चापि तेन रचना विहिता स्यात् । कृतं पल्लवितेनेति शम् । * हीराबाग, बम्बई ) निवेदक:माघशुक्ला पूर्णिमा संवत् १९७२ वि. ) मनोहरलाल शास्त्री, ___ * श्रीयुत नाथूरामप्रेमी-जैनहितैषि सम्पादकेन हिन्दीभाषायाँ लिखितस्य लेखस्यानुवादो ऽयम्। Page #10 --------------------------------------------------------------------------  Page #11 -------------------------------------------------------------------------- ________________ vower श्रीमान् सेठ सिदराम पिराजी। श्रीमान् सेठ सिदरामजी सतारा जिलेकी तासगाँव तहसीलके 'सावळज' नामक ग्रामके रहनेवाले हैं । आप दिगम्बराम्नायको माननेवाली कासार नामक जैनजातिके पुरुष रत्न हैं । आप बड़े ही सज्जन, धर्मात्मा और जैनधर्मके ज्ञाता हैं । संस्कृत, हिंदी, कानड़ी और मराठी, भाषाके आप अच्छे जानकार हैं । मराठी आपकी जन्मभाषा है । संस्कृत जैनग्रन्थोंका तो आप नित्यही स्वाध्याय किया करते हैं । दिगम्बर और श्वेताम्बर दोनों सम्प्रदायके * ग्रन्थोंका आपने स्वाध्याय किया है । जैनधर्मके संस्कृत 8 " साहित्यको प्रकाशित करनेकी ओर आपकी बड़ी रुचि १ है । आप कहा करते हैं कि जैनोंका सबसे प्रथम कर्तव्य अपने प्राचीन साहित्यका प्रकाशित करना है । क्योंकि जैनसाहित्य ही जैनधर्मका जीवन है। जैनसाहित्यका प्रचार करनेके लिए आपने इस ग्रन्थकी २५० प्रतियाँ लेनेकी कृपाकरके इस संस्थाको उपकृत किया है। इस ग्रन्थमालाको सहायता देनेकी आप और भी सदिच्छा रखते हैं । अन्य धर्मात्माओंको आपका अनुकरण करना चाहिए। Page #12 -------------------------------------------------------------------------- ________________ m o po sanno &mmmmmmmmmmmons & summmmmm wemarar og annan श्रीमान् सेठ सिदराम पिराजी । mma ramm The Manoranjan Press, Bombay. Page #13 --------------------------------------------------------------------------  Page #14 -------------------------------------------------------------------------- ________________ नमः सिद्धेभ्यः । अथ श्रीमद्धस्तिमल्लकविविरचितं विक्रान्त कौरव नाटकम् । असिमषिमुखा वृत्तिर्येन क्षितौ प्रकटीकृता भरतमहिपस्सम्राट् यस्यात्मजो भुवनोत्तरः । सुरपमकुटीकोटी-नीराजितांघ्रिसरोरुहः प्रथमजिनपः श्रेयो भूयो ददातु मुदा सदा ॥ १ ॥ ( नांद्यन्ते ) सूत्रधारः --- अलमतिप्रसंगेन मारिष इतस्तावत् । ( प्रविश्य ) पारिपार्श्वकः भोव अयमस्मि आज्ञापयत्वार्य इति । १ भो विद्वन् । Page #15 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे सूत्रधारः - शृणु तावत् । नानादिगन्तवास्तव्यपंडितोखण्डमण्डलमण्डितामिमां परिषेदं प्रार्थितवानस्मि । मारिषः — किमिति । सूत्रधारः - चिराभ्यासपल्लविता मदीयनाट्यशास्त्रविद्या सादरावलोकन सफलीक्रियतामिति । मारिषः – भाव किमर्थमियं प्रार्थना | अधीतैषा विद्या क्रमत इहें पारं च गमिता प्रदत्ता पौत्रेषु प्रथितमनसा तंत्र भवता । यशोमल्लीबल्लीकुसुमसुभगं चाजनि फलॅम् ततः सैषा याची सपदि तव दैन्याय भवति ॥ २ ॥ सूत्रधारः - मारिष सत्यमेतत् । तथापीदं श्रूयताम्एतद्देहानुभाव्ये प्रचुरंधनचये नास्ति कस्यापि तृप्तिः कांतावपि तद्वत्तरुणिमेवयसा केवलेनानुभाव्ये । तस्मात्संजृम्भमाणे प्रसरति च विना देशकालव्यवस्थां कीर्तिस्तोमेऽभिरामे जगति कृतमतेः कस्य वा स्याद्विरक्तिः॥३॥ किंच | अस्मदीयां नाट्यविद्यावैर्शेयोल्लसितां कीर्तिमपहर्तुमुपाध्यायभरताचार्यपुत्रस्संतततंतन्यमानासूयानिवासपदैः नटॉपसदैः प्रतिबोधितः स्पर्धा - माटीकते, तां निर्मूलयितुं च अनितरदुस्साध्यरूपकाभिनयारंभसंरंभ इति । मारिषः - तर्हि युक्तैषा प्रार्थना परिषदा च किमाज्ञप्तमिति । १ विद्वच्छ्रेष्ठ । २ सभां । ३ वृद्धिंगता । ४ नाट्यशास्त्रे । ५ छात्रेषु । ६ पूज्येन त्वया । ७ प्रयोजनम् । ८ प्रार्थना । ९ स्वीकृतशरीरानुभवनयोग्ये । १० अधिकधमसमूहे । ११ स्त्रीसमूहे । १२ यौवनावस्थया । १३ प्राज्ञस्य । १४ विशदीकरणत्व । १५ नर्तकाभासैः । १६ नाटक । Page #16 -------------------------------------------------------------------------- ________________ सूत्रधारः ― प्रथमोऽङ्कः । ३ शृंगारवीरसारस्य गंभीरचरिताद्भुतम् । महाकविसमाबद्धं रूपकं रूप्यतामिति ॥ ४ ॥ मारिषः -- दुर्लभं खल्वीदृशं पारिषदश्रवणलोचनासेचनकं रूपकमिति । सूत्रधारः - ( स्मरणमभिनीय ) आः स्मृतम् । अस्ति किल सरस्वतीस्वयंवरवल्लभेन भट्टारगोविंदस्वामिसूनुना हस्तिमल्लनाम्ना महाकवितल्लजेन विरचितं विक्रांतकौरवं नाम रूपकमिति । मारिषः - अपि तादृशो हस्तिमल्लः । सूत्रधारः सरस्वत्या देव्या श्रुतियुगवतंसत्वमयते सुधासधीचीनां त्रिजगति यदीया सुफणितिः । कवींद्राणां चेतःकुवलयसमुल्लासनविधौ शरज्ज्योत्स्नालीलां कलयति मनोहारिरचना ॥ ५ ॥ किंच 1 कवींद्रोऽयं वाचा विजितनवमोचाफलरसः सभासारज्ञढ्या वयमपि तथा नाट्चचतुराः । कथाप्येषा लोकोत्तरनवचमत्कारमधुरा तदेतत्सर्वं नैः प्रकटतरभाग्येन घटितम् ॥ ६ ॥ मारिषः - वसंतसमयोप्ययं भविस्योपकुरुते प्रचुरविकसितकुसुमशरमयः । सूत्रधारः - युक्तमेतत् । अहो रमणीयता कोमलकिसलयकुलविक - सितवसंतस्य । - १ प्रतिपाद्यतां । २ परिषदि विद्यमान । ३ अतृप्तिकरं । ४ कर्णभूषणत्वं । ५ सदृशा । ६ हस्तिमलसंबंधिनी शोभनावसरणिः । ७ उत्पादयति । ८ कदलीफल । ९ शास्त्रज्ञपरिपुर्णा । १० अस्माकम् । ११ संबंधितं । १२ विदुषः भवतः सहायते । Page #17 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे पुष्यचूतलताप्रवालकलनामाद्यत्पिकोयत्स्वरा वासंतीलतिकालंतांतविचर गारवाडंबराः । फुल्लाशोकसुगंधबंधुरचरनमंदानिलस्पंदना यूनामुत्सुकयंति मानसममी वासंतिका वासराः ॥७॥ अलमतिप्रसंगेन तद्यावदिदानीमारभ्यतां संगीतकम् । मारिष:-तेन हि किमिति विलंब्यते ( नेपथ्याभिमुखमवलोक्य ) अहो सुलोचनास्वयंवरयात्रामहोत्सवसंदर्शनाय चतुरंगबलेन सह वाराणसी प्रस्थितेन कौरवेश्वरेण सानीतस्य तत्प्रियसुहृदो विशारदस्य भूमिकामादाय रंगत्तरंग इत एवाभिवर्तते । तदावामप्यनंतरकरणीयाय सज्जीभवावः । (इति निष्कांतौ) १ भक्षण । २ कुसुमे । ३. पुष्पित । ४ अनुगतस्य । ५ वेषं । ६ नाम। Page #18 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । प्रस्तावना । CACION ( ततः प्रविशति विशारदः ) विशारदः - ( परितो विलोक्य ) अहो वसंतसमयमोदमानतरुखण्डमण्डितेषु नदीतटेषु मध्याह्नपर्यंतसंचारश्रांतसैनिक जनप्रचुरा निवेशिता एव स्कंधावाराः । अद्य हि । कच्छान् केप्यधिशेरते तरुतलं प्रच्छायमध्यासते केचित्केचन सारणीपरिसरे संस्त्यायैमातन्वते । बनंत्यावसथान् परेथ सरसां रोर्धंस्सु रुद्धोष्मसु ग्रार्मानेति पुरोपकण्ठसुलभानन्यस्तु भूयान् जनः ॥ ८ ॥ ( अन्यतोऽवलोक्य) अहो नैकविधः सैनिकानामनपायः श्रमापहरणोपायः । तथाहि । शीतापाश्चिखनंति केप्यधिनंदं तापार्तितः कूपकान् श्रतिर्भूरिजलावगाहनरसात्पूरः परैर्वार्यते । ५ ढौकंतेऽद्य फलापचायचपला केचित्फलाढ्यान् द्रुमान् कूपापांतभ्रुवो वहंत्युपगतानन्यानुदन्यावतः ॥ ९ ॥ ( अन्यतो दृष्ट्वा ) । कुल्यायामुपशैल्यभूमिषु पुरः प्रोद्यद्विहंगारुतौ ज्योत्स्नास्रोतसि शीतपाय्यसिलतासंबाधरुद्धोष्मणि । १ संतोषजनक । २ जलप्रायप्रदेशान् । ३ अधिवसंति । कुल्यासमीपे । ५ गृहम् । ६ तीरेषु । ७ निवारितौष्णेषु । ८ गच्छति । ९ प्रमादशून्यः । १० नद्याम् । ११ पीडिता । १२ विश्वासात् । १३ प्रापयंति वापारिके । १४ ग्रामतिं । Page #19 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे एते यांति कृतापगूढमधुना कांताभिरध्वश्रमक्लांताभिः सह कर्तुमत्र कतिचित् स्वैरावगाहोत्सवम्॥१०॥ (पादालोकितेन निर्दिश्य ) इदं तु पुनरस्मत्स्वामिनः कौरवेश्वरस्य शिबिरं नातिदूरे वाराणस्या विविक्त एव प्रदेशे निवेशितम् (आत्मानं निर्वर्ण्य) मार्गश्रमलघूकरणोल्लाँघ च नः शरीरम् । यावदिदानी कौरवेश्वरभवनं गत्वा प्रियवयस्यं नंद्यावर्त पश्यामि । ( परिक्रम्यावलोक्य च ) अहो प्रत्यग्रसंनिविष्टस्य कौरवेश्वरशिविरस्य महती वृत्तांतता। तथाहि । ऋजुषु तरुषु लग्ना स्थूलदीर्धेषु गंधद्विरदपरिषदेषा रुध्यते बध्यते च । इह च विटपिखंडे वाजिनां कल्पयंति स्थगिततरणितापे मंदुरामंदिराणि ॥११॥ (पुरोऽवलोक्य) कथमसावग्रतः समुचितस्थानकग्रहणचापलसुलभसैन्यक्षोभचलितचेताः किमपि कुप्यन्नायासयति हस्तिपकानां घातुको गंधगजः। तथाहि । तिर्यक् पश्यति पृष्ठतोऽपसरति स्तब्धे करोति श्रुतीः शिक्षां न क्षमते शिरो विधुनुते घंटास्वनायेर्षते । संदेग्धि प्रतिहस्तिनं प्रकुपितो दानांबुगंधं निजं क्ष्यामाहंति करण याति न वशीं क्रोधोध्दुरः सिंधुरः॥१२॥ (पदांतरे स्थित्वा ) कथमसौ स्वैरचारिपरिपंथिपंथाः । तदितो वयं (अन्यतो गत्वा अवलोक्य च) कथमिहाप्यनाश्वासः (पुनर्निरीक्ष्य ) क्यं प्रतिव्यूटः प्रत्यूहः । १ विजने । २ खं प्रति । ३ आरोग्यवत् । ४ विचारः। ५ वाजिशाला । ६ करिणीम् । Page #20 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। तथाहि । परिभ्रष्टस्थानात्कथमपि समंतात्प्रचलितैः बलीवर्दो धावन्नयमनुसृतो वाहपितृभिः । मुखप्रोते पाशे विलुठति कथंचित् तद्विधौ खरपुटलने सपदि निपतन गृह्यत इह ( ? )॥ (परिक्रम्य क्षणं स्थित्वा ) अहोऽयं पौनरुक्त्यविमुखो जनस्यालयः । अय हि। तुच्छच्छायःस देशः स तु विरलजलः सोपि पाथः प्रहीणः सा भूमिः क्षारतोया परुषदृषदसौ शर्करा कर्करा सा। तत् क्षेत्रं कंटकाढ्यं तृणविकलमदस्तत्तु धूलीकरालं छायास्वेवं तरूणामभिदधति मिथः शैबिरों मार्गदुःखम् ॥१३॥ ( परिक्रम्यावलोक्य च ) अहो स्पृहणीयं खल्वेतत् । अत्र हि। प्रच्छायशीतलमहीरुहपादमूलान्यध्यासते प्रियतमांकसमर्पिताङ्गाः । अध्वश्रमार्तनयनं वदनं दधत्यः कांता वनांतचलिताय समीरणाय ॥१४॥ (परिक्रम्यावलोक्य च ) कथमितो वारस्त्रीणां सद्मानि । अहो असाधारणः खलु वारवनितानां मंडनप्रकारः । कुतः ? कदा पटकुटी कृता प्रशमितः कदाध्वश्रमः कदा व्यजनि मज्जनं विरचितं कदा मंडनम् । गृहेष्विव पुरः स्थितः परिचितेषु सज्जस्त्वसौ क्व चेष्यति विलासिनीजनममुं जनः कौशलात् ॥ १५॥ १ पाषाण । २ कर्कशा । ३ कथयति । ४ शिविरनिर्मातारः । Page #21 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे (विचिंत्य ) इयं खलु कार्यातरव्यापूतानां पथ्या रथ्या तदितो वयं । (परिक्रम्यावलोक्य च ) इदं कौरवेश्वरभवनं । ( पाश्र्वादालोकितेन ) अये अयमुत्तरेण राजगृहबाह्यालिंदं विस्तीर्णप्रसारितदूष्यपटकायमाननिषण्णः कामपि दर्शनीयतामुद्दहति राजवाहनप्रधानगंधगजः । तथाहि। हरितकलमपूलग्रंथिनासौ सलीलं व्यजनि वदनभागानग्रहस्तोद्धतेन । मृदयति तमभिन्नन कुंचिते चांघ्रिपृष्ठे ग्रसितुमथ गजेंद्रो दंतरंध्रेण धत्ते ॥ १६ ॥ ( अग्रतो दृष्टा ) कथमसौ प्रियवस्यो नंद्यावर्तः प्रतिहारस्थानान्निर्गत इतएवाभिवर्तते । भवतु प्रतिपालयामि । (ततः प्रविशति नंद्यावर्तः ) ( परिक्रम्य ) कथमसौ अनाकलितकोलातिपातः पातयति कामुकानापातदुस्सहायामापदि मदनः । तथाहि । क्षणाद्धैर्यग्रथिं शिथिलयति निर्मथ्य विनयं क्षणाल्लज्जा भंजन क्षपयति विवेकं पदुमपि । क्षणादन्यामन्यां सृजति रुजमंतर्बहिरपि क्षणात्कामः कामं जनयति जिगीषूश्च पुरुषान् ॥ १७ ॥ येन काशीराजतनयादर्शनानंतरमेव कौरवेश्वरस्तादृशीं दशामयासीत् (पुरोऽवलोक्य ) कथमसौ विशारदः प्रतिपाल्य तिष्ठति । तावदुपसँपामि । ( उपसृत्य ) सखे विशारद कुतस्त्वमियती वेलां विलंबितः वंचितः खल्वसि वाराणसीदर्शनात् । १ अकृतकालातिक्रमः । २ प्रारंभे।३ नाशीकृत्य । ४ अनिर्वचनीयं । ५ गच्छामि । Page #22 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । विशारदः-कदा दृष्टा वयस्येन वाराणसी ? । नंद्यावर्तः श्रूयताम् । विशारदः-अवहितोऽस्मि । नंद्यावर्तः-इतस्तावन्मार्गश्रमाशथिलगाने प्रतिश्रेयमेव प्रस्थिते भवति कौरवेश्वरस्त्रिचतुराभिरूँपजनपरिवृतस्तास्ताः परिहासमधुराः कथाः कुर्वन कियतीमपि वेलां विनोदगोष्ठीमध्यासिष्ट । ततश्च जरठातपतापोद्रेकसुलभनिद्रालसप्रतप्तसौनकजनसंकुलतरुतले दुस्सहदूष्यकुटीतापताम्यच्छिबिरजने ल्पुष्टपांशुपटलाभितप्तांत्रीपृष्ठे पथिकजनपर्यटनविराममूकाध्वनि नितांतकथितसरस्सलिलतापभयपलायमानजलपतत्रिनिषेवितपत्रलतीरकच्छांतरे निदाघोष्मदुर्निरीक्षान्तारक्षे दुष्यमाणदुस्पर्शमर्मरधर्ममारुतपरिस्पंदे क्रमादतिक्रांते मध्यदिनसमये मध्याह्नतापसंतप्तनभःस्थलावस्थितिमसहमान इव अपरकाष्ठाभिमुखे लंबमाने भगवत्यंबरमणौ जातायां च किंचिच्चरणसंचरणक्षमायां क्षमायां प्रोझंतीषु च पथिकैः समं तरुमूलानि छायासु प्रशांतप्राये दिवसोष्मणि प्रहतायां च तृतीयपंहरावसानशसिन्यां भेर्या प्रवर्तमाननगरदेवतायात्रामुपश्रुत्य वाराणसीदर्शनकुतूहली सार्धमस्माभिरुत्थितो हस्तिनाधिपतिः। - विशारदः-ततस्ततः । नंधावर्तः-ततश्च निर्वर्तिताशेषपरिजनः परिमितास्मत्प्रमुखविस्रंब्धजनपरिवारपरिवृतः सुंदरतममणिमंडितवंदनमालालंकृतमकरतोरणां वाराणसीमभिप्रचलितः । विशारदः-ततस्ततः। नंद्यावर्तः-ततश्च । अंभोरुहोदरपरिभ्रमलब्धगंधैः संभोगखिन्नयुक्तीश्रमवारिचौरैः। १ सदनं । २ विचक्षण । ३ उष्ण । ४ भूभागे । ५ धरित्र्याम् । ६ याम । ७ श्रुत्वा । ८ निवारित । ९ विश्वसनीय । Page #23 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे गंगातरंगपरिमर्शमनोज्ञशीतैः । स्निग्धामसौ सपदि तोमगमत्समीरैः ॥१८॥ विशारदः-ततस्ततः। नंद्यावर्तः–प्रविश्य च वाराणसी कचिज्जीर्णोद्यानप्रदेशे तुरंगमवरादवरुह्य तत्रैव छत्रधारिणा अश्ववारेण तुरंगमवरं चावस्थाप्य केवलं साधू मया धनुाहिणा चासिधेनुन कौरवेश्वरः प्रवर्तमाननगरदेवतायात्रां काशीराजपुरीमुपसृत्य कचित्प्रचुरतररथतुरगगजपदातिसंचारदुंगमान मार्गान, क्वचित्कमलकुडमलकोमलांजलिपुंजमंजुलभक्तजनसहस्रसेकुलानि, देवकुलानि क्वचिदुन्निद्रकुसुममकरंदामोदमेदुरपवनान्युपवनानि,क्वचित्प्रचलवीचिनिचयविलुप्य॑मानविकचससिजरजांसि सरांसि, कचित्सुरवनितासायुवतीजनविहाररम्याणि हाणि, क्वचिदंतदृश्यमानकामिनीवदनकांतिवितीर्णकामिजननयनोपायनानि वातायनानि, क्वचित्कृततपनतापनिग्रहाणि धाराग्रहाणि, क्वचिदुल्लोलकल्लोललोलंबनिकुरुम्बकरम्बितप्रांतविराजितमनोज्ञनिष्कुटान, शृङ्गाण्टककूटान कचित्पणपरिणनकुपिताक्षिकरूक्षकंठघोषजितराजसभाः द्यूतसभाः, क्वचिदर्धासनोपविष्टप्रियतमानुवर्तनप्रियान् युवनिकरान्, कचिदुन्मिषन्मकरतोरणनिबद्धरत्नछविशिखाविशिखौः पश्यन् क्रमेण राजभवनगामिनो मार्गान्नातिसंनिकटस्य परिपुष्टपरपुष्टचटुलचंचुविघटितमुकुलितपुटविकीर्यमाणमकरंदबिंदुधाराराजितालवालपरिसरस्य मधुममत्तमधुकरमनोहारिझंकारस्य सहकारस्य तले विविक्तौत्सुक्यान मुहूर्तमासिष्ट । विशारदः–ततस्ततः। नंद्यावर्तः–अत्रांतरे नगरदेवतायात्रातः प्रतिनिवर्तमानस्तेनैव वर्मना प्रवर्तिष्ट गंतुं महान् पौरलोकः । १ वाराणसी।२ नाम । ३ नाम । ४ उपगम्य । ५ चैत्यालयानि। ६ स्वीक्रियमाण । ७सदृश । ८ भ्रमर । ९ गृहारामान् । १० समूहान् । ११ रथ्या-प्रतोली १२ सार । १३ आम्रवृक्षस्य । Page #24 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । विशारदः – वंचित एवास्मि यात्रादर्शन कौतुकात् । नंद्यावर्तः– सखे मा खेदं करिष्ठाः । सुलोचनास्वयंवरयात्रातः प्राक् पश्चाच्च दिनत्रयं नगरदेवतानामकम्पनेन यात्रा प्रवर्त्यत इति किंवदंती | न खल्वयैव यात्रापूरणं । तद्दर्शिष्यत एव । विशारदः - कदा नु खलु सुलोचना स्वयंवरिष्यति । नंद्यावर्तः इतस्तृतीयेहीति वदंति । विशारदः - भवतु कथाशेष एव कथ्यताम् । ११ नंद्यावर्त :- ततश्व दूरितोत्सारिताशेषजमसंमर्दैः समापतद्भिः प्रतिहारैः परिवारितं मंजशिंजानमंजीरेण मंदप्रक्वणितमेखलागुणेन सलीलभुजलताविक्षेपरणितमणिवलयेन पवनैरप्यालिंगनकुतूहलादिव स्तनांशुकांतप्रवेशिभिः सेव्यमानेन स्तनभरोद्वहनश्रमनिश्वासैरपि रसास्वादलोभादिव निपीयमानाधरेण मणिकर्णिकारत्नकिरणमंजरीकलापेन वचनरसादिव स्पृष्टकपोलतलेन मुग्धहरिणमसृणस्निग्धविप्रेक्षितेन हासोत्तरमधुरभाषितेन शिरीषकुसुमसुकुमारशरीरेण तांस्तांश्च परिच्छदान् गृह्णता वागृह्णता च पादचारिणा स्त्रीलोकेन परिष्कृतं संमुखासीनताम्बूलदायिनीसनाथं मंदमंदसंचारिणापि पुरुषचतुष्टयेनाह्यमानं चतुरंतयानमध्यासीना दर्शनीयानामपूर्वं धाम दर्शनपथमागता कापि स्त्रीसृष्टिः । विशारदः - ततस्ततः । नंद्यावर्तः– अवतिष्ट च ततः काशराजदुहिता सुलोचनेयमिति महान् जनवादः । विशारदः — ततस्ततः । नंद्यावर्तः -- ततश्च कौरवेश्वरस्तामपश्यत् । १ जनश्रुतिः। २ कर्णाभरण । ३ वक्रावलोकनेन । ४ धृतं । Page #25 -------------------------------------------------------------------------- ________________ १२ विक्रांतकौरवे निष्पन्देस्तिमितेक्षणः क्षणमसौ संजातकौतूहलः प्रादुर्भूतनितांतविस्मयरसप्रस्मेरगण्डस्थलः । व्यापारांतरशून्यमूढकरणग्रामस्तदैवान्वभूत् कामप्याहितमोहरुद्धहृदयामंतर्व्यथां मादिनीम् ॥ १९॥ विशारदः--ततस्ततः । नंद्यावर्तः-ततश्च । किमकृतकिमवादीत् कीदृशः कीदृशोऽभूत् कुरुपतिरिति वक्तुं व्यक्तमतन्न विद्मः । व्यर्धित विधुरसत्त्वः कौतुकस्तब्धपक्ष्मा निगलितमिव तस्यां केवलं नेत्रयुग्मम् ॥ २०॥ विशारदः–अहो तथाविधानामप्यतिविधेयं धैर्यस्खलनमिति यत् सत्यमशरणं सत्त्वं । सखे ततः । नंद्यावर्तः–तथा व्रजंती काशीराजपुत्री । अथ सपदि यदृच्छाबद्धलक्ष्यां वलक्षद्युतिशबलितपातां कौरवे गौरवेण । न्यधित दृशमपांगासीगनी स्निग्धमुग्धां कुवलयदलदामशामलां कोमलाङ्गी ॥ २१ ॥ विशारदः-तदेतदुन्मिषितोन्मादनं यदुत कामयमानस्य पुंसः प्रेयस्यां सह नयनसभेदः । ततः । नंद्यावर्तः–अथ तस्यां. प्रथमतरानुभूयमानमन्मथरसमंथरितविभ्रमायां तिरोहितायां क्रमेण काशीराजसुतायां कौरवेश्वरस्तन्मार्गदत्तदृष्टिरित्थमभूत् । १ चलनराहियेन स्तब्ध । २ इंद्रियसमूहः । ३ मन्मथसंबांधनीं । ४ व्यधात् । ५ अभिवृद्ध । ६ मिश्रणं । ७ मंद। Page #26 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। मूढ इव विलिखित इव उत्कीर्ण इव विशीर्ण इव मुषित इव आविष्ट इव दृत इव दीन इव। विशारदः-अहो अतिप्रसक्तं । अथवा एतदपि संभाव्यत एव, न खल्वंतर एवावस्थानं निपंततः प्रस्तरस्य । ततः। नंद्यावर्तः–ततश्च मया हस्ते गृहीत्वा देव दृष्टैव सर्वतो वाराणसीति, बलानिर्बध्यमानः प्राग् गृहीतामपि ताम्बूलवीटिकामनिच्छाशिथिलेन हस्तेन मम हस्ते विसृज्य शून्यांतःकरण एवापरिक्षितपदन्यासः विर्स - स्थुलया गत्या तदेव जीर्णोद्यानमासाद्य आरूढतुरंगमः । सार्धमस्माभिः पुनरिहागतः। विशारदः-ततः। नंद्यावर्तः-आदिश्यमानो गोपयितुं निषिद्धाशेषपरिजनः प्रविष्टोऽभ्यंतरं अंतरं च मार्गायासादत्रैव स्वपन्नार्यसौधांताकस्तदागमनं ज्ञात्वा सत्वरमुपस्थितः । . विशारदः-ततः । नंद्यावर्तः–ततश्च सौधातकिं हस्ते गृहीत्वा किमपि वक्तुकाम इव शयनमंडपिकां प्रविश्य पर्यकिकामलंकृतवान् । विशारदः-प्रायेण तद्दर्शनवृत्तान्तमेव आत्मनि सोढुमक्षमस्तस्मै विवक्षति। नंद्यावर्तः-वाढं तथैव । विशारदः–युक्तमेव प्रियसुहृदे स्वानुभूतं निवेदयितुं । सखे गच्छत्वेतत् । एहीदानी गृहं गत्वा कांचिद्वेलां विश्रमिष्यावः । नंद्यावर्तः–यदाह वयस्यः । (परिक्रम्य निष्क्रांतौ) १ शिलायाः। २ निनोनत। ३ विदूषकः । ४ सुलोचनायाः । ५ विदूषकाय । Page #27 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे १४ शुद्धविष्कंभः। (ततः प्रविशति राजा विदूषकश्च ।) राजा-(दृष्ट्वा च तामद्भुतदर्शनां किमप्यन्तर्विस्मयमानो मनस्यकार्षीत्) इयं चेत् सृष्टा स्यादमृतनिधिनैवेन्दुवदना कथं क्लाम्यत्कांतिः सृजतु स इमामस्थिरकलः । अथैनां कामश्चेत् प्रकृतिललितः स्रष्टुमुचितः स्वसत्तायां कोन्यः प्रथममवलंबोस्य भवतु ॥ २२॥ विदूषकः-भो वैअस्स किं णु खु सा जह सुणिज्जइ रूवसोहग्गेण तह एव्व परमत्थदोवि। राजा-वयस्य यथाश्रुतमित्यल्पमिदमुच्यते । सा खलु । शंगारस्य गरीयसी परिणतिर्विश्वस्य संमोहिनी विद्या काप्यपरा परा च पदवी सौन्दर्यसारश्रियां । उद्दामो मदनस्य यौवनमदः कुल्यारतिस्रोतसां केलिविभ्रमसंपदामविकलो लावण्यपुण्यापणः ॥२३॥ विदूषकः-तेणे हि जुत्तं एव्व मज्झमलोअस्स अलंकरणिं सुलोअर्णि वण्णोत्ति लोओ। राजा-वयस्य अपश्यन् कः प्रत्येति । सा हि । शीतांशोरविनिसृता नयनयोराल्हादिनी चंद्रिका द्रागंतर्दधती मदं च मदिरातंत्रैरनिवर्तिता। पुष्पैरयथिता निसर्गललिता माला मनोहारिणी जीमूतादकृतोद्गतिः स्थितिमती विद्युत्समुद्योतिनी ॥२४॥ १ भो वयस्य किं नु खलु सा यथा श्रूयते रूपसौभाग्येन तथैव परमार्थतोपि । २ तेन हि युक्तमेव मध्यमलोकस्यालंकरणां सुलोचनां वर्णयति लोकः । ३ व्यापारैः। Page #28 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । १५ विदूषकः - अहो' अचेअरं । राजा — अपि च । सा समग्रेन्द्रियग्रामसमाल्हादिनी पुनरित्थमुत्प्रेक्ष्यते । गात्रे चंदनचर्चा मुखे सुधा वकुलपरिमलो घ्राणे । परिवादिनी श्रवणयोरीक्षणयोः शारदी ज्योत्स्ना ॥ २५ ॥ विदूषकः - ऐसा सीमा पसंसाओ । राजा - तामेव पुनस्सकौतुकं च बहुमानं च सानुरागं च निर्वर्णयतः स्मरशरनिकरनिकृतसत्त्वसारस्य प्रतिक्षणमंतर्विशीर्यमाणधैर्यावष्टम्भपारिप्लवहृदयस्य विवर्तमानदुर्वारमनोरथसहस्रदूयमानस्य ममाभूच्चेतसि । आघ्राणव्यवधायिना स्तनतटे किं चंदनेनामुना किं गाढं परिरंभमन्तरयता स्थूलेन हारेण वा । संधानेन कि मुत्तरीयसि च येनेच्छाविहारं दृशोयद्वा यत्स्पृहणीयमस्ति सुलभास्तस्यान्तराया अपि ॥ २६ ॥ विदूषकः - तदो' तदो । राजा- - ततश्व सहयायिनि जने कुतोप्यस्मदधिष्ठितायां दिशि व्यापारि - तदृशि स्वयमपि चलशफरी चारुलोचना तत्रैव यदृच्छया प्रचलमधुकरमालासदृशं दृशमदात् । विदूषकः - ऐसो एत्थ समस्सासो जव्वअस्सोवि ताए दिट्ठोत्ति । राजा- - ततश्च सखे । लज्जाशृंखलया मनाक् नियमितैस्स्मेरोल्लसत्तारकैः किंचित्कुंचितलोचनांतचलितैललोद्यतभ्रूलतैः । तस्याः प्रस्फुरदार्द्रकौतुकरसस्निग्धैरहं प्रेक्षितैरापीतश्चलितः क्षतो निगलितस्संतर्जितो निर्जितः ॥ २७ ॥ १ अहो आश्चर्य । २ एषा सीमा प्रशंसायाः । ३ ततस्ततः । ४ एषोत्र समाश्वासः यद्वयस्यापि तया दृष्ट इति । Page #29 -------------------------------------------------------------------------- ________________ विक्रांत कौरवे विदूषकः - अहो महारंभो मयणसंरंभो । वअस्स तदो तदो । राजा - ततश्च सा यांत्येव तथा ममांतिकात् प्रत्याहृत्य सत्रपं नेत्रमग्रहस्तेन पाश्र्वसन्निहितमुद्धृत्य दर्पणं तमेव पुनस्संक्रामदस्मत्प्रतिच्छंदकसनाथं व्यधात् । राजा विदूषकः - अभिजादं दंसणोवाअविण्णाणं । तदो तदो । - स तु पुनस्तया दर्पणः । निर्वर्णितस्सस्पृहमीक्षणाभ्यां कपोलयोस्सादरमर्पितश्च । न्यस्तश्च भूयः स्तनयोः सुदत्या मुखेन कामं परिचुम्बितश्च ॥ २८ ॥ विदूषकः - अहो पडिच्छंदएवि तुह कासीराअउत्तिए बहुमाणो । १६ राजा - वयस्य । शैत्यने वा रुचिरता बहुमान तोवा मन्येत वा किमषि कारणमन्यदेव | संक्रातमत्प्रतिम इत्यथवास्तु तस्याःसंतर्पणोथ हृदयस्य स दर्पणोऽभूत् ॥ २९ ॥ विदूषकः - हो जाणीअदि एव्व एत्थ कारणं । तदो तदो । राजा - किंच सखे । प्रचलवलयमंदानादिना दंतपत्रं ― सुरचितमपि सख्याः संजयंती करेण । अकृत च सविलासं चारु हासोत्तराणि प्रविकशितकपोला जल्पितान्युत्क्षिपंती ( ? ) ॥ ३० ॥ १ अहो महारंभोमदनसरभः । वयस्य ततस्ततः । २ अभिजातं दर्शनोपायविज्ञानं । ततस्ततः । ३ अहो प्रतिच्छंदकेपि तव काशीराजपुत्र्या बहुमानः । ४ भवतु जानीयते एव अत्र कारणं । ततस्ततः । Page #30 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। १७ m विदूषकः-अवंतीण्णो विअ तिस्सा वअस्से भावो । राजा-असंहार्य खलु मन्मथास्त्रमभिमतामनुरज्यतः पुंसः प्रत्यनुरागदानं । येनेदानीं। · स्निग्धैलितयंत्रणाविचलितैस्तस्याः कटाक्षेहितै रीषत्प्रस्फुरिताधरोष्ठरुचकैस्सख्या समं जल्पितैः । मध्ये चोच्छ्रसितस्तनैर्विहसितैर्दतांशुनीराजितैः । कामः कामपि मे करोति मनसः कामं परामुकताम् ॥३१॥ विदूषकः-तदो' अ किं वुत्तं । .. राजा-ततश्च नातिदूरमिव गते चतुरंगतयाने चतुरंतयानविन्यस्तैकहस्तारिणीमपरां सखीमभिभाषितुकामा किल तिर्यग्वलमानवलिकं विवलनवशनिबिडितकुचतटाभोगसंकुचितोरस्कमनातच्युतशिथिलस्तनांशुकं अंसभागावष्टब्धकपोलपालिकं सलीलत्रिकविवर्तनविश्लथकवरीभारालंकृतापरांसभागमपांगोत्संगपर्यस्तचिकुरलोचनं अर्धविस्रस्तकोत्पलचुंव्यमानभ्रूलतांतमसौ द्विगुणितोपधानावष्टंभनिहितैकहस्ता सविभ्रमदर्शितपूर्वकायकांतिकमनीया किमपि किमप्याभाषमाणा च तामंतरान्तरा च चोदयंती च मदंतिकं तरलतरतारसारोदरां दृशं दृश्यमानैव संसक्तमनतिचिरेण तिरोहिता काशीराजदुहिता। विदूषकः--तदो तदो। राजा-ततश्च न जाने किमभूवं किमकार्ष किंवृत्तमिति केवलं पुनस्तन्मानिहितनिश्चललोचनः किंकर्तव्यतामूढः क्षणमस्थाम् । विदूषकः-अस्स तुहारिसाणंपि तारिसो धेरभंगोत्ति अच्चाहितं । राजा-वयस्य धैर्यभंग इति नैतावतापसरति । तदा खलु । १ अवतीर्ण इव तस्याः वयस्ये भावः । २ ततश्च किं वृत्तं। ३ ततस्ततः। ४ वयस्य त्वादृशानामपि तादृशो धैर्यभंग इति अत्याहितम् । Page #31 -------------------------------------------------------------------------- ________________ विक्रांत कौरवे सत्त्वं विलुप्तमिव तप्तमिवांगमंगं धैर्य विशीर्णमिव दीर्ण इवांतररात्मा । चेतः प्रलीनमिव लीन इव प्रबोधे मानः प्रमृष्ट इव कुष्ट इवास्मि चाहम् ॥ ३२ ॥ विदूषकः - तदो' तदो । १८ राजा - ततश्चाहं तमत्रायासिषम् । नंद्यावर्तेनारुध्यमानः शून्येन चेतसा यथाग विदूषकः - अदो वैरं जाणीअदि एव्व । राजा - ( मदनावस्थामभिनीय ) सखे तद्दर्शनात्प्रभृति च । विस्रधस्य वचोपि नावतरति व्यामूढयोः श्रोत्रयोः संस्कारार्पिततन्मुखेक्षणसुखेनान्यद् दृशौ पश्यतः । बाह्यव्यावृतिनिर्व्यपेक्षमधुना प्रत्यङ्मुखं संकुचचेतस्तद्गुणचिंतनानियमितं मुह्यत्यकाण्डे मुहुः ॥ ३३ ॥ विदूषकः - भो वैअस्स ण जुत्तं पुण तुज्झे एव्वं णाम उज्झिदुं अखंतिसरं धीरतणं । राजा - (सांतस्तापं ) वयस्य सौधातके किं ब्रवीमि । संकल्पशत विधुरितो धैर्यपरिस्खलनजातवैलक्ष्यः । लक्षीकृतः शराणां निसर्गकठिनेन मदनेन ॥ ३४ ॥ विदूषकः -- भी वअस्स सुणाहि दाव जइ तारिसो वअस्से कासीराअउत्तीए दंसिदो भावे तदो अस्सासिदुं वेअ अत्तहोदोवि जत्त जत्तं ण एव्व १ ततस्ततः । २ अतः परं ज्ञायते एव । ३ भो वयस्य न युक्तं पुनः तव एवं नाम उज्झितुं अखंडितप्रसरं धीरत्वं । ४ भो वयस्य शृणु तावत् यदि तादृशः वयस्ये काशीराजपुत्र्या दर्शितः भावः ततः आश्वासितुमेव अत्रभवतोपि यत्र युक्तं नैव संतपितुं । यतो दैवसंपादितः समासन्न एव तस्याः आत्मच्छंदवशानुवर्तनेन समाराधयिता मनोरथानां स्वयंवरोत्सवः । Page #32 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। wwwwwwwwwww संतप्पिदं । जदो देव्वसंपादिदो समासण्णो एव्व तिस्सा अप्पच्छंदवसाणुवत्तणेण समाराहइत्तओ मणोरहाणं सअंवरूसवो। राजा-भवतु वा तथा भवतः यथा प्रतिभाति । तथापि न तावता संप्रति समाश्वासः । मम हि । तैस्तैर्मनोरथैस्तस्यामापतद्भिः कर्थितम् । . अतिवाहयितुं चेतो नालं कालकलामपि ॥ ३५ ॥ (नेपथ्ये वैतोलिको) . वैतालिकौ-विजयतां कौरवेश्वरः सुखाय सायंतनसमयो भवतु देवस्य। प्रथमः उन्मीलनवमल्लिकांतरगलत्सौरभ्यसंवासिताः श्रांता या दिवसश्रियो हिमकणैर्घर्माम्बुकल्पैर्जडाः । पेया घ्राणपुरैः सुखेन सुतरामालिंगनीया भुजै निश्वासा इव वांति मंदमधुना वाता वसंतश्रियः ॥ ३६ ।। द्वितीयः सायं मज्जनशीतला मृगमदव्यालिप्तकंठाः स्त्रियः काश्चिन् नूतनमालिकामुकुलकैर्भारं दधत्यस्स्तनैः। प्रत्यग्रागरुधूपवाससुरभौ कुर्वैति चातिस्रजः केशांते रतिलास्यसंपद इव प्रस्तावपुष्पांजलिम् ॥ ३७॥ विदूषकः-(आकर्णितकेन ) भो वअस्स उडेदु दाव समासण्णा खु साअंतणसंझा। (उत्तिष्ठतः) राजा:-कथमवष्टब्धा संरब्धमकरध्वजसमरोवेला । इयं हि । मनोरथशतार्तानां प्रोषितानां प्रमाथिनी। निशीथिनी जगजिष्णोर्मन्मथस्य वरूथिनी ॥ ३८ ॥ १ वंदिनौ । २ भो वयस्य उत्तिष्ठ तावत् समासन्ना खलु सायंतनसंध्या । Page #33 -------------------------------------------------------------------------- ________________ २० विक्रांतकौरवे विदूषकः-इदो इंदो। ( परिक्रामतः) राजा-(सोत्कंठम् )। अपांगव्यासंगस्खलदलसविभ्रांतनयनं दरमोद्यइंतद्युतिदलितरागाधरदलम् । अविस्पष्टस्वेदं पुलकितकपोलं मृगदृशस्तदद्यापि स्पष्टं मुखमभिमुखं दृश्यत इव ॥ ३९ ॥ (इति निष्कांतौ) श्रीवत्सगोत्रजनभूषणगोपभट्टप्रेमैकधामतनुजो भुवि हस्तियुद्धात् । नानाकलाम्बुनिधिपाण्ड्यमहेश्वरेण । श्लोकैः शतैस्सदसि सत्कृतवान् बभूव ॥ ४० ॥ . इति श्रीगोविन्दस्वामिनस्सूनुना हस्तिमल्लेन विरचिते विक्रांतकौरवीयनाटके वाराणसीदर्शनो नाम प्रथमोऽङ्कः समाप्तः ॥ १ ॥ १ इतः इतः । Page #34 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। द्वितीयोङ्कः ॥२॥ (ततः प्रविशति प्रतीहारः) प्रतीहारः-( शयनादुत्थाय ) कथमस्माभिः समुचित एवावसरे प्रतिबद्धं । प्रातस्तरामेव गंगातीर्थाभिरक्षणाय मया गंतव्यं । यतः पूर्वेयुरेव स्वयंवरदिवसाद्भर्तृदारिकया गंगातीर्थ एव सौभाग्यवृद्धये स्नातव्यमिति कुलवृद्धाभिरादिष्टम् । सौवस्तिके च कस्याः स्वयंवरयात्रा नेदीयसी च संप्रति प्रगतनी संध्या। तथाहि । अनतिगलितनिद्राजाड्यदीव्यद्गलानां प्रसरति कृतहिक्कं कूजितं कुक्कटानाम् । विदधति च विहंगास्तत्क्षणोद्भूतबोधाः कलकलमधिनीडं ग्रामचैत्यद्रुमेषु ॥१॥ तदिदानी गंगातीरमेव गच्छामि ( उत्थाय परिक्रामन् ) इयं खलु अष्टमावशिष्टा किमप्युत्कयति कामुकाननतिचिरविनश्वरी विभावरी।संप्रति हि। चुंबतोऽधरपल्लवं नियमितश्वासं शनैः सुभ्रवां सुप्तानां सभयं सशुष्करुदितं मंझुन्मिषच्चक्षुषाम् । आश्लेषं च ससाध्वसं विरचितं द्रागुज्झतीनां रुषा कुर्वति प्रतिबोधनां प्राणयिनः प्रत्यूषप्रत्युत्सुकाः ॥२॥ इयमेव च निरर्गलप्रणयरसलीलाकामिनामभिमततमा वेला । तथाहि । तत्कालप्रतिबोधिताभिरलसोनिद्रेक्षणाभिः प्रियाः सीदंतीभिररं प्रदोषसुरतश्रांतिश्लथैरंगकैः। Page #35 -------------------------------------------------------------------------- ________________ २२ विक्रांतकौरवे निर्मर्यादविमर्दनिर्दयममी विलंभरुद्धत्रपं सेवंते रतिलंपटा युवतिभिः प्रत्यूषरत्युत्सवम् ॥ ३ ॥ (स्पर्श रूपयित्वा ) अहो सौकुमार्य निशावसानपवनस्य । संप्रति हि । दुरादा परिमलमसावाहरन्मालतीनां व्यावृद्धोऽन्तः प्रतिनवदलत्पाटलीसौरभेण । .. निर्निश्वासोनमितवदनं घ्राणरन्ध्रेण पेयो वायुः श्रातिं रतिविततिजा लुंपते दंपतीनाम् ॥ ४ ॥ संप्रति च रजनीविरामविसर्जनजानतोत्कंठाय स्वादीयानेव स्वदते कोपि रसो मिथुनाय । तथाहि । निर्गतुं प्रथमोत्थितस्य शयनात्तल्पस्थिता कामिनी व्यत्यासानमिताननस्य सुमुखी प्रोत्तानयंती मुखं । कंठासक्तकरा विपर्ययकृताश्लेषस्य भूयोधरं चुंबन्ती परिचुम्बिताधरदलं जानात्यपूर्व रसम् ॥ ५॥ (नभो विलोक्यं निर्वर्ण्य च ) विशुष्यतः संप्रति कौमुदीजलप्लवस्य तिग्मांशुभयानभास्थले। प्रणष्टशिष्टा इव बुद्बुदा इमा विभांति तारा विशरारुरोचिषः ॥६॥ (पुनर्निर्वण्य ) कथं विभातप्रायमेव । अद्य हि। लघु विघटयितारः कुड्मलान्यब्जिनीनां झटिति घटयितारः कोककांताः स्वकांतैः । जहति निषधशैलाधित्यकोत्संगसंगं क्षपिततिमिरलेखास्तिग्मभानोर्मयूखाः ॥ ७॥ Page #36 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । २३ निर्गताः स्मो वाराणस्याः (पुरोवलोक्य) कस्य खल्वसौ सौविदल्लो जान्हवीगामिनमेवाध्वानमपसरति । (प्रविश्य सौविदल्लः) सौविदल्लः-केहं अज्ज तरुणदिणअरकरणिअरणिवडणफुडफुडंतपुडइणीसंदमअरंदणिसंदसमुध्दूणणादिअदिसामुहेण पञ्चद्दविअसंतसरसकेसरपसूणपरिमलुग्गारमंसलेण कुहकुहंतजलसउतकेलीकलहकलअलाअड्डणपेसलेण उप्पेलणफुल्लाविअहल्लअफुल्लासवल्लिअमल्लिआअक्खतल्लएण उग्घाणिअणलिणघरपरिपादिठिविओसरीअछप्पअरिंछोलिझंकारमहुरेण गोसग्गसमीरणेण आलिज्जतणहअलो पसरंतमसिणवालाअवघसिणकद्दमसमालिंदगअणधंतो वट्टेइ । दसिदुद्दामणिसी हरइ इद्धविअलक्खतरुणकामिणीपाअडअलडहविम्भमओ समओ । (नभो विलोक्य) एत्थ हि । अत्थाअंपि व कालिआमइलिउज्जोअं अप्पमुह एअं रेहइ खंडिअंसुपसरं सीआसणो मंडलं पल्लच्छेइ घणंधआरणिअरं वित्थारअंतो दिसाचक्कं कुक्कुडचूडपाडलसिहो अकंसुपब्भारओ। इअं चेअ पुणरुत्तरतिसंभोअसंमद्दमलिणिअपसाहणस्स प्रसाहणंतरग्गहणवेला विलासिणीजणस्स । तहहि । १. कथमद्य तरुणदिनकरकरनिकरनिपतनस्फुटस्फुटत्पुटकिनसिांद्रमकरंदनिष्यंदसमुद्भूननादितदिशामुखेन प्रत्यग्रविकसत्सरसकेशरप्रसूनपरिमलोद्गारमांसलेन कुहुकुहायमानजलशकुंतकलिकलहकलकलाकर्षणपेशलेन उत्पेरणफुल्लापितहल्लकफुल्लासवासिक्कमल्लिकाक्षतल्लजेन उद्घाटितनलिनगृहपरिपात्यस्पष्टप्रसृतषट्पदरिंछोलिझंकारमधुरेण गोसर्गसमीरणेन आलिप्तनभस्तलः प्रसरन्मसृणबालातपघुसृणकर्दमसमालिप्तगगनध्वांतो वर्तते । दर्शितोद्दामनिशी धरति चिह्नविलक्षतरुणकामिनीप्रकटसौंदर्यविभ्रमस्समयः । अत्र हि । आदर्शमिव कालिकामलिनितोद्योतं अप्रमृष्टमेतत् प्रतिभाति खंडिताशुप्रसरं शीतांशोमंडलं पर्यस्तयति घनांधकारनिकरं विस्तारयन् दिशाचक्र कुछुटचूडपाटलशिखोऽौशुप्राग्भारः । इयमेव पुनरुक्तरतिसंभोगसंमर्दमलिनितप्रसाधनस्य प्रसाधनांतरग्रहणवेला विलासिनजिनस्य । तथाहि । Page #37 -------------------------------------------------------------------------- ________________ २४ विक्रांतकौरवे वह चिहुरभारी मालदी पाडलाणं कुसुमवइहरेण गुंफिअं मज्झमालं । वउलकुसुमगुच्छं माहवी फुलविद्धं फुरइ अ थणपट्टे दामअं कामिणीणं ॥ ८॥ सुदं खु मये गदो अज्ज मंदाअणीं अवेक्खिदुं सामिकोरवेसरोत्ति । जाव एहि गंगातीरं गच्छामि । ( परिक्रामति ) । प्रतीहारः -- यावदेनं पृच्छामि ( उपसृत्य ।) कुतो भवान् किमत्रागतोस्ति । सौविदल्लः – दो कोरवेसरस्स खंदावारादो आअच्छेमि तस्स चेअ हि परिअणो । प्रतीहारः - कच्चिदिदानीं मेघेश्वरोपि विस्मारयति गुणान् महाराज - सोमप्रभस्य । सौविदल्लः - अअअ किं एत्थ बहु वणिअदि । पडिच्छंदअं ख सो पिदुणो । प्रतीहारः - तेन हि राजन्वानेव दिष्टया कुरवो जनपदः । तथापि गुणकथाकर्णन कौतुकं तरलयति नश्वेतः । कथय कीदृश इदानीं कौरवेश्वरो मेघेश्वरः । ,, १ वहति चिकुरभारी मालती पाटलानां कुसुमव्यतिकरेण गुंफितां मध्यमालां । बकुलकुसुमगुच्छं माधवी फुलविद्धं, स्फुरति च स्तनपृष्ठे दामकं कामिनीनाम् | श्रुतं खलु मया गतोऽद्य मंदाकिनीमवेक्षितुं स्वामी कौरवेश्वरः इति । यावदिदानीं गंगातीरं गच्छामि । २ इतः कौरवेश्वरस्य स्कंधावारादागच्छामि तस्यैव हि परिजनः 1 ३ आर्य किमत्र बहु वर्ण्यते प्रतिच्छंदकं खलु सः पितुः । ८८ Page #38 -------------------------------------------------------------------------- ________________ द्वितीयोऽतः। सौविदल्लः-तेण हि सुणिज्जउ एण्हिं खु सो। चित्त धरेइ करुणं धरणिं भुअम्मि सीसम्मि पाअजुअलं परमेसरस्स । जिल्लुत्तदुक्खविअणं सअलंपि लोअं अत्ताणआप विअ रक्खइ अप्पमत्तो ॥९॥ प्रतीहारः-तेन हि पुत्रवतामप्यग्रणीमहाराजसोमप्रभः।(पुरो विलोक्य)। इयं खलुसमुच्चरज्जलशकुंतमंथरारावहारिणा समीरणेन लक्ष्यते समासीदंती सुरस्रवंती। सौविदल्लः— केहं समासण्णा जाह्नवी । (उभौ परिक्रम्य दृष्ट्वा च ) प्रतीहारः-इयं हि सा गंगातरंगेण विधारयंती सरोजजालं चलहसमालम् । उल्लासिहारच्छविहारितोया वाराणसी सीमविहारिपूरा ॥ १० ॥ किं च । मदकलसारसलीला कल्हारविसरणमंजुलसमीरा । तामरससरसकेसर विसराकुलसलिलकल्लोला ॥ ११ ॥ इतो मया गंगातीर्थाभिरक्षणाय गंतव्यम् । तेन हि श्रूयतामिदानी खलु सः । “चित्ते धरति करुणां धरणी भुजयोः शीर्षे पादयुगलं परमेश्वरस्य । निर्लप्तदुःखवेदनं सकलमपि लोकं आत्मानमपीव रक्षत्यप्रमत्तः । २ कथं समासन्ना जान्हवी । Page #39 -------------------------------------------------------------------------- ________________ २६ विक्रांतकौरवे सौविदल्लः-कुदोखु सव्वलोअसाहारणं गंगातित्थंवि आभिराक्खिज्जइ । प्रतीहारः-अत्र खलु काशीराजदुहिता सुलोचना सौभाग्यमज्जनार्थ आगमिष्यति । सौविदल्लः–तेण हि जुज्जइ । प्रतीहार:-क्क पुनर्भद्रमुखेन चलितव्यम् ? सौविदल्लः-गदो खु अग्गदो मंदाइणी अवेक्खिदुं सामी मे कोरवेसरो। ( पुरो निर्दिश्य) ऐदं च दोरिदरअतुरिलतुरअपडिणवखुरघादणिरंतरखंडिदं सूआवेदि तस्स गमणमग्गं धरणिवढं । प्रतीहारः—तेन हि युष्माभिरपि परिहर्तव्यो गंगातीरप्रदेशः । सौविदल्ल:--अअअ तह । ( निष्कांतौ) - १ कुतः खलु सर्वलोकसाधारणं गंगातीर्थमपि अभिरक्ष्यते। २ तेन हि युज्यते । ३ गतः खल्वग्रतो मंदाकिनीमवेक्षितुं स्वामी मे कौरवेश्वरः । ४ एतच्च धोरितरयत्वरिततुरगप्रतिनवखुरघातानरंतरखडितं सूचयति तस्य गमनमार्ग धरणीपृष्टम् । ५ आर्य तथा। Page #40 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। मिश्रविष्कंभः। (ततः प्रविशति सोत्कंठो राजा विदूषकश्च) राजाप्रागावयोरुपनतस्य समागमस्य . . संकेतवासभवनं तदनुस्मरामि । यत्रैव दर्पणतले क्षणसन्निविष्टा संक्रामितौ सममहं च सुलोचना च ॥ १२॥ इदं तु पुनरलब्धविश्रामं परिभ्राम्यत्कथं नु नाम धार्येत धैर्यावसादतरलं चेतः । यतो हि मे। येनैव सा प्रथममिदुमुखी प्रयाता . मार्गेण मां विकिरती स्मरमार्गणानाम् । तामेव संप्रति च मार्गयतोऽस्य भूयः पर्याकुलस्य मनसोपि स एव मार्गः ॥१३॥ निपीतो नेत्राभ्यामधररुचकः कौतुकरस-. प्रसंगस्मेराभ्यां प्रथममभववत्पक्ष्मलदृशः । कथं पातुं वांछां पुनरपरथैवेयमपरा परं धैर्यध्वंसं समविदधती नो परमतिः ॥ १४ ॥ विदूषकः-भोवअस्स रमाणिज्जं खु एअंगंगातीरुज्जाणं जाव दक्खिमो। राजा- यद्भवते रोचते। विदूषकः-इदो इदो (परिक्रामतः) भो वअस्स दक्ख दाव गंगातीरु १ भो वयस्य रमणीयं खल्वेतत् गंगातीरोद्यानं यावत्पश्यामः । २ इत इतः । ३ भो वयस्य पश्य तावत् गंगातीरोद्यानस्य रामणीयकं,अत्र हि मध्यनिरंतरनिबद्धम Page #41 -------------------------------------------------------------------------- ________________ विक्रांतकौर जाणस्स रामणिज्जअं । एत्थ हु। मज्झआरणिरंतराणिबद्धमहाणीलमाणविडंतकंतिविसेसा जंबूणअमणिपालंवा विअ दुभंति अल्लीभमरखव्वुरा आरेवहविडवेहिं फुल्लमंजरीओ । विअसंति णिम्मलरूप्पच्छविधवलुज्जलदलाइ तवणिज्जचुण्णसारिच्छारुणकेसरुक्कराइ विडुमखंडविलोहिअवडुलकण्णिआइ पुण्णाइपुप्फाइ । दीसंति थोरमुत्थाहलफलिहधवलाइ णिम्महिअवहलमइरुग्गंधबंधुराइ तक्खणचोडविअलिआइ महुअकुसुमाइ । सोहंति खंडिअजणहिअउक्खंडणसंकंतवहलरुहिरकद्दमरसरंजिआइ उद्दाममअरंदअसद्दलणहरंकुराइ विअ बाहिरफुटगंठिविअडणसोणिमाइ किंसुअकुसमाइ । अह हि । ओत्ताणपुडइणीराइआइ बहुमंजरिल्लसहआरआइ । कुसुमभरभरिअसेहालिआइ । भूरि विअसंत णोमालिआइ । थवअसअणिविडकंकेलिआइ । विअलंतासवविसरोल्लिआइ। मउल्लग्गममणोहरमल्लिआइ। उप्फुल्लसुरहिबहुवल्लि हानीलमणिविगलत्कांतिविशेषाः जांबूनदमणिप्रालंबा इव उद्यते आनीलभ्रमरकरा आरेवनविटपैः फुल्लमंजर्यः । विकसति निर्मलरूप्यच्छविधवलोज्वलदलानि तपनीयचर्णसदृक्षारुणकेसरोत्कराणि विद्रुमखंडविलोहितवर्तुलकर्णिकानि पुन्नागपुष्पाणि। दृश्यन्त स्थूलमुक्ताफलफटिकधवलानि निर्मथितबहलमदिरोद्धबंधुराणि तत्क्षणतविगलितानि मधुककुसुमानि । शोभते खंडितजनहृदयोत्खंडनसंक्रांतबहलरुधिरकर्दमरसरंजितानि उद्दाममकरध्वजशार्दूलनखांकुराणीव बहिस्फुटग्रंथिविघटनघनशोणिमानि किंशुककुसुमानि । अथ च । उत्तानपुटकिनीराजितानि बहुमंजरीवत्सहकारकाणि कुसुमभरभरितशेफालिकानि भूरिविकसन्नवमालिकानि स्तबकशतनिविडकंकेलिकानि विगलदासवविसरार्द्रितानि मुकुलोद्गममनोहरमल्लिकानि उत्फुल्लसुरभिबहुवल्लिकानि निपतत्कुसुमरजोधूसराणि मलयानिलचांचल्यमानकेसराणि सर्वांगसुरभिनव्यमरुबकाणि नवगुच्छगुंफितकुरबकाणि झंकारमुखदिराणि सुखशीतलमाधवीमदिराणि मधुशीकरवत् शिशिरबकुलानि मधुरनिनदस्वरभृतकुलानि दर्शितवसंतनवविभ्रमाणि संमानितपवनपरिभ्रमाणि, इदानीं हरति युवजनमनांसि गंगातटपर्यंतवनानि । पश्य पश्य । इह च सुखविनोदे कृतमदनोदये सुरनदीतीरखनोदरे ननु सहचरीसहितः सुरजनः सुखितः मज्जति रतिसागरे। Page #42 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । २९ आइ णिवडंतकुसुमरअधूसराइ मलआणिलचंचेल्लिअकेसराइ सव्वंगसुरहिणवमरुवआइ णवगुच्छगुंठिअकुरवआइ झंकारमुहुरिंदिराइ सुहसीअलमाहइ मदिराइ । महुसीअरिल्लाससिरवउलाइ दंसिदवसंतणवविभमाइ सम्माणिअपवणपरिब्भमाइ एण्हिं हरांति जुवजणमणाइ । गंगाअडपरं तवणाइ पच्छ पच्छ । इह अ सुहविणोदए किअमअणोदए सुरणईतीरवणोअए णं सहअरिसहिओ सुरअण सुहिओ वुड्डइ रहरससाअरे । राजा--(निर्वर्ण्य ) वयस्य सम्यगुपलक्षितम् । अत्र हि । चूषंश्चूतांकुराग्रं क्षणमथ कलिकाः पाटयन् पाटलीनामास्कंदन कुंदकोश झटिति विघटयन कुमलं कारहाटम् । भिंदन मंदारबद्धं मुकुलमविकचं चंपकानां च चुम्बन पुष्पादभ्येति पुष्पं मधुकरनिकरः प्राप्तहर्षप्रकर्षः ॥ १५ ॥ अपि च । अयं च खलु मतंगजमदामोदसंवादिसुरभिसुमनाच्छादयति सप्तच्छदो गंधांतरग्रहणशक्तिं घ्राणपुष्टस्य । अयं च धौतकलधौतगोलककमनीयानि सकौतुककामिनीजनाग्रहस्तग्रहणलीलार्हाणि बिभर्ति महाएणि फलानि जंबीरः । इमानि च स्निग्धहरितानि लुंठयति विबोष्ठानां प्रकोष्ठकांतिं पुण्ड्रेक्षुकांडानि । अयं च तरुणकामिनीकर्णपूरकरणयोग्यानि वहति प्रवालपाटलानि प्रवालान्यशोकः । अमूनि च द्रविडविलासिनीताटंकरचनोचितानि शुकच्छदछवि हरंति हरंति विलोचनानि नालिकेरपत्राणि । इयं च तुलितविदर्भकामिनीपीनोरुस्तंभविभ्रमा स्तम्भयति वीक्षणानि राजरंभा । (अन्यतो विलोक्य निर्वर्ण्य च ) हृद्यामद्यानुधावत्यधरदलरुचारंजितां दंतपंक्तिं गौडीनां प्रौढपाकक्रमपरिदलितैः स्वैः फलैरुच्छिलिंगः । निष्टप्तस्वर्णवर्णच्छविभिरवहितघ्राणलेढव्यगंधैः काश्मीरीगण्डशोभा कवलयति फलैर्निर्मलैर्मातलिङ्ग॥१६॥ १ दाडिमः। Page #43 -------------------------------------------------------------------------- ________________ विक्रांत कौरवे ( अन्यतो दृष्ट्वा ) इतश्च । रमयति हरिद्वतोद्विद्धैर्विलूयविकाशितैरलकरचना चोलस्त्रीणां मुखेष्वेव तानितैः । अनतिजरठैः पुष्टैरेषां जपाकुसुमारुणैर्विधुरमुकुलान् बंधूकांस्तान्मनो बहु मन्यते ॥ १७ ॥ इतश्च । ३० असौ शिरीषः कुसुमानि धत्ते सुलोचनाबाहुलतामृदूनि । प्रियाकपोलच्छुरणार्चनीयैविभाति लोध्रः सुमनःपरागैः ॥ १८ ॥ ( स्पर्श रूपयित्वा ) अहो मनोज्ञकं मंदाकिनीतीरोद्यानमारुतस्य । अत्र हि । वर्षतः प्रविकासिकेसररजचूर्णान्मधुश्चोतिनः कर्षतः कलकंठकंठकुहराच्चूतासवार्द्रा गिरः । सद्यः खंडितमानिनीहृदयगान मंदानिलांश्चांदनानालेपान् परिशेषयंति न परं धैर्यावलेपानपि ॥ १९ ॥ विदूषकः - वेअस्स इदो दक्खिअदु मंदाणिं । राजा - ( विलोक्य निर्वर्ण्य च ) इयं खलु मदोद्भरोद्दाममल्लिकाक्षपक्षविक्षेपक्षोभणप्रक्षरदरविंदमरंदावस्कंद सांद्रसलिला सलीलविलोठमानपाठीनपरिपाटीजटिलकल्लोला कलक्कणितानुमीयमानेंदिरवृंदांदोलितवि निदीवरवना विहारकेलीकलभायमानकोकनिनदमुखरितविक चकोक नदकुटीर कोटरा सकौतुकवरटारटनानुसरणसभ्रांत कलहंसकुलसंकुलोत्फुल्ल १ वयस्य इतः पश्यतु मंदाकिनीम् । Page #44 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । ३१ पुंडरीकखंडा चटुलखञ्जरीटकुटिलपदपंक्तिचित्रितपर्यंतसैकततला प्रसादविघटितसौगंधिकगंधसंबंधबंधुरितगंधवाहा नंद तुलितनिर्मलस्फाटिकतटा यति नयनानि मंदाकिनी । तथाहि । वासयति मुहरत्र मूर्च्छता सौरभेण युगपत्समीरणम् । स्पंदमानमकरंदमेदुरान्युत्फलानि च महोत्पलानि च ॥ २० ॥ अपि च क्वचिज्जंबूकुंजप्रतिहतिपरावर्तितजवः क्वचिद् वृत्तावर्तभ्रमवशपरिभ्रांतसलिलः । क्वचिद्रोधःपातद्भुतविघटमानोर्मिनिवहः प्रवाहो जान्हव्याः प्रथयति गभीरं कलकलम् ॥ २१ ॥ इतश्च । विसृत्य लहरीजलं नभसि दूरमत्रोत्थिता विवर्तितनिशातशुभ्रकरवालधारोज्ज्वलाः । झषाश्चदुलचंक्रमात्सपदि मीनकेतोरपि स्फुरंत इव केतवः किमपि कौतुकं तन्वते ॥ २२ ॥ विदूषकः - ( निर्वर्ण्य ) भो वअस्स दक्ख दाव इदो पाडिवचंदकोडि १ हंसविशेषः । २ शीघ्र । ३ भो वयस्य पश्य तावदितः प्रतिपच्चंद्रकोटिकुटिलविकटदंष्ट्राकरालमुखकुहराः समुत्तंभितकर्कशहस्ताः दृश्यंते तरंत इव द्विघंटाः ( गजाः ) । भयपलायितसकलजलचरनिकराः मकराः 1 इतश्च भ्रमणरभसविव्यज्जलविहंगपरिह्रियमाणपरिसराः दीर्घतरपुरुषाक्रंदगर्भिताः दधति सौद्दित्यं । निरंतरभ्रमत्सलिलपूराः पुष्पसत्त्वाः । इतश्च । मज्जनोत्सुकजनावतरणदूरोत्सारितशैवालाः निर्मूलितजंबालाः प्रसादप्रकटप्रीतच्छंदिततीरतरुनिकराः सञ्जिता इव दर्पणा, Page #45 -------------------------------------------------------------------------- ________________ ३२ विक्रांतकौरव कुडिलविअडदाडा करालमुहुकुहरा समुत्तंभिदकक्कसहत्था दीसंति तरंता विअ दोघंटा । भअपलाइज्जत सअलजलअरणिअरा मअरा । इदो अ भ्रमलरभसभाअंतजलविहंगपरिहरिज्जंतपरिसरा दीहरपुरसकंद गब्भिणा दंति ओहित्थं णिरंतरभमंतसलिलऊरा तालूरा । इदो अ मज्जणागाअजणावतरणदूरोसा रिअसेवाला णिम्मूल्लिअजंबाला पसादपाअडपडिच्छंदिअतीरत असज्जिदा विअ दप्पणा, जेणहव्विए हरंति हिअआई । विसत्थविहरंतपाढीणडिंभजूथा तित्था । इदो अ मन्दवायंतमंदाइणीपवणदुव्वंतपरंता सुव्वंतमहुरसारसंणिणादमणहरा अक्खिवति लोअणाइ णिअडावगासगआअवावडासीसतरंगआ तडकडुंगआ । राजा - ( विलोक्य निर्वर्ण्य च ) अहो स्पृहणीयता जान्हव्याः । अत्र हि । तरंगखोलव्यतिकरपरावर्तितदलं दृशा सारंगाक्ष्यास्तुलयति विलोलं कुवलयं । स्तनौ तस्याः कार्तस्वरकलशसौभाग्यजयिनौ स्मरक्रीडादोलौ स्मरयतितरां कोकमिथुनम् ॥ २३ ॥ ( सविशेषोत्कंठम् ) । यच्चक्रीकरणं करेण सदयं यद्वा नखोल्लेखनं गण्डाभ्यामुपगूहनं यदसकृद्वक्रेण यत्पीडनम् । आम्राणं कुचयोर्यदुत्पुलकयोर्यच्चार्पणं नेत्रयोर्यद्वा चूचुकचुंबनं व्रजतु तद्द्रष्टुं च तां नानुमः ॥ २४ ॥ विदूषकः -- अस्स अस्थि तिस्सा दंसणोवाओ । १. जानव्याः रंति हृदयानि । विस्रब्धविहरत्पाठीनडिम्भयूथाः तत्र । इतश्च मंदवहन्मंदाकिनीपवनधूयमानपर्यंताः श्रूयमाणमधुरसारसनिनदमनोहरा आक्षिपंति लोचनानि निकटाव काशगतातव्यापृतशिशिरतरंगाः तटकुंजाः । २ वयस्य अस्ति तस्याः दर्शनोपायः । Page #46 -------------------------------------------------------------------------- ________________ -द्वितीयोऽङ्कः । ३३ राजा - वयस्य कथमिव । विदूषकः -- भणिदं खु अम्हाणं सोविदल्लेण लल्लेण, आगमिस्सिदि सोहग्गमज्जत्थं एत्थ कासीराअउत्तित्ति । राजा - तदपि द्रक्ष्यामः । ( निर्वर्णयंतौ परिक्रामतः ) (ततः प्रविशति सुलोचना नवमालिका चेटी च ) नवमालिका – पिअसहि जाव मज्जणवेला ताव एत्थ गंगातीरुज्जाणे दिओ विणोदस्सम्ह | सुलोचना -जह पिअसहि भणादि । नवमालिका - इदो ईदो पिअसहि । ( सर्वाः परिक्रामति ) चेटी - (निर्वर्ण्य)| अहो इमस्स णिरंतरुप्फुल्लसराअकुसुमदाए रत्तकंवलोगुंठिदेहिं पिव पालिभद्ददुमेहिं निरंतरुप्फुलदाए कर्णत कण अपच्छंद संछण्णेहिं पिव कंचणकोविआरपाअवेहिं णिब्भरविअसिअकसणगुच्छदाए इंदणीलमणिकिरसंवलिदेहिं पिव तापिच्छेहि णिविडविहडिअसामलमउलदाए णिम्मलमरअमोहबलइदेहिं पिव सरिसएहिं घणपिणधवलमंजरीसहस्सदाए मोत्ति - अणिअरगुच्छेहिं पिव विअसिअसिंधुवारेहिं दंसिदेण पंचवण्णेअकुसुमविच्चडुएण सज्जीवकरंत विअ पंचवाणाइ सुहविहारजोगसमग्गपुलिणसोहिअस्स पत्तलवहलके अइवइवेत्थिअस्स रमणिज्जदा गंगातीरुज्जाणस्स । १ भणितं खल्वस्माकं सौविदल्लेन लल्लेन । आगमिष्यति सौभाग्यमज्जनार्थं अत्र काशीराजपुत्रीति । २ प्रियसखि यावन्मज्जनवेला तावदत्र गंगातीरोद्याने दृष्टिर्विनोदयिष्यामः 1 ३ यथा प्रियसखी भणति । ४ इतः इतः प्रियसखि ५ अहो अस्य निरंतरोत्फुल्लसरागकुसुमतया रत्नकंबलावगुंठितैरिव । पारिभद्रदुमैः निरंतरोत्फुल्लपीत फुल्लतया कनत्कनकप्रच्छदसंछन्नैरिव कांचनकोविदारपादपैः निर्भर विकसितकृष्णगुच्छतया इंद्रनीलमणिकिरणसंवलितैरिव तापिच्छैर्निविडविघटितश्यामलमुकुलतया निर्मल मरकतमयूखवलयितैरिव शिरीषैः घनपिनद्धधवलमंजरीसहस्रतया मौक्तिकनिकरगुच्छैरिव विकसितसिंधुवारैः दर्शितेन पंचवर्णकुसुमविच्छदेन सज्जीकुर्वत इव पंचवाणान् सुखविहारयोग्य समग्रपु लिनशोभितस्य पत्रिलवहलकेतकी वृतिवेष्टितस्य रमणीयता गंगातीरोद्यानस्य । ३ Page #47 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे नवमालिका – (पुरो निर्दिश्य ) रमेणीअं खु एअं सुहासिसिरच्छाअं पिअंगुपाअवमूलं । जाव एत्थ मुहुत्त उवविस । सुलोचना - जं पिअसहिए रोएदि । ( सर्वा उपविशति ) ३४ नवमालिका – हला सैलिए जाणाहि दाव महत्तरिआहिं किरंतस्स केरसी पउत्ति मज्जणसंविहाणस्सत्ति । चेटी - जं पिअसंही भणादि । ( उत्थाय निष्क्रांतौ ) सुलोचना - ( आत्मगतं ) कहं रमैणिज्जोवि एस उद्देसो त सणादो पहुदि उम्मणाअंतस्स ण देइ णिउउई हिअअस्स | जदो दीसंतावि एत्थ उप्फुल्लमंजरीपुंजगुंजितमहुअरा इमे सहआरा सुमरावेंति तं चेअ तेण जण अलंकियपासं सहआरपाअवं । वाअंतावि एदे सर असहआरपराअसुराअसुरहिणो गंधवाहिणो सुमरावेंति तं चेअ तज्जणसरीरपस्समहग्घविदं समीरणं इमस्सिं च तं चेअ जणं धारअंति ण किंपि अण्णं लग्गदि चरिदावआसे हिअए । इमाई अ तदंसणसुहदुल्लुलिआइ लोअणाइ उम्मिसंतावि ण पेक्खति अत्यंतरं । इअं अ तदो पहुदि किंपि किंपि सुत्तअंतीण पारेदि दो मुहुत्तं मुहु १ रमणीयं खल्वेतत् सुखशिशिरच्छायं प्रियंगुपादपमूलं यावदत्र मुहूर्तमुपविशामः । २ यत् प्रियसख्याः रोचते । ३. हला सरलिके जानीहि तावन्महत्तरिकाभिः क्रि... यमाणस्य कीदृशीः प्रवृत्तिः मज्जनसंविधानस्येति । ४. यत् प्रियसखी भणति । ५. कथं रमणीयोपि एष उद्देश तद्दर्शनात्प्रभृति उन्मनायमानस्य न दधाति निवृतिं हृदयस्य यतो दृश्यमाणा अप्यत्र उत्फुलमंजरीपुंजगुंजन्मधुकरा इमे सहकारा स्मारयंति तमेव तेन जनेनालंकृतपार्श्व सहकारपादपं । वांतोपि एते सरल सहकारपरागसुरागसुरभिणो गंधवाहाः स्मारयति तमेव तज्जनशरीरस्पर्शमहार्धितं समीरणं । अस्मिंश्च तमेव जनं धारयति न किमप्यन्यद् लगति चरितावकाशे हृदये इमे च तद्द - र्शनसुखदुर्ललिते लोचने उन्मिषती अपि न पश्यतोऽर्थांतरं । इयं च ततः प्रभृति किमपि किमपि सूत्रयंती न पारयति इतो मुहूर्त मुहुः । Page #48 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। . वार्हदिदुव्वंदीकदव्व तेण जणेण चिंतावराई । अह अ अत्थदो एसा णिसग्गबला चिंता । अहं चेअ खु तेण तुलग्गामेत्तदसणसुहदाइणा महावाहुणा आभिजाइविरुद्धं कण्णआणं आभद्दवं अगणअंतेण दक्खंतस्सवि लोअणस्स कदम्हि करग्गहेण एक्कपदेकमरिआ एसो अ तस्स आदिक्कमो जं अहं चेअ स वरिदुकामा पडमं चेअ तेण णअणाणंददाणपुण्णचंदेण १. विहतिदुवेदीकृतेव तेन जनेन चिंतावराकी । अथ च अर्थत एषा निसर्गबला चिंता अहमेव खलु तेन यदृच्छामात्रदर्शनसुखदायिना महाबाहुनाभिजातविरुद्धं कन्यानामभिद्रवमगणयता पश्यतोपि लोचनस्य कृतास्मि करग्रहेणैकपदे कमरिका । एष च तस्यातिक्रमो यदहमेव स्वयं वरितुकामा प्रथममेव तेन नयनानंददानपूर्णचंद्रेणोत्फुल्लपुंडरीकसदृक्षः स्निग्धपक्ष्मलधवलदीधैः स्वयं वृतास्मि चक्षुभिः । एष च मे विवेकमूढो मनोरथो यत् स एव भवतु सर्वोपि दिवसः, सैव भवतु सकलापि वेला, स एव भवतु सर्वोप्युद्देशः, सा एव भवतुं सकलापि दिशा यस्मिन् क्षणमात्रे दर्शनसुखमासीत् । किं पुनः यदि अन्येपि अलीकलज्जाव्यसनेऽवधीरितसाध्वसेऽवगाहिते यथेच्छप्रेक्षणसाहसे द्वे लोचने लभेयेति। को वा तस्य प्रत्युपकारो दर्पणस्य येन प्रतिच्छता तस्य प्रतिच्छंदं दत्तं मे यथेच्छदर्शनसुखं लोचनयोः । अथवा लुब्धः खलु स दर्पणो येन क्षणांतर एव गोपितं तस्य प्रतिच्छंदकम् । निदाक्षिण्यश्च स जनो येन मुहूर्तमात्रात्तिरोभवता प्रतिच्छंदकदर्शनमपि आत्मनो न सोढं । अथवा अहमेवात्रापराध्यामि याहं संपूर्णदर्शनमात्रेणापि तं जनमसंभाव्य पश्यत एव तस्य यथापुरं हि प्रस्थिता । कथं वा अत्र आत्मनोपि न प्रभवति लज्जेमि । याहं तद्दर्शनरमणीया भूमिमावर्त्य पुनर्देष्टुमपि न लभे । श्रूयते च मया सयौवनस्य जनस्याभिमतजनदर्शने उत्खंडितधैर्यार्गल उद्वासितविनयव्यसनेऽपनीतलजातिरस्करणीको दुःसहारभकर्कशो मदना नाम कोपि अंतःकरणमधिक्षिपतीति। तत् किलैतत् मयेदानीमनुभाव्यते येन मे अपर इव ततः प्रभृतिचिंता, अन्य एव संतापगर्भो मनसो विकारः । इतश्च मे अद्य प्रवर्तते वैलक्ष्यं यत्तदर्शनसमये संमुखासीनया एतया नवमालिकया तत्क्षणधैर्यस्खलनविलक्षो मे भावो लक्षितो न वेति । Page #49 -------------------------------------------------------------------------- ________________ ३६ विक्रांतकौरवे उप्फुल्लपुण्डरीअसरिच्छेहि सिणित्थपमहलधवलदीहरेहि सअं वुददह्नि चक्रबूहिं एसो अ मे विवेअमूढो मणोरहो जं सा एव्व होदु सव्वोवि दिअहो । सा एव्व होदु सअलावि वेला, सो एव्व होदु सव्वोवि उद्देसो, सा एव्व होदु सअलावि दिसा । जहिं खणमेत्त दंसणसुहं आसि । किं उण जइ अण्णा व अलीअलज्जावसणाइ ओहिरदसज्झस हेवगाइ जहिच्छपेच्छण साहसिआइ दोणि लोअणाइ लहेअति । कोवा तस्स पच्चुवआरो दप्पणस्स, जेण पडिच्छंतेण तस्य पडिच्छंदअं दिण्णं मे जाहच्छदंसणसुह लोणाणं । अहलो खु सो इप्पणो जेण खणंतरि चेअ गोपिअं तस्स पच्छिंदअं । णिक्खिणो अ सो जणो जेण मुहुत्तमेत्तादो तिरोभवंतेण पाडच्छंद अदंसणंपि अप्पणो ण सहिदं । अहव अहं चेअ एत्थ अपरज्झामिजा अहं संपुण्ण ( दंसण ) मेत्तएणापि तं जणं असंभाविअ दक्खंतस्स चेअ तस्स जहपुरं हि पत्थिदा । कहं वा एत्थ अत्तणोपि ण भवति लज्जेमि जा अहं तदंसणरमणिज्जं भूमिं आवत्तिअ पुणो दंसिदुंपि लहेम । सुव्वइ अ मए सजोव्वणस्स जणस्स अभिमदजणदंसणे उक्खंडि - दधीरग्गलो उब्वासिदविणअवसणो अवणीदलज्जतिरक्खरणीओ दूसहारंभककसो मअणो णाम कोवि अंतक्करणं अक्खिवदिति । तं किर एदं मए दाणिं अह विज्जदि जेण मे अवर एव्व अदो पहुदि चिंता । अण्णो एव्व संतावगब्भो मणस्स विआरो इदो अ मे अज्ज पवत्तदि वेलक्ख जं तदंसणसमए सम्मुहासीणाए इमाए णोमालिआए तक्खणधीर क्खलणविलक्खो मे भावो लक्खिदो ण वेत्ति । नवमालिका – ( विलोक्य ) पिअसहि किंवि चिंतअंत विअ लक्खिज्जसि । सुलोचना - ( सवैलक्ष्यं ) जई आत्थि कहं तेण इस्स । १ प्रियसखि किमपि चिंतयतीव लक्ष्यसे । २ यद्यस्ति कथं तेन कथयिष्ये । Page #50 -------------------------------------------------------------------------- ________________ maranorma द्वितीयोऽङ्कः। mmmmmmmm नवमालिका-णे खुजं चिंतिज्जइ तं कहेदव्वंति णिओओ।जदा खु अवरं पडिवद्धअं णत्थि तदा णं चिंतिज्जतं कहिज्जइ कण्णआजणस्स उण सुसिणिद्धेवि जणे पडिबद्धदि भावावेदणं णिसग्गसिद्धा लज्जा । ता समद्धिदं मए लज्ज एव्व तुह अंतकरणं णिगुहावेदित्ति। जदो लक्खिज्जदि एव्व सडिलणिस्सहेहिं अंगेहिं अदिण्णसेरसंभासणेण मुहेण थिमिदजिह्मेहि अ लोअणेहिं अणुवद्धिजंति कावि दुरंता तुह चिंता । हिओ णअरदेवदाजत्तापाडीणअत्ति आदिवेला तिस्सा आरंभोत्ति तक्केमि जेण तदो पहुदि अण्णारिसं ते भासिअं, अण्णारिसिअ दिहि, अण्णारिसं अ सरीरअं, अण्णारिसे एव्व तुमंवि लक्खिज्जसि । तदो अ एक्कावि इमा अदीदा जामिणी अत्थं गमअंती विवेअं। अंधराअंती अंतक्करणं, अभिदवंती णिद्दासुहं, णिम्मूलअंती धीरं, उम्मीलअंती संतापं, सहीजणस्सवि लज्जाभारण अणुण्णामिदमुहिए अजाणंतीए कहणिज्ज, अमुणंतीए करणिज्जं कहं कहंपि तुह गदा। सुलोचना-( सवैलक्ष्यं सेयं च ) किंफ्दं किंवि हिअए काऊण विअकसेहि। १ न खलु यचित्यते तत्कथयितव्यमिति नियोगो यदा खल्वपरं प्रतिबंधक नास्ति तदा ननु चिंतितं कथ्यते, कन्यकाजनस्य पुनः सुस्निग्धेपि जने प्रतिबध्नाति भावावेदनं निसर्गसिद्धा लज्जा । तस्मात् समर्थितं मया लज्जैव तवांतःकरणं निगृहयति इति । यतो लक्ष्यत एव शिथिलनिस्सहरंगैरदत्तस्वैरभाषणेन मुखेन स्तिमितजिह्वाभ्यां च लोचनाभ्यामनुबध्यमाना कापि दुरंता चिंता ह्यश्च नगरदेवतायात्राप्रभृति अतिवेलस्तस्या आरंभ इति तर्कयामि । येन ततःप्रभूत्यन्यादृशं ते भाषितं अन्यादृशी च दृष्टिः अन्यादृशं च शरीरं, अन्या दृश्येव स्वमपि लक्ष्यसे । ततश्चैकापि इयमतीता कामिनी अस्तं गमयंती विवेकं अंधःकारयंती अंतःकरणमभिद्रावयंती निद्रासुखं निर्मूलयंती धैर्य उन्मीलयंती संतापं सखीजनस्यापि लज्जाभारेणानुन्नामितमुख्या जानत्या कथनीयमजानंत्या करणीयं कथं कथमपि त्वया गमिता । २ किमेतत् किमपि हृदये कृत्वा विकत्यसे । Page #51 -------------------------------------------------------------------------- ________________ विकांत कौरवे नवमालिका - पिअसहि अलं ते भएण जाव सणिहेण वलीअं खु मे तुस्सइ अप्पा ठाणे एव्व अलग्गा दिद्वित्ति | महत्तेण भाअएण कण्णआणं अहिरूवतमो पई लब्भदि । तच्च पुण्णंवि केवलं माणुसोत्ति मुणेहि । जंदो तारिसं उज्जलमहुरं रूवं, तारिंसं उदारगहीरं सत्तं, तारिसी अधीरललिदा पइडि ण उत्तमक्खत्तियअदो अण्णस्स संभाविअदि । अह अ । पिअसहि तुह एव्व सअंवरजत्ताणिमित्तं आअदेण होदव्वं तेण । ता णिच्चिता दाणिं होहि । कल्लं ख तं चेअ सअं वरिस्ससि । ( सुलोचना सलज्जं वाष्पं विदार्य तूष्णीमास्ते ) ३८ नवमालिका – अदिउज्जए महवि णाम एव्वं लज्जंती कहं ते हिअआदो ण लज्जेसि । सुलोचना – पिअसेहि संतव्वो एस लज्जापरवदीए मह भावगूहणादिक्कमो । नवमालिका - सवसिद्धेपि अ कण्णआणं इमस्सि अत्थे कहं णाम • पिअसही अवरज्झदि । विदूषकः - ( कर्ण दत्वा ) वैअस्स एत्थ एव्व पिअंगुपाअवमूले इत्थि - आजणालाओ सुणिज्जइ । १. प्रियसखि अलं ते भयेन यावत् स्नेहेन बलवत्खलु मे तुष्यत्यात्मा स्थान एवावलग्ना दृष्टिरिति महता भागधेयेन कन्यकानामभिरूपतमः पतिर्लभ्यते तच्च पुण्यमपि केवलं मानुषस्येति जानीहि यतस्तादृशमुज्ज्वलं मधुरं रूपं तादृशमुदारगंभीरं सत्त्वं तादृशी च धीरललिता प्रकृतिः नोत्तमक्षेत्रियादन्यस्य संभाव्यते । अथ च । प्रियसखि तवैव स्वयंवरयात्रानिमित्तमागतेन भवितव्यं तेन । तस्मानि चिंतेदानीं भव । काल्यं खलु तमेव स्वयं वरिष्यसि । २. अति ऋज्वममापि नाम एवं लजंती कथं ते हृदयान्न लज्जसि । ३. प्रियसखि क्षंतव्य एष लज्जापरवत्या मम भावगूहनातिक्रमः । ४. स्वभावसिद्धेपि कन्यकानामस्मिन्नर्थे कथं नाम प्रिय.सखी अपराध्यति । ५. वयस्यात्रैव प्रियंगुपादपमूले स्त्रीजनालापः श्रूयते । Page #52 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। राजा-(आत्मगतं ) अपि नाम सा भवेत् । (प्रकाशं ) यावदमुना प्रलंबविटपेनाश्मंतकपादपेनातरितः पश्यामि ( तथा दृष्ट्वा सहर्ष ) वयस्य दिष्टया वर्धसे । सैव खल्वियं ते प्रियसखी। विदूषकः-( दृष्ट्वा ) केहं एसा तत्तहोदी कासीराअउत्ती। राजा-(निर्वर्ण्य सोत्कंठं ) इयं सा लावण्यामृतसरिति यस्यां मम दृशौ निरुच्छासं मग्ने पदमपि लभे तेन तरितुं । स्थिरीभूतं यस्यां प्रकृतितरलं संप्रति मनो। यया कामः कामं हृदयमिदमंतर्व्यथयति ॥ २५ ॥ नवमालिका-महाभागो खु सो जणो जो एव्वं णाम पिअसहीए हिअए सदापि अ वट्टइ। सुलोचना-( सलज्जं ) सहिं कीस में वाहेहि । साविदा खु से मए जइ मे पुणोवि किंवि असंबंधं जंपिहिस्सि । विदूषकः-वस्स तुह एव्व उत्तंतो वट्टदित्ति तक्कोमि । राजा-अहो स्पृहणीयः कन्यकानां व्रीडाव्यतिकरः।। तथाहिनिरुंधाना कूटं किमपि हृदये वस्तु लिखितं तदस्वस्थैर्भावैः पुनरनुमिमानां प्रियसखीं। सलज्जं जल्पंती परिमृदितशुष्काक्षरमसौ विलक्षस्मेरास्या कथमपि तदस्याः स्फुटयति ॥ २६ ॥ (पुनर्निर्वर्ण्य) अहो सर्वावस्थासु कामनीयकमस्याः । . १. कथमेषा तत्रभवती काशीराजपुत्री । २. महाभागः खलु स जनः य एवं नाम प्रियसख्या हृदये सदापि च वर्तते। ३. सखि कस्मान्मां बाधसे । शापिता खल्वसि मया यदि मां पुनरपि किमप्यसंबंधं जल्पसि ४. वयस्य तवैव वृत्तातो वर्तते इति तर्कयामि। Page #53 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे इदं हिजरठरविमयूखतापताम्यत् किसलयदुर्बलकोमलांगयष्टयां । चकितहरिणशावलोचनाया मभिरमते हृदयं सुलोचनायाम् ॥ २७ ॥ नवमालिका-को वा एत्थ असंबंधं मंतेदि सुसंबंध चेअ खु एदं भविस्सदि। सुलोचना-(स्वगतं ) अमोहेवादिणी होहि । . राजा-इयं खल्वखंडितपराक्रमस्य मकरकेतोरसंहार्यशौर्यहेतुः सुमहानवष्टंभः (आकाशे लक्ष्यं बद्धा) अयि भोः कुसुमधन्वन् वृथा कत्थसे इदमुपालभ्यसे। यत्रैते स्फुरतः प्रमथ्य विनयं दीर्घे भ्रवौ सुभ्रुवो__ यत्रैते हरतः प्रसह्य तरले धैर्यग्रहं लोचने । यत्रैषास्ति विमोहनाय जगतस्तत्र स्मर श्रूयतां कोदंडे च शरेषु च त्वयि च भोः स्यात्पौनरुक्त्यं परम् ॥२८॥ सुलोचना-(स्वगतं) अवि णाम सो जणोअज्जवि दसणसुहं देज्ज । नवमालिका-(विभाव्य स्वगतं) कहं एसा चिंताभरण वलिअं खिज्जइ होदु जाव इमाए हिअअं अक्खिवामि । (प्रकाशं ) पिसहि एसा खु सह १. का वात्रासंबंधं मंत्रयते सुसंबंधमेव खलु एतद् भविष्यति । २. अमोघवादिनी भव । ३. अपि नाम स जनः अद्यापि दर्शनसुखं दास्यति । ४. कथमेषा चिंताभरेण बलवत् खिद्यते भवतु तावदस्या हृदयमाक्षिपामि । ५. प्रियसाखि एषा खलु सह समुच्चरत्कुररकारंडवकेलिकलहकलकलगंभीरेण शब्दापयतीव मारुतेन भागीरथी। तस्मादुत्तिष्ठ तावत् यावत् सरलिका आगमिष्यति तावन्मंदाकिनी पश्यावः । Page #54 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। ४१ समुच्चरंतकुररकारंडवकेलिकलअलगंभिणेण सद्दावेदि विअ मारुदेण भाईरहि । ता उठेहि दाव जाव सरलिआ आअमिस्सदि। ताव मंदाअणी दक्खिर । . सुलोचना-जं पिअसहीए रोअदि । ( उत्तिष्ठतः) नवमालिका-इदो इदो पिअसहि ( परिक्रामतः) राजा--(निर्वर्ण्य) कथं समग्रसाधनः संप्रति संग्रामयते कुसुमधन्वा। मम हि-- अस्याः कामः कठोरः स्तनतटयुगले नाभिरंध्रे गभीरो विस्तीर्णः श्रोणिबिंबे गतिषु कृतपदो हस्तयोर्दत्तहस्तः । जातोत्कंठोथ कंठे मुखमनु सुमुखं काममोष्ठे स रागो । विभ्रांतश्चायमक्ष्णोर्जनयति हृदयस्याव्यवस्थामवस्थाम् २९ विदूषकः-वअस्स इदो एव्व कहं आअच्छंति । राजा-सखे किमत्र कुर्मः । अथवा स्वयमासीदत्योरेनयोरेदुष्ट एव यादृच्छिक उपनिपातः । सुलोचना—(अग्रतो राजानं दृष्ट्वा ससाध्वसं समौत्सुक्यं चात्मगतं) अहो सो एव्व एत्थ समाणीदो देव्वेण । . नवमालिका-( राजानं दृष्ट्वा अपवार्य ) पिसहि दिडिआ षड्ढोस सो एव्व जणो एत्थ समाणीदो देव्वेण। सुलोचना-( सलज्जमपवार्य ) हला किं एत्थ करिअदु । नवमालिका—(अपवार्य सस्मितं ) इमं एव्व णं पुच्छसु । १. यत् प्रियसख्याः रोचते। २. इतः इतः प्रियसखि । ३. बयस्य इत एव कथमामच्छतः । . अहो स एवात्र समानीतो दैवेन । ५. प्रियसखि दिया वर्षसे, स एव अनोत्र समानीतो दवैन । ६. हला किमत्र क्रियतां । ५. इममेव ननु पृच्छ। Page #55 -------------------------------------------------------------------------- ________________ ४२ विक्रांतकौरवे . सुलोचना-(सेय॑मपवार्य ) हलो पुणोवि किं असंबद्धं भणासि । (अन्यतो गंतुमिच्छति )। नवमालिका–पिसहि मा मा कुप्पेहि ( हस्ते गृह्णाति ) राजा-(स्वगतं ) अयमत्रावसरः । ( उपसृत्य ससांत्वनम् ) अयि सरलेयेन व्याकेपि कृतेन कोपो दाक्षिण्यरुद्धो लभतेऽवकाशं । तस्मिन जनेऽस्मिन्नकृतापराधे कुतो वृथा त्वं कुपिताप्रयासि॥३०॥ विदूषकः-कैह कोवणा अत्तहोदी। नवमालिका-दक्खिणे कहं अपुव्वदंसणसंभावणीअस्स इमस्स जणस्स वअणं लंघेसि । राजा-सखि कुतः खल्वसौ कुपिता । नवमालिका—इमं एवं पुच्छइ । (सुलोचना सेय॑ नवमालिकां पश्यति ) राजा-सुंदरि प्रसीद प्रसीद। (नेपथ्ये ) इदो पिअसहि नवमालिका-(कर्ण दत्वा) पिअँसहि सरलिआ णं सदावेइ ता इदो सिग्धं एहि। सुलोचना-(स्वगतं ) कहं एत्तिअंवि विग्घिदं । का गई। १. हला पनरपि किमसंबद्धं भणसि । २. प्रियसखि मा मा कुप्य । ३. कथं कोपनात्रभवती । ४. अदक्षिणे कथमपूर्वदर्शनसंभावनीयस्यास्य वचनं लंघयसि । ५. इमामेव पृच्छ । ६. इतः प्रियसखी । ७. प्रियसखि.सरलिका ननु शब्दापयति तस्मादितः शीघ्रमेहि ८. कथमेतावदपि विनितं । का गतिः। . Page #56 -------------------------------------------------------------------------- ________________ हितीयोऽङ्कः। wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmanmmmmmmmmmmmmmmmmmmmmmmm (परिक्रम्य निष्कांते) राजा-अहो क्षणदर्शनमपि न सोढव्यमीर्ष्यालुना देवेन । विदूषकः-वअस्स णिच्चिंतो दाणिं होहि । असाहारणो खु तत्तहोदीए तुवम्मि बहुमायो। राजा-अतर्कितोपनतेन च दर्शनेन प्रतिक्षणविधीयमानविभ्रममानेडितं तस्याव्रीडितम् । तथाहि. स्तनतटसमुत्क्षिप्ता मुक्तावली परिवर्तिता। सुनिहितमापत्रष्टुं कर्णोत्पलं प्रहितः करः। विनमितमुखं सख्या सव्याजमंतरितं मुहु मयि च निपतदृष्टौ न्यस्ते दृशौ स्तनचूचुके ॥ ३१ ॥ (विचिंत्य सौत्सुक्यं) अहो अभिरूपं तस्याः प्रियसखी प्रति प्रणयरसाई कुपितं । तथाहि नैवाधरेण स्फुरितं न रक्त विलोचनेन स्खलितं च गत्या । तथापि कोपः परिभावितोऽस्य भिन्नक्रमेणैव निरीक्षितेन ॥३२॥ (अग्रतो विलोक्य सोत्कंठं ) क्षणमिह मदिराक्ष्यामग्रतो मे स्थितायां स्तनतटपरिणाहात्प्रच्युतस्याकुतोपि । पथि च विटपिलग्नस्योत्तरीयांचलस्य क्षणकृतगतिविघ्नस्यैष भूयः स्मरामि ॥ ३३॥ (सांतस्तापं निश्वस्य ) अहो दुर्विषहता प्रियाविरहव्यथायाः। येनानु-- १ वयस्य निश्चिंत इदानीं भव । असाधारणः खलु तत्र भवत्यास्त्वयि बहुमानः। Page #57 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे 'पदमेव समुत्पादितसर्वांगीणपरितापा शिरोवेदनामिवापादयति । ( सविशेषोत्कंठं।) भवसि भवसि मूर्धन् सत्यमेवोत्तमाङ्गं यदि सकृदपि तस्यास्सेर्प्यमुत्क्षिप्तपाणेः। रतिकलहविमर्देष्वर्चति त्वां प्रियाया स्स परमपरिहार्यः पारिहार्यप्रहारः ॥ ३४ ॥ विदूषकः-भो वअस्स समासण्णो मज्झाण्हो जाव एहि खंदावारं एव्व गच्छेमो। राजा--( नभो विलोक्य । ) कथं गतमहर्दलम् । -तथाहि । अहमिह सहसानः संगरन् बहभारं तरुविटपनिषण्णस्सेवते स्वापसौख्यम् । श्रयति तपनतापादुत्रसन्नत्र चासो घननलिनपलाशाभ्यंतरं मंदसानः ॥ ३५ ॥ किंच। प्रासादोदरवासगेहतलिमेष्वद्यातपो द्वे जिनचर्चाचंदनकर्दमार्द्रतनुभिः सार्धं प्रियाभिः प्रियाः। क्षौमांतव्यजनैः करव्यतिकराः संविज्यमानैमिथः कुर्वतः सुरतश्रमव्यपनयं तंद्रालवः शेरते ॥ ३६ ॥ विदूषकः-इदो इदो पिअवअस्सो। ( इति परिक्रम्य निष्कांतौ) इति श्रीकवि हस्तिमल्लेन विरचिते कौरवपौरवीयनाटके गंगामज्जन नाम द्वितीयोङ्कः समाप्तः ॥ २॥ १ भो पयस्य समासन्नो मध्यान्हः यावदिदानी स्कंदावारमेव गच्छावः । २ इत इतः प्रियवयस्यः। Page #58 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। तृतीयोङ्कः॥३॥ +ove (ततः प्रविशति विटः) विटः-अहो अनन्यसाधारणी वाराणस्याः समृद्धिः । अत्र हिगुण एवाहार्य भवति पुरुषाणां बहुमतं स्त्रियः स्वैरं हार्यः प्रणयचतुरैश्चादुवचनैः । धनं पात्रे दत्तं न खलु वसुगुप्तिर्धनवशां कवीनां काप्यन्या भणितिरभिजाता विजयते ॥१॥ .. अतश्च-- वणिजो जित्वरीमाहुः सत्यं वाराणसीमिमाम् । यदेनया व्यजीयंत विश्वान्यनगरश्रियः॥२॥ विशेषतः पुनरद्य सुलोचनास्वयंवरयात्रायामन्यैव कापि शोभा काशीराजधान्याः । तथाहि अभ्युक्ष्यते सरसकुसुमाभ्यर्चितैर्गधतोयैवीथीमार्गाः पुरपरिजने नात्र संमृष्टशुद्धाः। पुष्पैश्श्योतन्मधुलवजडैनिष्पतचंचरीकै। ाक्रीयंते सुरभिभिरितो वेश्मनां चाजिराणि ॥ ३॥ अपि चउत्तंभितध्वजपटांचलचुंब्यमानज्योतिर्विमानविततीनि विभांत्यमूनि । Page #59 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे सौधान्युदस्तमणितोरणकोणनद्धडोलायमाननववंदनमालिकानि ॥ ४ ॥ यावदिदानीं स्वयंवरयात्राकृते समापततो राजन्यस्यावेक्षणेन चक्षुषी संभावयामः । ( परिक्रम्याग्रतो विलोक्य ) । कथमसौ विलासबाह्यालिर्मकरध्वजस्य संगीतशालारतेर्विक्रिया पण्यस्त्रीरत्नानामुत्पत्तिभवनं शृंगारस्य नाभिगृहं लीलाया निर्माणभूमिर्विभ्रमाणामाकर्षणवाडेशं तरुणजनमनोमीनानामवस्कंदपरबलमिंद्रियग्रामस्य विनयमुखपटाक्षेपणरंगो विनीतजनवारणानां स्वगुणविकत्थनस्थानं षीद्गानां वैदग्ध्यविनिमयहट्टछेकानां करालगोलव्यतिकरपितृवनं वेश्याजनमातृजरत् पितृपिशाचिकानां पुराणा वामलूरुर्गणिकादारिकाभुजंगीनामपूर्वमद्वैतदर्शनं मायाप्रपंचस्य पारिपंथिको निश्रेयसपथपान्थानां मनोरथमात्रास्वाद्यो दुर्गतानां द्रविणवतां सदाप्यदत्तकवाटो वेशवाटः किंच | अविस्स्रंभस्निग्धं वचनमवलेह्यं श्रवणयोः परिष्वंगस्संगव्यसनमपहस्त्येव मधुरः । ः सद्भावात्सपरमुपचारश्च रुचिर स्सहैवोद्भिन्नानि स्तनमुकुल कैर्यत्र सुदृशाम् ॥ ५ ॥ ऋतेऽन्तः ( स्पर्श रूपयित्वा ) अहो वेशवीथीविहाररसिकस्य कोप्यतिशायी सौरभसंभारः समीरणस्य । अत्र हि प्रौढांगनारुचिरकंठधनांगरागः कस्तूरिकापरिमलस्पृहणीयगंधः । सौभाग्यगर्वभरमन्थरयेव गत्या चेतः प्रलोभयति नस्तरणो नभस्वान् ॥ ६ ॥ Page #60 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। ४७ यावदेनं वेशवाटमतिलंध्य राजन्यकावलोकाय राजमार्ग समासाधयामः। अथवा दुष्करमेनमतिलंघयितुम् । कुतः। न दृष्टां विम्बोष्ठीमलमनभिभाष्यास्मि चलितुं बिलम्बः स्यात्तैस्तैस्सुचिरमुपचारैश्च सुदृशाम् । अपेक्ष्यंते चास्मान् प्रचुरमपराद्धाश्च सुहृदः प्रियाः प्रत्याश्वास्याः प्रणयघटनायै विघटिताः ॥७॥ तदंतरायः खल्वयं मार्गः कार्यान्तरस्य । अथवा शांतं श्रेयानेव मे प्रस्तुतकार्यातरप्रसंगस्यात्र व्यासंगः । येन तांबूलवीटीरुपयुक्तशिष्टाः कर्पूरपारीस्सकरंडदत्ताः । माल्यानि धम्मिल्लकृताधिवासान्यमुत्र लप्स्ये मुहुरंगनाभ्यः॥८॥ ___ तदिदानीमेनमवगाहिष्ये । ( परिक्रम्यावलोक्य च) कथमसौ वेशवाटमुखमंडपे दुर्विनीता शौण्डघर्घरकंठघोषाधरितरूप्यघंटाटेण्टा । कथं नु खल्वस्या मूर्तीयाश्शिरोर्तेरात्मानं रक्षेयं । दुर्लभः खल्वेभिर्दुर्दान्तदोवितृभिदृष्टस्य ममात्रापसारः । तत् किमत्र शरणं । भवतूत्तरीयणावकुंठितस्त्वरितमस्माद्देशात्पलायिष्ये।(तथा परिक्रम्यन् ) दिष्टया निश्शल्यः कुशल्यस्मि हन्त भोः। द्रविणस्यार्जनं द्यूते वेशे तस्य विसर्जनं । एषामायव्ययद्वारे द्वे अपि व्यसने इमे ॥९॥ ( कर्ण दत्वा ) कुतः खल्वाह्वानध्वनिः ।( विभाव्य ) कथं चंद्रसेनाभवनात् । इह खल्वश्रांतप्रणयकेलीव्यतिकरमेकं मिथुनं प्रतिवसति । चंद्रसेनावैशिकचकोरश्च । व्यभिचरितं खल्वस्यामाभजातसौहार्दायां परवित्ताच्छेदनेन Page #61 -------------------------------------------------------------------------- ________________ ४८ . विक्रांतकौरवे गाणकाकुलधर्मेण । यदनयोद्वपदयोरिव वर्तते परस्परार्थसंक्रमः । अतश्चैतदेवं । यतः न बहुप्रेयसीन पुंसः कामिन्यो बहु मन्वते । पुंमांसो बहु मन्यते बहुपुंसीर्न योषितः ॥ १० ॥ (पुनः कर्ण दत्वा ) कथमिहैव भवनचंद्रशालायामपावृत्य गवाक्षं पत्या सह वीक्षमाणा चंद्रसेनेव व्याहरति । इयं खलु अश्रांतकांतसुरतक्लमनूतनोत्थस्वेदोदबिंदुविसरार्द्रकपोलपालिः। मा माह्वयत्यलसविह्वलजिह्मदृष्टिनिश्वासगद्गदगलत्प्रसरर्वचाोभः ॥ ११ ॥ तल्पस्थितेयमुपधानविशिष्टहस्ता न्यस्तानना पुलकिनी प्रियभर्तुरंसे । आस्रस्तकेशरचनांतरितावतंसा धत्तेवधानमिह मत्प्रतिपालनायाम् ॥ १२॥ भवतु संभाव्यैव गच्छामि । ( उपसृत्य ) अजय्यमस्तु युवयोस्संगतं । किं ब्रूथ । अपि कुशलं भावस्येति । कथममुना कुशलपरिप्रश्नेनोद्घटितो मे चिरादनवलोकनातिक्रमः । सखायौ मास्म मामुपालभेथां अपराध्यत्र सुलोचनास्वयंवरयात्रा । यद्विप्रकृष्टसंनिविष्टराजांतरशिबिरनिरीक्षणकौतुकेन परिभ्रमतां तृतीयोयं दिवसः । किमाहतुः । तेन हि क्षांतमिति । एष इदानीं निष्कृतनिजातिक्रमदुष्कर्मा महाकविप्रबंधस्येव नित्यप्रवृत्तसुखशय्यस्यास्य मिथुनस्य सौखशायिको भवामि । किमाह भवती चंक्रमण Page #62 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। ४९ चपलस्येव बालकस्यांतर्गृहं निरुध्यमानस्य कुतस्ते प्रियसुहृदः सौख्यमिति । अलं कथांतरव्याजेनात्मनः सौभाग्यकतया । किमाह भवती । कंपितास्मि अलंक्रियतामयं शय्यार्ध इति । वासु सुलोचनास्वयंवरयात्रां प्रत्यवेक्ष्योपावर्तिष्ये । तदलमतियंत्रणया । किमाह भवान् । दृश्यतां भवता स्वयंवरयात्रा । अहं तु पुनस्त्वन्मुखाच्छ्रोष्यामीति । ( सस्मितं ) अहो चापलमत्र भवतः । यद्वा किं वदंती श्रवणदानमपि गृहस्थूणस्यैवादृष्टबहिर्गृहस्य सख्युनील्पीयः । ( सस्मितं ) । अथवा प्रवर्तयतु तवापि स्वयंवरयात्रां चंद्रसेना । कथं हासोत्तरमसौ पत्युरुरसि पतिता । भवतु साधयामस्तावत् । ( परिक्रम्यावलोक्य च) कथमसौ जरत्कूपिका वाराणस्याः प्रदीपच्छाया । मदनभानोरकालपलितं तरुणानां सिनीवाली सुरतचंद्रातपस्य जंगमचंचावेशवाटस्य संमार्जनी स्त्रैणस्य विडंबयंती विलासिनी विभ्रमान्निजोदवसितालिंदवितर्दिकां दूषयंती भोगवत्या माता निषादवती । या खलुयतस्ततस्सूतविशीर्णसूत्रा पुराणकथेव शिरालदेहा। अमुंचती मंडनमंगनार्ह चलत्यचारु प्रचलाकिकेव ॥१३॥ अपि चास्याः मूले वालयवप्ररोहधवलान् लब्धस्वभावांस्ततो मांजिष्ठप्रसरच्छवीनथ चरत्ककोलिनालारुणान । पश्चान्मुग्धशिरीषकेसररुचः प्रांते च काकच्छद च्छायान्मूनि कचान करात्यपसरन्नीलीरसो भावितः॥१४॥ हंत भोः, अनया खल्वयथार्थनामा भोगवती जाता येन सा भूताविष्टेव सभयं परिहीयते । ग्रहग्रहीतेव न विश्वस्यते विषदूषितेव वापिका नास्वायते । विषधराधिष्ठिताचंदनलता नोपसेव्यते । किंच बहुना चंडालिका तु Page #63 -------------------------------------------------------------------------- ________________ ५० विक्रांतकौरवे सा संप्रति चंडालिकेव दूरे स्पर्शस्यानिसर्गाश्लीलमुखराया हृदय इवात्मनो बहिर्द्वारे भवने को वावसरमेकं लगति । तथाहि निष्कासयत्येकत एकमेषा प्रवेशयत्यन्यमथान्यतश्च । पतिं सुतायाः कपटोत्कटाभिः स्वांशावतारैरिव कुट्टिनीभिः ॥ १५ ॥ इत्थं च पुनः समर्थये । निर्दोषा भणितिर्निसर्गमधुरा निर्मत्सरा शेमुषी निष्पापा नृपता जगद्बहुमता गीतिश्च निर्वैकृता । निर्दोषा चरितस्थितिर्गुणवती वेश्या च निर्मातृका यत्सत्यं बहुनापि भाग्यवसुना लभ्येत वा नैव वा ॥ १६ ॥ सर्वमेतदास्तां । इदं तु पुनरत्र धुनोति । यदद्याप्यसौ तरुणीमन्या झरखर्जूरकमवरुद्धवती न जातूज्झति स्वयं वृषस्या । कथमाह्वयत्यपि । हंत ध्वस्तोस्मि । भवतु ( उपसृत्य ) किमपि व्याजं कृत्वा गमिष्यामि । ( हास्यं निरुंधन् ) अथवा व्याजीकरणमपि नास्यां अर्थक्रियां प्रवर्तयति । ( उपसृत्य ) वासु निषादवति सुभगा भव । अथ वयस्यखर्जूरकोप्यत्र । किं ब्रबीषि । न जानीम एव त्वमिति । हंत साधुकृतं खर्जूरकेण किं भवत्या अपि जर्झरवादनमेव तस्मै स्वदते एषाहमर्धचंद्रकं कृत्वा तमानेव्यामि । मा कदाचिदपि भूर्निषादवती विषादवतां । किमाह भवती । कुतो मे विषादः । यदा भाव एवैवं वर्तते इति । वासु तदयमद्यापृच्छे । किं ब्रवीषि कदा पुनर्भावो द्रष्टव्यः । न खल्विहागत्य युक्तं मित्रदुहितरमसंभाव्य गंतुमिति । वासु स खर्जूरकमयैव मां द्रक्ष्यसि किमाह भवती । तेन हि गम्यतामिति । साधयामस्तावत् । ( परिक्रम्यावलोक्य च ) इयं खलु जरस्पिशा - चिकादर्शनप्रायश्चित्तं लोचनाभ्यामियं हि वैजयंती मकरकेतोरवलेपस्तारुण्यस्य पुण्यं लावण्यस्य भाग्यं सौभाग्यस्य माणिक्यं गाणिक्यस्य चंद्रिका Page #64 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । जगन्नयनचकोरकाणां चंद्रमत्या दुहिता रतिचंद्रिकानाम मत्तकाशिनी प्रकाशितकाशीराजपुरी यशोवैभवा स्वभवनप्रांतवर्तिनः शिक्षागृहात्संगीतयोग्या जनितश्रमरमणीया निर्गच्छति 1 किंच | यासौ आबद्धचंडातक पीड्यमान - मध्यस्फुटालक्ष्यगभीरनाभिः । प्रस्वेदसुस्निग्धशरीरयष्टिर्विभाति विभ्रांतविशालदृष्टिः ॥ १७ ॥ मुहुर्वृत्ताभ्यासव्यतिकरचलन्मौक्तिकलता समुन्मृष्टाच्छाच्छस्तनमलयजालेपरुचिरा । चिरायासश्राम्यच्चरणशिथिलन्यासमधुरा क्षणन्मंजीरेयं मदयति मनो रंजयति च ॥ १८ ॥ ५१ यावदस्याः सौवस्तिको भवामि । ( उपसृत्य ) स्वस्ति भवत्यै । सुंदरि कृतं नृत्ताय ताभ्यामंजलिबंधेन । ( सस्मितं ) उन्मार्जितेपि बहुले हरिचंदनेस्मिन् प्रव्यक्तमेव निबिडस्तनि दृश्यमानः । लाक्षारसेन रचितः कुंचकुंभपीठे धन्यस्य कस्य वदनेन विशेषकोऽयम् ॥ १९ ॥ कथमदृष्टोत्तरा सत्वरपरावर्तननर्तितस्तनकलशा सविलासविनिहितकरतलस्थगितस्तनतटोत्संगा सलीलचलनवाचालित मेखलाकलापा सवैकक्ष्यसाचीकृतचिकुरलोचना सविभ्रमांकुरितलज्जास्मितविकसितकपोलतला तूर्णं पदमुखरनूपुरमसौ स्वभवनद्वार एवांतरिता । चिरादवात्यमुन्मेषेण फलमीक्षणाभ्यां । भवतु साधयामस्तावत् ( परिक्रम्य ) कथमसावशोक तिलकायास्सुता केली Page #65 -------------------------------------------------------------------------- ________________ ५२ विक्रांतकौरवे मतीवाल्पसुलभसुकुमारचापला सत्वरमागत्य मां हस्ते गृह्णाति (निर्वण्र्य) अहो लालनीयता वालस्य । तथाहि गतिर्लालालोलातरलतरलं चारु च वचः स्फुरदंतज्योत्स्ना प्रसररमणीयं विहसितं । स्तनौ नोद्भिद्यते न च विचरतः साचि नयने किमप्यस्या वाल्यं हरति तरुणिनोप हृदयम् ॥ २०॥ भद्रे किं ब्रवीषि । आह्वति भावमर्जुकेति । (ऊर्ध्व विलोक्य ) कथमशोकलतिकापि द्वितीयस्यां प्रासादभूमौ गोपानसीमध्यासीना विडंबयंती विमानारूढां दिव्ययोषितमित एव दत्तदृष्टिी प्रतीक्षते। भवतु प्रवक्ष्यामि । (प्रविश्य ) इयं सोपानपंक्तिः । यावदारोहामः । (नाट्यनारुह्य) वासु कल्याणिनी भव । किं ब्रवीषि । संनिहिताममूं पर्यकिकामलंकरोतु भाव इति । यथाह भवती । (उपविश्य ) वासु किमिदं गवाक्षजालांतरिता विदूरे वर्तसे । कथं सविभ्रमोन्नमितभ्रूलतमसौ स्मयमानविलोचना न किमपि ब्रवीति । भवतु कथितमनया पुष्पवत्त्वम् । वासु कः खलु वराकः पुष्पवतीमशोकलतिकामसंभावयति । कृतं वीडितेन । किं ब्रवीषि । इह गच्छतो हास्तिनपुरवास्तव्यस्य नंद्यावर्तनाम्नः कौरवेश्वरप्रियानुचरस्य त्रीणि दिनानीति । तेन हि लब्धमेव देशांतरपरिभ्रमणफलं नंद्यावर्तेन । अथ कीदृशो गुणै द्यावर्तः । किं ब्रवीषि । न क्वापि हीयते वाराणसी विटपमहत्तरादार्यभद्रिलकादिति । कथं मयैवोपमीयते । भवत्विदमुपालभ्यते। कथं स कामी पुरुषार्थवित्स्याद्विहाय यस्संप्रति वर्तते त्वाम् । अमोघमस्त्रं ननु पुष्पमृद्वि त्वं पुष्पिता पुष्पशरासनस्य ॥ २१ ॥ किं ब्रवीषि । कुतः पुनर्भावनाप्रविश्य भवनं गंतुमुपक्रांतमिति । वासु समापति स्वयंवरयात्रायै राजानस्तदवेक्षणचापलमत्र मां चलयति । किं Page #66 -------------------------------------------------------------------------- ________________ વર્ तृतीयोऽङ्कः । 1 ब्रवीषि । तेन हि स्वैरमिहैवास्यतां । एष हि स्पृष्टमेव निरीक्ष्यते पार्श्वतो राजमार्गः । कियती च वेला पुनरित एव प्रतिष्ठमानानां राज्ञामिति । ( विलोक्य) कथं प्रवृत्तमेव गंतुमितो नृपतिभिः । किं ब्रवीषि । अथ कोयं पार्श्वचरेण चामरग्राहिणानुगम्यमानो वल्गु वल्गतं महाप्रमाणमाजानेयमारुह्य राजमार्गमवगाहत इति । ( विभाव्य ) अयं खल्वनिल्वाटेश्वरः कुब्जरात्रस्य पाता । तथाहि ――――― स्थगित जठरभागाः श्मश्रुभिर्लम्बमानैर्निशितधवलधारान् विभ्रतो मंडलाग्रान् । अनतितरलयातास्तं पतिं सूचयंति प्रकृतिसरलगात्रास्सैनिकाः कौब्जरात्राः ॥ २२ ॥ किं ब्रवीषि । कः पुनरयमतिरयतूर्णपदगामिनं वानायुकप्रवेकमारुह्य प्रयाति । ( विभाव्य ) कथमसावधिष्ठानस्याधिष्ठाता काश्मीरेश्वरः । तथाहि तूणीरिणः स्थूलकठोरवेणुर्निर्माणबाणासनपाणयोऽमी । गौरत्विषः कर्कश बभ्रुकेशाः काश्मीरनाथं कथयति सैन्याः ॥ २३॥ किं वीषि । कः पुनरसौ विंध्यशिखरोदयकायमाबद्धनक्षत्रमालोज्ज्वलनैपथ्यं स्थूलपृष्ठं विंध्यसिंधु र पृष्ठमधिरुह्यायाति । ( विभाव्य ) कममसौ आन्ध्रदेशाधिपतिः विजयवाटीपतिः । तथा ह्यमी । प्रांशुप्रतीकाः प्रकृतिप्रगल्भाः प्रायेणकालागरुकालवर्णाः । कुंतान वहंतो गुरुदीर्घदंडानंधाधिराजस्य चरति सैन्याः ॥ २४ ॥ Page #67 -------------------------------------------------------------------------- ________________ ५४ विक्रांतकौरवे ~~~xmmmmmmmmmmmmmmmmmm किं ब्रवीषि । कः पुनरसौ महाप्रमाणबान्हिकनिबर्हिवर्माणमनाकुलचरणविन्यासां विभाव्यमानगमनजवां वेसरवधूमारुह्यातिवर्तते इति । अयं खलु कर्नाटकभूमेः पालयिता मान्यखेटाधिपतिः । तथाहि । अमुं परितः उत्कीर्णशंखमणिदामपरीतकंठाः प्रालंबकर्णविनिवोशतदंतपत्राः। कर्नाटका विकटविस्मयनीयवेषाः शक्त्युद्यताः प्रथितशक्तय आपतंति ॥ २५ ॥ किं ब्रवीषि । कः पुनरसौ सत्वरितचटुलगामिनं कर्कशवपुषं विक्रमारूढः पादचारिभिरेव छत्रधारिभिरासेव्यमानः सत्वरमभ्येतीति । (विभाव्य ) कथमसौ चोलेश्वरः खरपुराधिपतिः। तथाहिकौक्षयकान् कुंचितकुब्जपृष्ठान धनूंषि वार्माणि च बिभ्रतोमी । वेषैरनत्युद्भटदर्शनीयैश्चोलेश्वरं चोलभटा ब्रुवंति ॥ २६ ॥ किं ब्रवीषि । कः पुनरसौ नातितूर्णगमनांदोलिताभोगकिंकिणीझणझणारवमुखरं कलिकलभमारूढ इति । (विभाव्य) कथमसौ दक्षिणमथुराधिपतिः पाण्ड्यः । तथाहिशिखंडिवर्हाग्रपिनद्धचूडा प्रौढानि तालानि शरासनानि । वहंति मुक्तांचितहेमपत्र-कर्णा अमी पांड्यनरेंन्द्रसैन्याः ॥ २७॥ किं ब्रवीषि । कः पुनरयमांदोलिकाधिरूढो निभूतमंदगामिपरिजनो राजन्यमिति । (विभाव्य ) कथं केरलपालो महोदयपुराधिपतिः । Page #68 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। अमी हिआगुल्फदीर्घक्षुरिकापिनद्ध-कटीतटास्सव्यकरात्तचापाः ।। करैः परैस्तीक्ष्णमुखान् वहति शिलीमुखान केरलनाथसैन्याः२८ किं ब्रवीषि । कथमसावचपलखेलस्थूलोच्चयगामिनीं करेणुकामारूढः कौरवेश्वरो दृश्यते इति । (विलोक्य) वासु केनाभिज्ञानेन कौरवेश्वरमज्ञासीः । (विभाव्य ) नूनमसावमुष्याग्रतः संमुखमासीनः स एव भवत्याः पतिर्नयावर्तः । यतः सोपि नात्र लग्नां दृष्टिं प्रत्याक्षिपति । कथममुना स्मितेनैव ह्यनुज्ञातव्यमहत्येव सत्यमत्रभवती नंद्यावर्तः । तिष्ठत्वेतत् । कथय कतमः खल्वत्र काशीराजस्य जामाता भविष्यति । किं ब्रवीषि । श्रुतं मया नंद्यावर्तमुखात् द्विःकिल वृत्तम् । सुलोचनामेघेश्वरयोः परस्परदर्शनमनुरागश्च गरीयान् तथा तथा प्रकटित इति । इति युज्यत एतत् । कुमुदाकरमेव हि कौमुदी संभावयति । व्यज्यते चास्योत्कंठतानेन लिंगेन । अस्य हि तंद्रालसानि सुहृदा सह भाषितानि निद्रात्ययादिव जडानि निरीक्षितानि । चिंताभरोपहितपांडिमगंडशोभं प्रम्लानकोकनदमंथरकांतिवक्रम् ॥ २९ ॥ वासु गतस्सर्वो राजलाकः । यावदहं गत्वा स्वयंवरवृत्तान्तं जानामि । किमाह भवती । तेन हि गम्यतामिति ( उत्थाय ). वाराणससिारयौवने मेघश्वरमेव वरं स्वयं वृणीतां सुलोचनासुभगं त्वामेव नित्यसुमुखां नंद्यावतोपि नंदयतु । (इति निष्क्रांतो विटः।) Page #69 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे nwro. com शुद्धविष्कंभः। (ततः प्रविशत्यासनस्थो राजा नंद्यावर्तो विदूषकश्च ) राजा-(सोत्कंठमात्मगतं .) अहो सौकुमार्यमपि योषितां कार्कश्यमेव पुष्णाति पुष्पायुधस्य । तथाहि उद्भिन्नकौतुकरसव्यातिभिन्नलज्जा पारिप्लवानिकृतसाध्वससंप्लवानि । विप्रेक्षितानि मधुराणि सुलोचनाया स्संतापयंत हृदयं मृदु शीतलानि ॥ ३०॥ मुष्णाति च विषमेषुदूषिता शेमुषी सत्त्वोन्मेषं पुरुषस्य । तथाहि सममिदमधुना सुलोचनायाः प्रकृतिचलेन विलोचनद्वयेन । अनिभृतमभवद्विलुप्तसत्त्वं हृदयमधीरमधीरलोचनायाः॥ ३१ ॥ (विभाव्य ) अहो संस्कारसंतानस्य द्रढीयसी प्रौढी येन प्रत्यक्षपरोक्षयोस्तन्वीक्षणं प्रति चक्षुषी न विशेषमीषदपि दर्शयतः। (आत्मानं प्रति) किं च भोः। नेत्रद्वयं विमिषदुन्मिषदप्यदो मे संस्कारबद्धघटनामवलोकते ताम् । तब्रूहि मे हृदय यत्स्वदतेत्र तुभ्यमुन्मीलयामि यदि वा विनिमीलयामि ॥ ३२ ॥ Page #70 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। विदूषकः-भो वअस्स किं अज्ज सो एव्व गंगातीरउत्तंतो हिअए परिवत्तदि । जदो चिंताभरणिप्पंदसव्वंगो णिव्वादस्थिमिदो विअ साअरो णिच्छलं लच्छिसि । नंद्यावर्तः–आर्य सौधातके साधु लक्षितम् । तथाहि-- कृत्वा दक्षिणपादजानुशिखरे सव्येतरं कर्बुरं हस्तेनासनहेमपीठमधुनावष्टभ्य वामेन च । अर्धस्रस्तपुट विलोचनयुगं न्यस्यन् पुरो निश्चलं वारंवारमसौ विनिश्वसति च स्थूलायतं निस्सह ॥ ३३ ॥ राजा-( सवैलक्ष्यं ) सखे नंद्यावर्त वयस्य सौधातके किं ब्रूथ । नंद्यावर्तः–देव न किमपि, इदं तु विज्ञाप्यते। स्वयमवरिष्ट परितो या त्वां नेत्रोत्पलस्त्रजैव पुरा । तस्याः स्वयंवरोऽयं पुनरुक्तो लोकव्यक्त्यर्थम् ॥ ३४ ॥ राजा-अथ कियव्यवधानमस्य स्वयंबरयात्रासमयस्य । विदूषकः-णं अत्तहोदीए कासीराअउत्तीए आअमणं । नंद्यावर्तः–(पुरो निर्दिश्य ) नन्वियं प्रविष्टवात्रभवती काशीराजपुत्री। राजा-(सोच्छासमात्मगतं ) कथं प्रविष्टैव । (निर्वर्ण्य ) इयं हि:सा काशिपतेस्तनूजा स्वयंवरस्थानसभामुपैति । सुलोचना दीर्घविलोचनाभिः पुरांगनाभिस्सह निम्ननाभिः॥३५॥ (ततः प्रविशति यथानिर्दिष्टा सुलोचना नवमालिका प्रतीहारश्च ) प्रतीहारः-इत इतो भर्तृदारिका ( सर्वे यथोचितं परिकामंति)। १. भो वयस्य किमद्य स एव गंगातीरवृत्तांतो हृदये परिवर्तते यतश्चिंताभरनिष्पंदसौगो निर्वातस्तिमित इव सागरो निश्चलं लक्ष्यसे । २ ननु अत्रभवत्याः काशीराजपुत्र्या आगमनं । Page #71 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे अहो महाराजस्य सर्वातिशायिनी प्रज्ञा यदुपज्ञमियं प्रज्ञावतामगर्हणीया वधूवरसमाराधनलब्धस्तोत्रा स्वयंवरयात्रा । ५८ पिता वा माता वा भवतु स वरस्तादृगथवा कुमारी तच्छंदं निभृतमवगच्छेदिति तु यत् । तदप्येषा दत्तिर्लघयति यदस्या रमयितुगुणं वा दोषं वा स्वरुचिमनुचक्षुर्विमृशति ॥ ३६ ॥ सुलोचना - ( अपवार्य) सहि सच्चं एव्व तं जं तुए गंगातीरे विलंबतस्स बह्मणस्स मुहादो किंपि सुदंति । नवमालिका - किं अण्णा हि तुह मए भणिदं आसि । सुलोचना - सहि विसरिदं खु तं पुणोवि एक्कवारं भणाहि । नवमालिका - ( सस्मितं ) विर्सेरिदं वा होदु पुणोवि एसा भणामि । सो जयोत्ति विदिओ कुरुराअउत्तो विस्संभणिज्जरसिओ विणयक्कधामो । कामो सअंकवणाण जणस्स कंतो संतोसपूदहिअओ समरेक्कमलो ॥ ३७ ॥ सुलोचना - सैंहि तंवि खु तेण एव्व भणिदं इमं चेअ कज्जं उद्दिसिअ सो जणो एत्थ आअदोत्ति । १ सखि सत्यमेव तत् यत्त्वया गंगातीरे विलंबतो ब्राह्मणस्य मुखात् किमपि श्रुतमिति । २ किमन्यथा हि तव मया भणितमासीत् । ३ सखि विस्मृतं खलु तत् पुनरप्येकवारं भण । ४ विस्मृतं वा भवतु पुनरप्येषा भणामि । ५ एषो जय इंति विदितः कुरुराजपुत्रो विसंभणीयरसिको विनयैकधामा । कामो शशांकवदनानां जनस्य कांतः संतोषपूतहृदयस्स मैर कमल्लः ॥ ६ सखि तदपि खलु तेनैव भणितमिदमेव कार्यमुद्दिश्य स जनोऽत्रायात इति । Page #72 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। ५९ नवमालिका-जेणे में पत्तिआअसि । इदएव्व दक्खसि । प्रतीहारः-प्रविष्टाः स्मः स्वयंवरसभां (परितोऽवलोक्य) एकत्र विद्याधरराजमुख्यैरन्यत्र भूपालकुलप्रकाण्डैः। इयं सभा संप्रति सेव्यमाना व्यनक्ति कामप्यपरामभिख्यां ॥३८॥ अपि च मन्ये । दर्शयंति निजामृद्धि प्रतिराजमिहार्पिताम् । स्वयं भगवती लक्ष्मीः श्लाघते जगति धुवं ॥ ३९ ॥ (निर्वर्ण्य ) अये परिमितोदारपरिवारता महीपतिनामाविर्भावयति वैभव विभवस्य। पुनः । वारस्त्रीहस्तधूतो हसति सितरुजां चामराणां समूहो हंसान प्रावृप्रवासप्रमुदितमनसः स्वैरमुड्डीयमानान् । लीलामालेढिमेघध्वनिजनितमदं नृत्यतां बर्हिणां च चंचन्मायूरपिच्छव्यजनपरिकरः पार्श्वतो धूयमानः॥४०॥ कथमिदानीमकंपमानसुतासंनिधानमभिद्यमानविभ्रमभंगी विडंबयति कामिलोकं कुसुमधन्वा । भवतु प्रक्रांतमेवोपक्रमामहे । (विलोक्य). कथमसौ सार्द्रगंधं यावदेनं प्रथमतो दर्शयामि । (उपमृत्य) फणिनामधिपेन यो वितीर्ण विजयार्धस्य भुनक्ति दक्षिणार्ध । १. येन मां प्रत्यायसि । अत्रैव द्रक्ष्यसि । - - Page #73 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे रथनूपुरचक्रवालनामा प्रथिता यस्य चकास्ति राजधानी ॥ ४१ ॥ प्रणम्रविद्याधरमौलिमालिका मणिप्रभाले प्रमिलनखार्चिषः। प्रियात्मजस्तस्य जगदृशां प्रियो नमेरसौ मेरुसमानगौरवः ॥४२॥ नवमालिका-कंह एस चक्कवट्टिणो महाराअभरहस्स अग्गमहिसीए सुभद्दाए जेठभादअस्स सअलविज्जाहरचूडामणीए महाराअणमिए सविसेसपरक्कमतुलिदणिअजणओ तणओ । प्रतीहारः-( सुलोचनां प्रति ) किमस्ति ते चेतसि शश्वदुच्छ्सनमेरुसौरभ्यसुगंधिसीमसु। विहर्तुमिच्छा गुणिना गुणप्रिये .. सहामुना मेरुवनांतभूमिषु ॥ ४३ ॥ (विभाव्य आत्मगतम् ) कथं परांचति वास्याश्चेतः । भवत्वपर्यनुयोज्याश्चित्तवृत्तयः भवत्वन्यतो दर्शयामि । ( परिक्रम्य दृष्ट्वा च ) कथमसावौत्तरा| विद्याधरकुमारः सुनमिः। योसौविमोचयंत्यामपि वारवध्वां स्वयं च पर्यस्तविलोचनान्तः । विमोचयत्यंगदकोटिदष्टं स विभ्रमं चामरबालकाग्रं ॥ ४४ ॥ . १ कथमेष चक्रवर्तिनो महाराजभरतस्याप्रमहिष्याः सुभद्राया ज्येष्ठधातुः सकलीवद्याधरचूडामणेमहाराजनमेः सविशेषपराक्रमतुलितनिजजनकस्तनयः । Page #74 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। ( उपसृत्य) विनमितरिपुयक्षः पक्षपाती गुणानां विनमिरिति विनेता दुर्विनीताशयानाम् । भुजगपतिवितीर्णामुत्तरां राजतानेरवति सुकृतावान्यः श्रेणिमेणांकसौम्यः॥४५॥ अलकामधितिष्ठतः पुरी त्रिजगत्ख्यातविभूतिवैभवाम् । अयमप्रतिमयविक्रम स्तनयस्तस्य नयैककोविदः॥४६॥ नवमालिका–कहें एस अ मार बाहुबलिणो माउलउत्तस्स महारा--- अविणमिए णिम्मलचरित्तओ पुत्तओ। प्रतीहारः-- मंदमंदविहरत्ववनानि स्वैरमुत्तरकुरूपवनानि । सोवितुं किममुनास्ति मनस्ते पारिजातसुमनःसुरभीणि ॥४७॥ (विभाव्य आत्मगतम् ) कथमुदास्त इव । भवत्वन्यतो दर्शयामि (परिक्रम्यावलोक्य च ) कथं विद्याधरकुमारो लोहार्गलाधिपतिर्मेघप्रभः । योसौ-- समुत्पतत्केसरधूलिलुब्धामलुब्धपातामुपरि भ्रमंतीं । अन्वेति दृष्टया भ्रमरी सलीलं लीलासरोजं भ्रमयन् कराभ्यां ॥४८॥ १. कथमेष च मारः बाहुबलेर्मातुलपुत्रस्य महाराजविनमर्निर्मलचरितः पुत्रः । Page #75 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे ( उपमृत्य) यस्याग्रतः संयति संपतंतः क्षणेन निर्वासितशौर्यसाराः। मेघप्रभावा रिपवो भवंति मेघप्रभो नाम स एष धीरः॥४९॥ नवमालिका–केहं एस विज्जाहरलोअसलाहणिज्जसोहग्गसंभाविदो असंभाविददोसलेसो लोहग्गलेस्सो । प्रतीहारः अनेन सार्ध सुरलोकवातव्याधूतसंतानकसौरभाणि । कल्याणि सेवस्व सुरस्रवंती तीरांतमंदारलतागृहाणि ॥५०॥ (विभाव्य आत्मगत ) कथमिहापि सैव रीतिः । भवतु भूपालानिदानी दर्शयामः । ( परिक्रम्य विलोक्य च ) कथमसौ साधुविधानकप्रवतितनयश्चक्रवर्तितनयः शरत्कौमुदीविशदोदककीर्तिरर्ककीर्तिः । योसौ दीव्यच्छलाकापरिवर्तनेन सविभ्रमोदंचितपूर्वकायः। स्रस्तं प्रकोष्ठात्कटकं करेण सुश्लिष्टमारोपयतीतरेण ॥ ५१ ॥ ( उपसृत्य) यस्मै कृतांजलिरदाद्विजयाध एव __ सेनानिनाथचलितः स्वयमभ्युपेत्य । , कथं एष विद्याधरलोकश्लाघनीयसौभाग्यसभावितोऽसंभावितदोषलेशो लोहार्गलेशः। Page #76 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। एकातपत्रमवते भरतं समस्तं सिंहासनं च चमरद्वयमातपत्रम्॥५२॥ अपि चयेनैक एव विशिखश्चतसृष्वपि दिक्षु दिग्जये मुक्तः। एकत्र तुषाराद्रावितरत्र पपात पाथसां पत्यौ ॥ ५३॥ चक्रेण निष्प्रतिघनिर्जितवैरिराजचक्रेण सार्धमतिमानुषविक्रमेण । वर्णाश्रमस्थितिगुरोर्भरतश्वरस्य तस्यैष सूनुरुदपादि पुरः प्रवीरः ॥ ५४॥ किंच हिमाचलांभोनिलयावधेर्भुवस्स चक्रवर्ती युवराज एष तु । समस्तदेवांचितपादपंकजः पितामहश्चास्य पुनः पितामहः ॥ ५५ ॥ नवमालिका-कहं एस आउज्झाउरिवल्लहस्स चक्कवाट्टिणो महाराअभरहस्स पढमतणओ अप्पडिहदसत्ती जुवराअ अक्ककित्ती। प्रतीहारः समुच्छ्रसन्मदुरसारसालसं झरीस्सरय्वाः मृदुसारसारमैः । विगाह्य नीहारजडो निषेवतां रहोविहारेषु युवां समीरणः॥ ५६ ॥ १. कथमेष अयोध्यापुरीवल्लभस्य महाराजभरतस्य प्रथमतनयोऽप्रतिहतशकिर्युवराजोऽर्ककीर्तिः। Page #77 -------------------------------------------------------------------------- ________________ ६४ . विक्रांतकौरवे कथमत्राप्यनुत्सुकेव । अलक्षणो विषमेषुव्यापारः । भवत्वग्रतो दर्शयामि । (परिक्रम्यावलोक्य च ) कथमसौ बलिनो बाहुबलिनः पौदनाधिपतेः कुमारो महाबली। योसौ अंगुष्ठमुद्राप्तिपद्मरागज्योतिःशलाकाभिरनाकुलाक्षः । आरंजयत्यंगुलिसारणेन स्मेराणि मुक्तागुणमौक्तिकानि ॥ ५७॥ . (उपसृत्य ) क्षोणीमा लवणोदमा हिमवतो रूप्याद्रिणा गंगया सिंध्वा चापगया पयोध्ववदिभिः षोढा विभक्तामिमां । यत्स्वीकृत्य निरर्गलं विजयते तत्संयुगे चोदितं चक्रं चक्रधरस्य वक्रितमभूद्यस्मिनू मनागू द्वेषिाण ॥५८॥ रश्च । तृणायेदं मत्वा सकलमपि साम्राज्यविभवं सबीभत्सं कृस्त्नं विषयसुखमुत्सृज्य विरसम् । तपस्तप्त्वा कर्मास्रवमाप दहन निर्जरयितुं क्षणाबद्धं चैनः शिवपदकवाट व्यघटयत् ॥ ५९॥ तस्यैष तनयो यूनां विशिष्टः पौदनेयकः। अनेन रममाणा च युवतीनां विशिष्यते ॥६०॥ नवमालिका-केहं एस बाहुबलिणंदणो उक्खादपडिपक्खमाणसंकुलओ इक्खाउवंसेक्कभूसणं अक्खलिदणिअपरक्कमतुलिदबाहुबली कुमारमहाबली। १. कथमेष बाहुबलिनन्दन उत्खातप्रतिपक्षमानशंकुः इक्ष्वाकुवंशैकभूषणमस्खलितनिजपराक्रमतुलितबाहुबली कुमारमहाबली । Page #78 -------------------------------------------------------------------------- ________________ प्रतीहारः तृतीयोऽङ्कः । सुरतश्रमांबुकणसौरभो हुरः व्यजनानिलः कुमुदगंधबंधुरः । मुदमातनोतु भवतोस्समीरणः प्लुतनातरंगपरिवर्तशीतलः ॥ ६१ ॥ ( विभाव्य स्वगतं ) कथमिहाप्यसौ कुंठोत्कंठैव । भवत्वन्यतो दर्शयामि ( परिक्रम्यावलोक्य च ) कथमसौ उज्जयिनीपतेरुग्रान्वयप्राग्रहरस्य मध्यमलोकमनोः महाराजमघोनः प्रियतनयः कुमारजयंतः । योसौ निर्दिश्य किंचित्कटकामुखेन हस्तेन तेनैव पुनः सहेलम् । नीतेन सूचीमुखतां निहंति स्तंभं पुरोवर्तिनमर्धवीट्याः ॥ ६२ ॥ उपसृत्य ) ६५ आज्ञाक्षराण्येव सुमुखानि पृथ्वीमवंति यस्योजित शासनस्य । अवंतिषु प्राप्तललामशोभामलंकरोत्युज्जयिनीं पुरीं यः ॥ ६३ ॥ महीपतेस्तस्य महीयते गुणैरसौ कुमारस्तनयस्तनूदरि । व्रजात्ररागप्रगुणा गुणोत्करा गुणज्ञगोष्ठी श्रवणावंतसताम् ॥ ६४ ॥ नवमालिका – कहें एस करसववंसुत्तंसो दंसिदुद्दाममणोहरदेहकंतिपन्भारो पडिपक्खराअचक्कं जअंतो कुमारजअंतो । १. कथमेष काश्यपवंशोत्तंसः दर्शितोद्दाममनोहरदेहकांतिप्राग्ारः प्रतिपक्षराजचक्रं जयन् कुमारजयंतः । ५ Page #79 -------------------------------------------------------------------------- ________________ ६६ विक्रांतकौरवे प्रतीहार:- ( उपसृत्य ) निशीथिन्यां यूना प्रथितयशसा साकममुना शरच्चंद्रोद्योतद्विगुणविशदं सौधशिखरं । रतिक्रीडाखेदव्यपनयविदग्धोपचरणं मुहुः सुप्रावात भज कुमुदसंपर्क सुरभिम् ॥ ६५ ॥ ( विभाव्य स्वगतं ) कथमिहाप्यनीहैव । भवत्वग्रतो दर्शयामि । ( परिक्रम्य ) कथमसौ मथुरानाथस्य हरिवंशप्रथमकंदर्पस्य महाराजहरिकांतस्य प्रियसूनुः सुकेतुः । योसौ व्यापारितां दृष्टिमिव पूर्वमपांगसंचारिततारकांताम् । प्रत्याहरत्यव्यपदेशलक्षां द्राग्गोचरो मन्मथमार्गणानाम् ॥ ६६ ॥ राजर्षिरस्ति हरिवंशमहीपतीनामाद्यो हरित्सु हरिकांत इति प्रतीतः । यस्साम्यमेति हरिणा हरिणांकरोचि - न्यक्कारि कीर्तिधवलीकृतविश्वलोकः ॥ ६७ ॥ तस्य पृथ्वीपतेः सूनुः कामधेनुरुपेयुषां । प्रख्यातः शौरसेनोसौ सुकेतुश्शूर सैनिकः ॥ ६८ ॥ नवमालिका – कहं एस सोरसेणी समुब्भवमहग्घविदतरल कोमलकबंधस्स सूरसेणमंडलस्स मंडइत्तअं महुरं अहिवसंतो महु ( कंतिणिब्भत्थिदमअरके सुकेदू | १. कथमेष शौरसेनीसमुद्भवमहार्षिततरल कोमलकाव्य बन्धस्य शूरसेनमंडलस्य -मंडनायितां मधुरामधिवसन् मधुरको तिनिर्भसितमकरकेतुः सुकेतुः । Page #80 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । ६७ marwAAAAAAAAAAAANAARA प्रतीहारः अमुना यमुनातरंगभंगस्खलनक्लेशितशीतमारतेषु । विहरस्व सुखाकरेषु वृंदा वनपर्यंतलताग्रहांतरेषु ॥ ६९॥ (विभाव्य स्वगतं ) कथमसौ न कापि रज्यति । तथाप्यन्यतो दर्शयामि । ( परिक्रम्य दृष्ट्वा च ) कथमसौ हास्तिनापुरकः सोमान्वयककुदो निरायासनिर्वर्तितशत्रुजयः कुमारो जयः । योसौ नास्ते विभिद्यकममद्य नैव विडंब्यते विभ्रमचेष्टितैर्वा । नाप्यत्र रिक्ता स्थ सुदास्त एव वरं तु सत्त्वं विवृणोत्यपूर्व ॥ ७० ॥ विदूषकः-(अपवार्य) कह उवत्थिदा सवरजत्तासमत्ति । नंद्यावर्तः--बाढं तथैव । प्रतीहारः--( उपसृत्य) अभिषिच्य युगोद्यमे त्रिधाम्ना कुरुराज्यं त्वमिति प्रबोधितो यः। कुरुराज इति प्रतीतनामा कुशलादानमवर्तयत्प्रजानाम् ॥ ७१ ॥ यस्य च युगारंभे दानक्रममनभिजानत्यपि जने . तपश्चर्याप्रादुष्करणपरवत्ताहृतधिये। १ कथमुपस्थिता स्वयंवरयात्रापरिसमाप्तिः । Page #81 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे गृहानभ्येताय स्वयमदित दानं भगवते प्रियभ्राता श्रेयान समुपचितनिश्रेयसरुचिः ॥ ७२ ॥ रूपेण कांत्या सहसा महिना शौर्येण दानेन पराक्रमेण ।। बिभ्रत्परां कीर्तिमनन्यलभ्यां तस्यैष पुत्रः शमितारिसत्रः ॥ ७३॥ यो हि करिकरपरिणाहस्थूलभारांधकारस्थगितगगनगर्भ मेघवामरौघम् । अधरितघनघोषः सिंहनादस्वरेण व्यजयत यत एषामुष्य मेघेश्वराख्या ॥ ७४ ॥ नवमालिका-ऐसो खु सुणिम्मलकित्तिसंभारभरिदभुवणभंतरस्स राएसिणो महाराअसोमपहस्स पढमतणओ लोअलोअणपुण्णचंदो समरमुहपरम्मुहकिदवेरिणरिंदो णिअगुणामिअसोत्तणिव्वत्तिअसअलजणसोत्तरसाअणो पवित्तचरित्तपरायणो कोरवेसरो मेहेसरो । ता इमस्सिं संचारिअंतु विअसिअउप्पलदलमालकोमलाइ सिणिद्धमुद्धसरलपहमराइ कोदूहलफुल्लाविदाइ तुह लोअणाइ। सुलोचना-(स्वगतं) कहं अइअउत्तो । (समदनाकूतम् ) १ एष खलु सुनिर्मलकीर्तिसंभारभरितभुवनाभ्यंतरस्य राजमहाराजसोमप्रभस्य प्रथमतनयो लोकलोचनपूर्णचंद्रः समरमुखपराङ्मुखीकृतवैरिनरेद्रो निजगुणामृतस्रोतनिवर्तितसकलजनश्रोत्ररसायनः 'पवित्रचरित्रपरायणः कौरवेश्वरो मेघेश्वरः । तस्मादस्मिन् संचार्येताम् । विकसितोत्पलमालाकोमले स्निग्धमुग्धसरलपक्ष्मले कौतूहलफुल्लापिते तव लोचने। २. कथमायपुत्रः । Page #82 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। . अम्हो देक्खिदुपि इमं जणं ण प्पहवम्हि ता कह कंठे मालं अमोअइस्सं । (इति सवैक्लव्यमास्ते)। प्रतीहारः-(विभाव्य ) स्थान एव लग्नमस्याश्चेतः। नवमालिका-(सस्मितं) पिअसहि किं अण्णदो गमिस्सामो । ( सुलोचना साभ्यसूयवैलक्ष्यं मुखं नमयति) नवमालिका-तेण हि गहूंजदु एसा सवरमाला । (सुलोचना सलज्जमादत्ते) नवमालिका-पिअसहि इदो एहि । (उभे उपसर्पतः) नवमालिका-सहि किदत्थेहि एहिं तुह मणोरहाइ । (इति सुलोचना हस्ताभ्यां राज्ञः स्कंधे मालामामोचयति) विदूषकः-(सहर्षे ) जेहूं पिअवअस्सो सोत्थि होदु। नंद्यावर्तः-विजयतां कौरवेश्वरः । राजा-( सहर्षमात्मगतं ) संपूर्णो मे मनोरथः । (नेपथ्ये) ( कलकलांतरं । ) भो भो कौरव कौरव क्षणमिमौ सौभाग्यदमियोच्छूनौ संगरभंगुरौ तव भुजौ पश्यंतु सर्वे जनाः। १ अहो द्रष्टुमपीमं जनं न प्रभवामि तस्मात्कथं कंठे मालां च मोचयिष्ये । प्रियसखि किमन्यतो गमिष्यामः । ३ तेन हि गृह्यतामेषा स्वयंवरमाला । ४ प्रियसखि इत एहि । ५ साख कृतार्थयेदानीं तव मनोरथान् । ६ जयतु प्रियवयस्यः स्वस्ति भवतु । Page #83 -------------------------------------------------------------------------- ________________ विक्रांतकौस्वे भूपालाः प्रति पालयंति वहवस्त्वां युद्धबद्धस्पृहाः कर्तु मानविमाननां द्रुतममी हर्तुं च ते मानिनीम् ॥ ७५ ॥ ( सर्वे शृण्वंति ) कथमन्यदुपक्रांतमन्यदापतितम् । सुलोचना-( सभयं ) हु किं एत्थ सरणं । ( सविषादं ) हं कहं एत्थ हविस्सदि। विदूषकः-कहं एरिसं इमस्स णिहुरवअणं । राजा-(सकोपस्मितं ) जितकाशिता क्षत्रियडिंभानाम् । नंद्यावर्तः– ( सकोपं ) अहो अहो परुषिका क्षत्रियकीटानां । यदेवं देवेऽप्यवधीरणागर्भमुदीर्यते। (प्रविश्य संभ्रांतः) पुरुषः—आर्य महेन्द्रदत्त युवराजहेमांगदस्त्वामाज्ञापयति। आनविता मितस्त्वरिततरं वत्सा सुलोचनेति । तेन हि इत इतो भर्तृदारिका। . (निष्कांता सुलोचना नवमालिका प्रतीहारः पुरुषश्च । ) नंद्यावर्तः–देव युद्धाय सन्नद्धव्यम् । तदुत्थीयताम् । ( सर्वे उत्तिष्टंति ) राजा-(सक्रोधं ) अरे रे दुर्वांतक्षत्रियकीटाः श्रृणतेमा प्रतिज्ञाम् । वक्ष प्रस्थात् क्षुरप्रप्रहतिविघटितग्रंथिबंधश्लथास्नश्रोतमस्तिष्कशक्लस्थपुहिनपिशितादुत्खननमानशंकुं । १. हंत किमत्र शरणं । २. हंत कथमत्र भविष्यति । Page #84 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। त्रासातकाज्जिहासून प्रथमतरमसन् मोघसंरंभशोच्यानाच्छेत्स्यत्यष रोषग्रहविधृतघृणः कौरवो भैरवो वः॥ ७६ ।। नंद्यावर्तः–रेरे अस्थानोत्थितक्रोधाभिभूतविडंवितवीररसाः पश्यतु विश्वपि क्षुद्राः क्षेत्रियकुलपांसनाः । निर्मुचन वाणवृष्टीनिविडनिपतमाकांडबद्धांधकाराः स्वैरावस्कंदरुग्णप्रतिनृपतिशिरस्कंदसंबंधसंधीः । कल्पांतष्ठयूतधाराकवलितगगनाभोगसीनस्समंता नंद्यावर्तोऽद्य लीलां रजयति समरे पुष्कलावर्तकस्य ॥७॥ विदूषकः- इदो' इदो पिअवअस्सो । __ (परिक्रम्य निष्कांतास्सर्वे ) इति श्री हस्तिमल्लेन विरचिते सुलोचनानाटके स्वयंवरयात्रानाम तृतीयोङ्कः समाप्तः ॥ ३ ॥ १ कथमीदृशमस्य निष्ठुरवचनं । २ इत इतः प्रियवयस्यः । Page #85 -------------------------------------------------------------------------- ________________ ७२ विक्रांतकौरवे चतुर्थोङ्कः ॥४॥ (ततः प्रविशति सरलिका) सरलिकाः-भणिदम्हि पिअसहीए णोमालिआए । सखि कीरिसी उण सअंवरकलअणाणंतरं राअउत्ताणं पउत्तित्ति राअउलं गदुअ समंतदो जाणिअ आअच्छेति । ता लहु गच्छेमि । (परिक्रम्यावलोक्य च) ऐसो हु परिहारमहत्तरो अज्जमहिंददत्ता इदो एव अभिवट्टेदि । जाव एअं उवसप्पिअ पुच्छमि । (परिकामति)। (ततः प्रविशति प्रतीहारः) प्रतीहारः-अहो विवेकमुग्धता क्षत्रियकुमाराणां । कुतः ? भूयांसः क्षितिपात्मजा वरयितुं वांच्छंति वत्सामिमां सर्वस्याभिमतः स्वयंवरविधिस्तद्वाढमत्रोचितः। इत्यस्मत्प्रभुणा प्रवर्तितमभूद्यत्कर्म निर्मत्सरं जातं प्रत्युत वैरकारणमिदं तेषां मुधा द्वेषिणाम् ॥ १॥ इदं चैषामपुंयोग्यं पौरोभाग्यम् । यदुत । अन्यं कंचन पंचबाणविधुरादन्यं धरित्रीश्वरं या निर्मातगुणा स्वयं वृतवती पश्यत्सु येष्वग्रतः । तां संप्रत्यभिमानदुर्गतधियो वांछंति भूयोपि ते वीभत्सोपहतां धिगस्तु विषयोन्मुग्धामिमां कामिताम् २॥ १ भणितास्मि प्रियसख्या नवमालिकया । सखि कीदृशी पुनः स्वयंवरकलकलानंतरं राजपुत्राणां प्रवृत्तिरिति राजकुलं गत्वा समंततो ज्ञात्वाऽऽगच्छति । तस्मालघु गच्छामि । २ एष खलु प्रतीहारमहत्तरः आर्यमहेन्द्रदत्त । इत एवभिवर्तते । यावदेतमुपसृत्य पृच्छामि । Page #86 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । ७३ सरलिका - ( उपसृत्य ) अअअ सअंवरवेला कलअलाणंतरं राअउ - ताणं पउत्तिं जाणिदं आअच्छेमि । ता भणाहि दाव | प्रतीहारः -- तेन हि श्रूयताम् । सरलिका -- अवहिदम्हि | प्रतीहारः —— अस्ति भमाणसंरंभरभसगरीयानुत्थितः पार्थिवानां कलकलः । -- सरलिका - हत्थ । तावत्स्वयंवरयात्रावसानविसंवादिमनोरथानामुज्जूं प्रतीहारः -- तत्र च — युक्तोऽयं गुणिनां वधूर्गुणवतीत्येके प्रसन्नाः स्थिताः स्वच्छंदप्रसरो मनोभव इति प्राप्तोपरैर्निग्रहः । स्वावज्ञाजनितत्रपाहृतधिय स्तूष्णमिभूवन् परे केचित्तामपहर्तुमेव समरे प्राकंसत क्रोधनाः ॥ ३ ॥ सरलिका - दो तदो । प्रतीहारः - तेषु च प्रकृत्यमर्षणाः कुलूतेश्वरदुर्मर्षणप्रभृतयो निसर्गनिरर्गलचोष्टितं चक्रवर्तिसुतमर्क कीर्तिमुपसृत्य सोत्साहमवोचन् । यथा । आहूय शाठ्यात्सकलान्नरेंद्रानकंपनः कौरवपक्षपाती । गुणित्वमारोपयितुं जयस्य तस्यायमारोपयतिस्म मालाम् ॥ ४ ॥ सरलिका – परंगुणेसु असहणदा राअउत्ताणं । तदो तदो । १ आर्य स्वयंवरवेलाकलकलानंतरं राजपुत्राणां प्रवृत्तिं ज्ञातुमापृच्छामि । तस्माद्भण तावत् । २. अवहितास्मि । ३ हंत । ४ ततस्ततः । ५ परगुणेषु असहनता राजपुत्राणाम् । ततस्ततः । Page #87 -------------------------------------------------------------------------- ________________ विकांतकौरवेmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm प्रतीहारः-पुनरस्यावोचन् । पितुस्तु संकेतमलंघनीयं. सुलोचना साप्यनुपालयंती। त्वयि स्थिते श्लाघ्यगुणाभिरामे शोच्या कमप्यन्यमभूदृणाना ॥ ५ ॥ सरलिका-तंदो किं पडिपण्णं अक्ककित्तिणा। प्रतीहारः-ततश्च रोषोत्कर्षकषायितेक्षणेन कथितमर्ककीर्तिना । सरलिका–कहं वि। प्रतीहारःवाढतेऽद्य विशौर्यते तस्मिन्नारोपिता गुणाः। आरोपिते ससंरभ चापकाट्यां मया गुणे ॥६॥ सरलिका-अहो असरिसो माणग्गहो प्रतीहारः-स किं नामार्ककीर्तिः । सरलिका-तदो तदो प्रतीहारः-ततश्च निसर्गनिस्त्रिंशो दर्दाशार्णः समाह्वन्नर्ककीर्तिमित्थमवोचत् । अनास्थापर्यस्तस्तव यदि न जुंभेत सपरं कठोरः कोपाग्निज्वलितुमुचितस्मिन्नवसरे । कुरूणामुद्दामः प्रसरति मदः शौर्यकथया स काशीनां राजा कलयति निजौर्जित्यविभवं ॥ ७॥ इति । सरलिका-तदो तदो १ ततश्च किं प्रतिपन्नमर्ककीर्तिना । २ कथमिव । ३ शिथिलीभवति । ४ अहो असदृशः मानग्रहः ५ ततस्ततः ६ राजा । ७ औदासीन्येन नष्ट । ८ ततस्ततः । Ce Page #88 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। ७५ प्रतीहारः-निसर्गभीषणचेष्टितः सौराष्ट्रो भीमः ससंरंभमवोचत् । का वा चक्रवर्तिन आस्था विशृंखलसंख्यसंघट्टदुर्बले कुरुकाशिबले । तदत्र आस्तामप्रतिचक्रविक्रमधनः कामं भवान् प्रेक्षकः केमी शौर्यविपर्ययप्रलघवः क्वोति ते कौरवाः युद्धाबद्धधियः पृथपृथक्गमी सज्जा वयं भूरिशः शत्रूणां दमनाय दुर्दमभुजास्त्वद्भलताकिंकराः ॥ ८॥ इति । सरलिका-तदो तदो। प्रतीहारः-अनंतरं चार्ककीतिरंतःकोपपावकस्य विर्घष इव तत्क्षणप्रसभकीलितारातिकंठान् वर्णानुद्गिरन्नित्थमचीकथत् । अथवा समूलकार्ष नः कषणीया दोषाः। ततश्च-- अध्यस्तशौर्योद्धतमेव मिथ्यामध्यस्थमस्थानकृतातिसंधिं । किमन्यदन्यायपथप्रवृत्तमकंपनं संप्रति कम्ययामि ॥९॥ सरलिका-अझो अच्चाहिदं। प्रतीहारः-शैलीयं मानशालिनाम् । सरलिका-तदो तेंदो। प्रतीहारः-अत्रांतरे पार्श्ववर्ती चक्रवर्तिनवार्ककीर्तेरनुयात्रायां नियुक्तो नीतिमार्गकृतवियो नाम सचिवः साधिक्षेपमवोचत् । यथा । युवराज केयं पृथग्जनसुलभा प्रेक्षापूर्वकारित्वप्रवृत्तिः । किं चेदमात्मवतामनाभमतं । दु:शिक्षितजनदुरुपदेशेषु श्रोत्रादानव्यसनम् । कश्चायं प्राकृतजनप्रवर्तितः पुरुषांतरगुणसमावर्जितचित्तायामाग्रहो योषिति । क चायं परिचितः कलु १ युद्ध । २ ततस्ततः। ३ कण । ४ अहो अत्याहितं । ५ ततस्ततः । Page #89 -------------------------------------------------------------------------- ________________ ७६ विक्रांत कौरवे 'वानुषंगेण कलुषेतरमानसोन्मथनमन्थाः पंथाः । कुतश्चामून्यधीतानि परिहृतविवेकयंत्रणानि क्रोधोद्धतिस्वतंत्राणि वचांसि । सा खलु चक्षुष्मत्ता यदुत 'परपरिग्रहगर्हितेषु जनुषांधत्वं कलत्रेषु । सैव च श्रुतिमत्ता यत् किल दुर्दीतजनदुः प्रलपितेषु पुरुषस्योच्चैःश्रवत्वं । स खलु विक्रामति यस्य निसर्गदुमार्गप्रसंगमलीमसैरिंद्रियमलिम्लुचैर्न मुष्यते हृदयं । अभिजातजनहास्यता च भृशयति मानिनो यशस्विताम् । विगीता रणचुंबिता च विवृणोति पुंसामचातुर्यम् । किं च अमुष्मिन् राजर्षो प्रशमशमितस्वांतकुसृतौ न काशीनामीशे तव विगणनासौ गुणवती । पितुश्चैनं नान्यं कलयति मनस्वी तव पिता सुतानप्युद्वृत्तान्न च वृषभसूनुस्स सहते ॥ १० ॥ अपि च । का चेयं संभावना कौरवेश्वरे । सप्ताहं सप्तसप्तिस्थगनकुततमस्तोमविस्तारमग्ने मूर्चापरिप्लवेस्मिन् भरतप्रतिबले विक्लवे प्लाव्यमाने । वर्षतः संततांभः प्लुतिपिहितदिशः पुष्कलावर्तकाद्या येनैकेनाक्रियंत ज्वलनशरमुचा भस्मसात्कारकीर्णाः ॥ ११ ॥ अथ च - पुरस्सरणमात्रेण श्लाघ्यं चक्रं विशां प्रभोः । प्रायो दुःसाध्यसंसिद्धौ श्लाघते जय एव सः ॥ १२ ॥ सरलिका - दोणिं खु सो णिरवज्जो । तदो किं पडिपण्णं अक्ककित्तिणा प्रतीहारः - ततश्च निरवद्यवचः संतर्जनचरिते क्षत्रियसभे कौरवेश्वरशौर्यातिशयशंसन मसहमान: किमपि सावधीरण इव निरवद्यभाषिते रोष - १. इदानीं खलु स निरवद्यः । ततः किं प्रतिपन्नमर्ककीर्तिना । 1 Page #90 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । दूषितधीरर्क कीर्तिर्धीरनिष्ठुरमभाषिष्ट । अहो आर्यस्य कौरवयशः श्लाघनेो किमप्यनल्पीयः कवित्वं । पश्य कथमिव जलासाराकीर्णतूलौघतुल्याः क्षणविसरणशीला शाश्वतभ्रांतिलोलाः । श्वसनचलननुन्नाः शौर्यभोगावलीना प्रथममिह निधानं कौरवस्यांबुवाहाः ॥ १३ ॥ अथवा किमत्र चर्चया । ख्यातः पराक्रमिषु यद्यपि कौरवोसौ सत्यत्र युद्धनिकषेन गिरः प्रमाणं । आर्यस्तु पश्यतु तदस्य विशीर्यमाणं शौंडीर्यमाशु युधि शौर्यकथासमुत्थं ॥ १४ ॥ ७७ सरलिका:- केहं दुव्विणिदो विअ हत्थसिक्खपि ण गिदि । तदो तदो प्रतीहारः - अमुं च वृत्तांतमुपलभ्य महाराजैः कृतयथोचितकार्यपर्यालोचनो मम हस्ते स्वाभिप्रेतं निवेद्य मामेवार्क कर्तिर्निसृष्टार्थतया प्रस्थापित - वान् । गत्वा च ततोऽहं तत्प्रतीहारनिवेदितस्वागमनश्चक्रवर्तिसूनोः पार्श्वमुपसृत्य समुचितसमुदाचारपुरस्सरमवोचम् । युवराज महाराजस्त्वामाह विनीतो बाल्येपि त्वमसि पितुरेव प्रतिनिधिः परं प्रेक्षानिघ्नः प्रकृतिमनघां मास्म विसृज | परेषां पैशून्यान हि च वचनीयान्मलिनता कियद्वा भिन्नं मे भरत इति हेमाङ्गद इति ॥ १५ ॥ १ कथं दुर्विनीत इव हस्तशिक्षामपि न गृह्णाति । ततस्ततः । २ अकंपनः ३ विवेकाधीनः । Page #91 -------------------------------------------------------------------------- ________________ We किं अपि च । विक्रांतकौरवे अपि च । कुतोपि जन्मांतररूढवासना विबोधलब्धास्पदकौतुकेरिते । स्वयंवरेस्मिन्नलमन्यया धिया परोपि मुह्यन् भवता निगृह्यताम् ॥ १६ ॥ असिमषिकृषिविद्याशिल्पवाणिज्यवृत्तिः शिवपदपदवीमप्यन्ततो दर्शयित्वा । अवतमसि कृतोस्मिन् विश्वधाम्ना युगे प्रतिहतनिजवृत्तिर्मा कलिश्च प्रविक्षन् ॥ १७ ॥ इयं तनूजा मम रत्नमाला गुणाधिकं त्वां सदृशी गुणेन । अनन्यसाधारणभागधेयं वरं वृणीतां मदनुज्ञयैव ॥ १८ ॥ सरलिका - भेट्टिदारिअं रअणमालं जुवराअअक्ककित्तिणो पडिच्छंतेण सुविहिदं महाराण | प्रतीहारः-ततश्च लब्धावसरो निरवयः पुनरवोचत् । तदिदमिदानी - मदीनमाना दीनवमावेदितं महाराजेन यतः संप्रतिपत्तिरेव युवराजस्योत्तरमिति सरलिका -दो तदो । प्रतीहारः -- ततश्च सोल्लुंठं कथितमर्क कीर्तिना । आस्तामार्थस्य प्राड् १. भर्तृदारिकां रत्नमालां युवराजार्ककीर्तेः प्रतीच्छता सुविहितं महाराजेन । २ ततस्ततः । Page #92 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। rrrrrrrrrrr विवाकतेति । मां चोदिश्य कथितं । अरे योग्यः प्रतिभाति काशीपतिः साधु शिक्षायितुम् । स्वयंवरव्यतिकरे यौष्माकीणस्य भूपतेः। संकेतकूटनिष्कस्य साध्वी कूटस्थतापि सा ॥ १९ ॥ किंतु संघानमातसंधानमिति द्वे इमे न क्वापि संभावितेवऽतिछेते । ततश्चप्रयुंजानो मोहात्कपटमिममस्मास्वनुचितं नृपालो युष्माकं फलमुचितमस्यानुभवतु । अयाथातथ्योत्थस्वगुणघटनोत्तेजितमदः शरव्यः कौरव्यः स भवतु शराणां मम युधि ॥ २० ॥ सरलिका--केहं पुणोवि सों एव्व सिद्धंतो। प्रतीहारः--ततश्च निरवद्य इदमवोचत् । युवराज आतिकांतोसि । शिक्षेयं किंचिच्छ्रयताम् । साक्षादास त्वं भरतस्य सूनुरायस्य पुंसोपि तृतीय एव । तन्नार्हसि त्वं मनुवंशकेतोः स्रष्टुं युगस्याविनयप्रतिष्ठाम् ॥ २१ ॥ किंच। त्वं काशिराजस्य सुतां यदिप्सुः सतापि तुभ्यं प्रतिपादितैका। मा सैनिकास्ते कुशला युधीति मंस्थाः प्रभूतः कुरुकाशिवर्गः ॥ २२॥ इति । १ कथं पुनरपि स एव सिद्धांतः । Page #93 -------------------------------------------------------------------------- ________________ ८. विक्रांत कौरवे सरलिका-तदो तदो। प्रतीहारः-ततश्चार्ककीर्तिः ससंरंभमवोचत् । यथा आर्य अस्त्येवैतत्। किं तु। नाहं सुलोचनार्थ्यस्मि क्षात्रो धर्मस्तु पाल्यते। तातस्यापि न विद्वेषो निग्रहे कूटकारिणाम् ॥ २३ ॥ अथ च । द्वैधीभावं भजतु सहसा संहतो राजवर्गः कामं वासौ पततु निखिलः शात्रवे पक्ष एव । किं नश्छिन्नं ननु रिपुशतोन्माथकीनाशदण्डौ सन्नद्धौ मे समितिषु भुजावेव साहाय्यकाय ॥ २४ ॥ ततश्च जयावाप्त्युद्भूतप्रमदभरसंवर्धितमदं मदीयं पादांतं सपदि समरे पश्यतु भवान् । कुरूणां तत्सैन्यं जयविरहदैन्यप्रतिहतं । . जनः स्वैरं शोचत्वविनयफलास्वादचकितम् ॥ २५ ॥ सरलिका-अहो कक्कसदा सहावस्स । तदो तदो।। प्रतीहारः ततश्च निरवद्यः सानुशयविशादमेवमवादीत् । धिक्कष्टं । लघुकृतोस्मि दुर्विनीते मामटीकुर्वता चक्रवर्तिना । यदमुना बहुधापि शिक्षितेन जितकाशिता केवलं प्रकाशितेति । अर्ककीर्तिना पुनर्दत्तमुत्तरं न केवलं मे जितकाशितैव, कुरूनपि जितानेव विद्धि इति । सरलिका-हं चक्कवट्टितणओ एव्वं कुप्पेदित्ति जं सच्चं अच्चहिदं संकेदि मे हिअअं। १ ततस्ततः । २ अहो कर्कशता स्वभावस्य । ततस्ततः । ३ हंत चक्रवर्तितनय एवं कुप्यतीति यत्सत्यमत्याहितं शंकते मे हृदयं । Page #94 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। ८१ प्रतीहारः-अलमत्र तावत् शंकया सोपि मेघेश्वर एव । सरलिका-णे आणामि दुव्वंचिआ अत्थ संधी करोढुं। प्रतीहारः-इत्थं च विग्रहैकरुचौ प्रत्यवस्थिते चक्रवर्तिसुते मिरवयः सनिर्वेदनिश्वासमुत्थाय चिंतावेगमूक एव निरगमत् । सरलिका-तदो' तदो . प्रतीहारः-अहं च तूष्णीक एव निर्गच्छंतं निरवद्यमन्वयाशिषम् । सरलिका-तदो तदो प्रतीहारः-निर्गत्य च निरवद्येन लेखार्पितेनैतदृत्तांतेन त्वरितवियल्लंधनजंघालं विद्याधरदूतद्वयं तत्क्षणमेव चक्रवर्तिनः पार्श्व प्रस्थापितम् । मयाप्यागत्य यथा वृत्तं सर्वमेतन्महाराजं निवेदितम् ।। सरलिका-तदो तदो। प्रतीहारः-श्रुत्वा च महाराजः क्षणमिव स्तिमितःस्थित्वा सनिर्वेदमवादीत् । कष्ट भो संकटे पतिताः स्मः। सुतः कुरोरेकतरस्तयोर्द्वयोः परः पुरोरेव सुतस्य नंदनः। द्विषद्भवेयं कतरस्य वत्सयो वरं तदत्राप्रतिपत्तिरेव नः॥ २६ ॥ सरलिका-तोरिसं खु तारिसाणं हिअअं। प्रतीहारः-आज्ञापितश्चाहं महाराजेन । भो महेंद्रदत्त किंबहुना। दैवमेवात्र स्वमनीषितमाचरतु । तदिदानी मद्वचनाद्वत्सं हेमांगदं ब्रूहि । निष्क्रांतेषु संग्रामाय विग्रहव्यग्रेषु राजपुत्रेषु सार्यतां पुरमार्गेषु दुर्गरोधप्रतिहतारिप्रपंचाः पांचालिकाः। रक्ष्यतामारक्षिकैः स्थिरावस्थानानि गुल्मकस्थानानि । निखिलीक्रियतां निखिलानि पुरद्वाराणि । दुर्विभेदा व्यतिकीर्य १न जानामि दुवैचिता अत्र संधीःकर्तुम् । २ ततस्ततः । ३ ततस्ततः । ४ ततस्ततः। ५ तादृशं खलु तादृशानां हृदयम् । Page #95 -------------------------------------------------------------------------- ________________ : विक्रांतकौरवे न्तां सुदृढमर्गलांडाः । प्रगुणीक्रियतां गाढतरसंघट्टा अट्टालिकबंधाः । प्रवेश्यतां च प्रतोलीमुखेषु विशिखांतरेषु च सन्नद्धयौधाधिष्ठितास्संनाह्या गंधहस्तिनः । प्रवर्त्यतां च राजमार्गेषु संरब्धाश्ववाराणि दंशितगात्राण्यश्वीयानि । स्थाप्यतां च चत्वरेषु प्रयोग्ययुग्ययोजिताश्चतुरधीसारथीसनाथा रथाः । नियोज्यंतां च परितः परिहृतविपत्तयः । परिहार्यतां च सुसंनद्धेनांत शिकजनेन राजगृहबाह्याली स्वयं च वस्तेन वाराणसीरक्षणे यावत्समराव सानं सावधानेन भवितव्यमिति । ८२ ( नेपथ्ये, कलकलः । ) सरलिका - किं दाणिं एदं । प्रतीहार:संप्रति हि । रसति समरभेरी भैरवारावधीरं चलितनृपतिसंख्योद्योगशंखा ध्वनंति । प्रसरति च चमूनां ग्रस्तरोधोन्तरालः कलकलनिनदोऽयं काहलध्वानगर्भः ॥ २७ ॥ सरलिका - जांव इमं उत्तत्तं पिअसहीए णोमालिआए णिवेदेमि । प्रतीहारः - यावदहमपि युवराज हेमांगदाय महाराज नियोगं निवेदयामि ( परितो विलोक्य ) अहो महती समरयात्रा | तथाहि ( विभाव्य ) कथं प्रचलितमेव संग्रामाय राजन्यकेन । विदधति नृपतीनां विश्वतोप्यश्नुवाना धरणिमनवकाशां निष्पतंतो ध्वजिन्यः । विदधति रणनाट्यप्रेक्षकाणां समंताद् गगनमपि विमानान्यद्य वैमानिकानाम् ॥ २८ ॥ ( निष्कांती ) १ किमिदानमितत् । २ यावदिमं वृत्तांतं प्रियसख्या नवमालिकाया निवेदयामि | Page #96 -------------------------------------------------------------------------- ________________ 'चतुर्थोऽङ्कः । मिश्रविष्कंभः । GO (ततः प्रविशति आकाशयानेन विमानारूढो रत्नमाली मंदारमाला पार्श्वतो मन्थरकश्च ) रत्नमाली - प्रिये मंदारमाले चिरादुपस्थितमेतदतर्कितहेतुकं नः कौतुकं । कुतः । एको जयः प्रगुणविक्रमलब्धकीर्तिमनग्रहग्रहिलधीरपरोऽर्ककीर्तिः । तस्मात्फलिष्यति तरामनिमेषतैषा संप्रेक्ष्य युद्धमिह कौरवपौरवीयम् ॥ २९ ॥ ८३ मंदारमाला - देवे कुदो खु णिरवज्जरज्जाणिव्वहणाणिग्गहिदसअललोअविग्ग पलाअंतेवि भारदवरिसं अप्पडिहदचक्केवि चक्कवट्टिभरहे ईरिसाणं दुव्विणीआसंगसुलहाणं परक्कमो राअउत्ताणं । मंथरकः – किं कैरोदु एत्थ महाराअभरहो सहावदुव्विअत्थाणं सअं वा देवो भारदवरिससिहामणिं केलाससेलं अहिवसंतो । रत्नमाली - एवमेतत् । वैयात्यं सहजं नृणां दमयितुं नैवापरैः पार्यते भुंजन भारतवर्षमद्य स हि किं कुर्यादिमानीश्वरः । पश्य स्थाणुरपि श्रुतीरुपदिशन्नास्थाय दिव्यां सभां कैलाशाचलमौलिम भगवानध्यास्त एवेश्वरः ॥ ३० ॥ १. देव कुतः खलु निरवद्यराज्यनिर्वहणनिगृहीतसकललोक विग्रहे पलायत्यपि - भारतवर्षमप्रतिहतचक्रेपि चक्रवर्तिभरते ईदृशानां दुर्विनीतासंग सुलभानां पराक्रमो राजपुत्राणां । २ किं करोत्वत्र महाराजभरतः स्वभावदुर्विदग्धानां स्वयं वा देवो भारतवर्षाशखामणि कैलाशशैलमधिवसन् । Page #97 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे मंदारमाला - किं बेहुणा आरोविदा सोहग्गस्स अंतिमतुलं अकंपणसोवासिणी । ८४ मंथरकः -- देवं दक्ख दक्ख कत्थइ णिरंधसरअसम अतुरअणिअरकठोरखुरघादखंडणवडिदा कत्थइ समंददो सरभसचलंतविअडगुडिअगंधसिंधुरणिवहचलणचंपडणसमुप्पइआ । कत्थइ निरंतर चरंतपाइचक्कपअपरिबट्टणसमुद्विदा । कत्थइ अविच्छिण्णगच्छंतसंदणचक्कुक्केरकंडणविवढिदा अंधावे महीअलवलोडिदा सअलं वि दिसावलअं मज्जदूली जालोली । रत्नमाली - ( विलोक्य ) चमूविमर्दक्षतभूतलोत्थितो रजीकृताशेषदिनेशदीधितिः । रजःप्रतानः प्रगुणं प्रकाशयन् ॥ ३१ ॥ ( ? ) किंच | ख्यातः पूर्वं जगति समरो मत्कृते भूपतीनां कांचित् कन्यां प्रति रणमिदं तद्यशो मे प्रमार्ष्टि । इत्युद्भूतात् प्रकृतिसुलभात् स्त्री नु सा यत्नवैरात् कापि क्षोणीघनतमरजश्छद्मना गच्छतीव ॥ ३२ ॥ मंदारमाला -- अँहो को एत्थ अक्ककित्ति को वा कोरवेसरो । १ किं बहुना । आरोपिता सौभाग्यस्यातिमतुला मकंपनसुवासिनी । २ देव पश्य पश्य कुत्रचिंन्निरंध्रसरय समदतुरग निकर कठोर खुरघात खंडनवर्धिता | कुत्रचित्समंततः सरभसचलद्विकटक्रूरगंधसिंधुर निवहचरणसंमर्दसमुत्पतिता । कुत्रचिनिरंतरचरत्पदातिचक्रपदपरिवर्तनसमुत्थिता, कुत्रचिदविच्छिन्नगच्छत्स्यंदनचक्रोत्करकर्षणविवर्धिता अंधापयति महीतलप्रलुठिता सकलमपि दिशावलयं मध्यधूलीजालालिः । ३ अथ कोत्रार्ककीर्तिः को वा कौरवेश्वरः । Page #98 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। . ८५ रत्नमाली-नन्वयमागतः सर्वमेतद्विदित्वा वाराणसी प्रति प्रहितो मंदरः। (प्रविश्य ) मंदरः-जयतु देवः । रत्नमाली-अयि मंदरक किमधिगताखिलप्रवृत्तिरसि। . मंदरः-देव सर्वमेव विदितं मे कर्तव्यं जनस्य । रत्नमाली-तेन हि शृणुमः । मंदरः-देव किं बहुना। जित्वा कौरवमाहवे नृपसुतां हर्तु प्रतिज्ञातवान् औद्धत्येन स पौरवः शमयितुं तस्योद्धति कौरवः। द्वैतेस्मिन् प्रशमी स काशिनृपतिः प्रोज्झन् द्वयोः पक्षतां संप्रेक्ष्यात्मन औचितीं दुहितरं रक्षनू पुरेऽवस्थितः॥ ३३ ॥ रत्नमाली-अहो जामातृत्वमपि कौरवेश्वरस्य नावेक्षितं माध्यस्थैकरुचिना काशीपतिना । अथ सर्वमन्यद्राजकं कथमवृतत् । अथवा किमत्र प्रश्नेन । न खलु हातुं प्रभवंति चक्रवर्तिसूनोः पक्षतां सर्वेप्युर्वीभृतः। मंदरः- एवमेतत् । किंतु एक उज्जयनीपतिर्जयंताश्चरविरूढसौहार्दचोदितः कौरवस्य पक्षतां प्रत्यवादि। ' रत्नमाली-बलीयो हि प्रभविष्णुताया अपि सौहार्दम् । मन्थरकः-अथ किं पडिवण्णं विज्जाहरेहिं । मंदरः विशां प्रभोरात्मजमर्ककीर्तिपैतृष्वसेयं सुनमिः प्रपन्नः । मेघप्रभोऽभूत्पविचिंत्य मातृवस्त्रीयतामस्य जयस्य गृह्यः॥ ३४॥ १ अथ किं प्रतिपनं विद्याधरैः । Page #99 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे रत्नमाली--युक्तमेतत् । क पुनरन्ये । मंदरः स यत्राभूद्विद्याधरमुकुटसंघट्टकषणकणत्पीठीकोणस्सुनमिरधिपो राजतगिरेः। उदीच्यो भूपोपि त्वरितमथ संभूय सकल स्तदायत्तस्तत्तत्वयमजनि विद्याधरजनः ॥ ३५ ॥ रत्नमाली–तदप्युपपन्नम् । मंदरः-ततश्च सर्वेपि निर्वाणारस्यः समासाद्य समस्थिरा निरुत्वातिनीमप्पंककंटकादिदूषितां युद्धभूमिं सुविभक्तकक्षपक्षोरस्यान्यनीकानि व्यूह्यामी संप्रस्थिता । पश्यतु च देवः । चक्रव्यूह विभज्यास्ते योसौ रथमधिष्ठितः । स चक्रवर्तिनस्सूनुरर्ककीर्तिः पराक्रमी ॥ ३६ ॥ विभज्य मकरव्यूहं योसौ स्यंदनमास्थितः। स कौरवो जयः कात्या साक्षान्मकरकेतनः ॥ ३७॥ इतोपि । विभज्य गरुडव्यूहमध्यास्ते सुनमी रथम् । मेघप्रभोऽमुं व्यूहेन दुर्जनं विजिगीषते ॥ ३८॥ इतोपि। सुकेतुः प्रविभज्यास्ते व्यूहं पारिपतंगकम् । तं व्यूह्य सर्वतोभद्रं जयंतो विजिगीषते ॥ ३९ ॥ मंथरकः-कह इमेहि समआलवज्जतकंसिकंसालजअघंटिसंखसिंग १. कथमेताभ्यां समकालवाद्यमानकांस्यकांस्यतालजयघंटाशंखशृंगकाहलतुर... तुरीडमरुकढिमिलडिंडिममर्दलदुंदुभिकरडपटहहुडं कुडुं ढक्का भेरी भंगाप्रभृति भूरि Page #100 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । ८७. काहला तुरुतुरीडमरुअडिमिलडिंडिममद्दलदुंदुभिकरडपडहहुड्कुटुंडुक्काभेरीभंगापहुदि भूरिवज्जभंडतुमुलकोलाहलवहलणिग्योसणिव्विग्धविअणडिअकोऊहलपेल्लिदेहिं झडंति डक्किअसअलगअणाभोअपेरंतो परोप्पराहि विमुक्को दुवेहि बलेहि संगामणाडअपुवरंगकुसुमंजलिसरणिअरो। मंदरः-देव पश्य पश्य । निशितधवलधारास्तिग्मरोचिर्मरीचिप्रतिफलितफलांतावेगदी?पलब्धाः । निविडमभिपतंतस्संततोल्का कराला गगनमनवकाशं पत्रिणश्चित्रयंति ॥ ४० ॥ (विलोक्य) कथमधुना इषूणामन्योन्यप्रतिहतिषु लब्धप्रसृतिभिः स्फुटज्योतिश्चक्रस्खलनविनिकीर्णोड्डरुचिभिः । स्फुरंतीभिः प्लोषग्लपितशरपक्षाभिरभितः स्फुलिंगाभियोमस्फुटमनलवृष्टिं नटयति ॥४१॥ मंदारमाला-कहं दाणिं सरसहस्सवारिदसत्तिपाससंघट्टभीसणो चलंतदोघंटघडाकरालो पअदृततुरअच्छटभअंकरो ओवडंतसंदणसंदोहभआणवो बट्टेदि रोमहस्सणो जुद्धसंमद्दो । वाद्यभांडतुमुलकोलाहलवहलनिर्घोषनिर्विघ्नोत्पादितकौतूहलप्रेरिताभ्यां झटिति स्थगितसकलगगनाभोगपर्यंतः परस्पराभ्यां विमुचो द्वाभ्यां बलाभ्यां संग्रामनाटकपूर्वरंगकुसुमांजलिशरनिकरः । १ कथमिदानीं शरसहस्रवारितशाक्तपाशसघंभीषणः पलद्विषघटाकरालः पर्यटत्तुरगच्छटाभयंकरोऽवपतत्स्यदनसंदोहभयानको वर्तते रोमहर्षणो युद्धसंमदः । Page #101 -------------------------------------------------------------------------- ________________ ८८ विक्रांतकौरवे मंदर: अयमिह सुभटानां शौर्यसारोद्भटानां रणरसरसिकानां वर्तते बर्धते च । शरशतविनिपातक्षुण्णसर्वाभिसारः प्रचुरसमभिहारस्सांप्रतं संप्रहारः ॥ ४२ ॥ मंदारमाला - अम्हो भीसणाद संपराअस्स । रत्नमाली - कथमुदग्रसंपेटकठोरः संग्रामः । तथाहि । क्षुध्याघूर्णय कुट्टय क्षिपदहव्यारंध संधानय भिंधि छिंधि मथान ताडय जहि व्यावर्तयापातय । विद्वास्फालय भंज रुंधि विकर व्याकर्ष घर्षोद्धरेत्येवं प्रायमिहोच्चरद्वच इदं व्याजायते व्योमनि ॥ ४३ ॥ मंदैरः- नन्वेष स्वयंवरकलहोपदेशप्रथमोऽध्यायः कुलूतेश्वरो दुर्मर्षणोसौ । ख्यातः संख्यपटीयसां मुखपटीमुत्क्षिप्य दत्वा प्रियव्याहारानधिमस्तकं करतलास्फालेन संभावयन् । संग्रामावसरप्रधाननिविडश्चोतन्मदश्चोतसं सोत्सेको ज्वलितांकुशः करटिनं प्रोत्साहयत्याहवे ॥ ४४ ॥ अहोस्य पराक्रमप्रक्रमः । ययनुरूपमस्य निर्वहणमपि स्यात् । भोः पश्य पश्य । चरात युधि विलोहिताननत्विषमधिरुह्य कुल्लूतभूपतिः । १ अहो भीषणता सांपरायस्य । २ अस्मात्पूर्व मंथरकस्योक्तिः प्राकृतभाषायां भवनीया तस्याः पाठो त्रुटितः परं संस्कृतच्छायैव प्रकाश्यते - " अथ क एष प्रक्षरद्दानसलिलनिर्झरदुर्दिनं विंध्यशिखरसमुत्तंगदीर्घा प्रतिपक्षसैन्यरुधिर द्विगुणशृंगारितोज्ज्वलांगं मातंगमारूढोऽवधीरितदुःखवेदनोऽर्ककीर्तिबलस्याप्रेसरो भवति ” । Page #102 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। ८९ हरितमलघु सत्त्वमुन्नतं पवनजवं गजमांगरेवकम् ॥ ४५ ॥ मंथरकः-को एस जिण्णखंभदीहरपरुससुण्डादंडसहेलाअट्टसम्मदिदसेंधवाणिवहं चप्पपाअपीडणमड्बृत्तिअपाइक्कं रहसपहं जणहत्थिदहत्थिजूहं गंधगइंदं आरूढो कुलूदेसरं अभिजुज्जदि । मंदरः—एष खलु कौरवेश्वरशरीरनिर्विशेषो नंद्यावर्तो नाम प्रियसखः ॥ रत्नमाली-अहो नंद्यावर्तस्य कृतहस्तता । तथाहि । मूनः स्फोटयति द्विषां क्षिपणिभिलोहान् क्षिपन् गोलकान् कुंतैः कृतति शक्तिभिर्विशसति प्रासैविपर्यस्यति । पर्यायेण करद्वयार्पितधनुर्विष्वक शरान वर्षति व्यूहानेष विसास्थया विघटयन विक्राम्य विभ्राम्यति॥४६॥ मंदरः-देव पश्य पश्य । ततश्चाब्दच्छायं प्रथनचतुरं भूरि परितः । स्रवंतं स्रोतांसि प्रवलमखिलश्रांतिसहनम् । असौ नंद्यावर्तस्त्वरयति कलिंगोद्भवमिभं कुलूतानामीशं प्रसभमभियोक्तुं प्रकुपितः ॥४७॥ मंथरकः-कहं दूरदो एब्व णंदावत्तकरविमुक्केण विद्धो वाणेण कुलूदेसरस्स दाहिणो भुअसिअरो। १ क एष जीर्णस्तंभदीर्घपरुषशुंडादंडसहेलार्पणसमर्दितसैंधवनिवहं विशालपादपीडनमर्दितपादातिकं रसप्रभंजनमर्दितहस्तियूथं गंधगजेंद्रमाकडः कुलतेश्वरममियुध्यते २ कथं दूरत एव नंद्यावर्तकरविमुक्तेन विद्धो वाणेन कुलूतेश्वरस्य दक्षिणो भुजशिखरः। Page #103 -------------------------------------------------------------------------- ________________ ९० विक्रांतकौरव मंदरः- दव पश्य पश्य । रिपुशरमुखखंडिताद्भुजात् समरखरस्य कुलूतभूपतेः । क्षरति रुधिरपूर्णसारणी सृतिरिव वीररसस्य निस्सृता ॥ ४८ ॥ मंथरकः —— कहं अण्णपेक्खिदवाणघादेण परोप्परदंतर्भाडण खडक्कारमुहरं झडत संघटदो गओ णंदावत्तगएण । रत्नमाली - हंत भोः । प्रहतो यो मुखार्द्दतानंद्यावर्तस्य दंतिना । दंती सीदति कौलूतं ह्रेपयन् खर्वितापरः ॥ ४९ ॥ मंदारमाला -- हेत्थि पाडिदो एव्व एसो हत्थिसामंतेण । मंदरः—आशंसोचितमेव लब्धं कौलुतेन । श्रूयतामस्य युयुत्सोः सोत्से कं वचः । अवश्यं कर्तव्यं कतिचिदतिवाद्यापि दिवसानलं विद्युल्लेखाविलसितविलोलैः कदसुभिः । प्रभूतं क्रीणंतु प्रथनविपणौ विक्रमपणैयशस्थास्नु ज्योत्स्नाशुचि रणरुचि व्यग्रमनसः ॥ ५० ॥ मंथरकः - तेण हि सुड्डु णिउऊढं इमिणा णं उइअं । मंदरः — देव पश्य पश्य । - भूयिष्ठमग्निशरसंचयसंततांगः शेते करी रदनरुग्णधरः परासुः । १. कथमनवोक्षतवाणघातेन परस्परदंतोत्पीडनकटात्कारमुखरं झटिति संघटितो गजो नंद्यावर्तगजेन । २. हंत पातित एव एष हस्ती सामंतेन । ३. तेन हि सुषु निघूढनेन ननूचितम् । Page #104 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । विभ्रच्छरीरमधिकोच्छ्रितिकोप्यपूर्वः सर्वांगसंगशललः शलली यथैव ॥ ५१ ॥ ---------- मंथरकः —–— अंह को एस गमणजवेण सव्वदो संगरंगणं दीसंत आजाणअं तुरगरअणं आरूढो करालकरवालवावडकरो अक्ककित्तिबलंलोलावेदि । मंदरः - अयमपि विशारदनामा नंद्यावर्तसमः कौरवेश्वरस्य । रत्नमाली - किं नाम दुष्करमनयोस्सुहृदा कौरव्येण । मंदरः ९१ भुजाविमौ द्वौ कुरुनंदनस्य सुदुर्जयौ विक्रमसूत्रधारौ । स्वयं गृहीताहवचेष्टिताभ्यामाभ्याममुष्याह्रियते युयुत्सकाः ॥ ५२ ॥ रत्नमाली – अहो श्लाघनीयं शौर्यचातुर्यकं विशारदस्य । अस्य हि छिनत्ति स्वच्छंद सरसकदलीच्छेदमधुना तुरंगान्मातंगान् प्रचुरमभितोपि प्रतिभटान् । किरन पेशीराशास्वभिहतिरटत्की कसततीनृशंसो निस्त्रिंशस्त्रिदशयुवतीत्रासरसद्ः ॥ ५३ ॥ मंथरकः - अंध को एस अप्पडिहदगइपसरं गंधवारणं पेल्लंतो विसारदं अभिजुज्जदि । १. अथ क एष गमनजवेन सर्वतस्संगरांगणं दृश्यमानमाजानेयं तुरगरत्नमारूढःकरालकरबालव्यापृतकरः अर्ककीर्तिबलं लोलापयति । २. अथ क एष अप्रति-इतगतिप्रसरं गंधवारणं प्रेरयन् विशारदमभियुध्यते । Page #105 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे मंदरः - एष दाशार्णः संकर्षणः । पश्यतु देवः । महामोदमदं युद्धसहमारुह्य पीवरम् । दाशार्णोऽभ्येति दाशार्ण गजं वाजिपुरोषणं ॥ ५४ ॥ ९२ AAAA मंथरकः - केहं दूरदो एव्व विसारदेण संकरिसणगअं उद्दिसिअ विमुको अंतजीहादीहरो पासो । मंदरः - हंत भोः । मग्नेन निर्याणपथे स दंडप्रासेन भिन्नः प्रथमः प्रभिन्नः । प्रयाति निर्याणमसौ विनिघ्नन दंती दशार्णाधिपतेर्मदांधः ॥ ५५ ॥ मंथरकः- हैद्धि हद्धि | रत्नमाली - कथमुपेक्षित एवं विशारदेन वाहनविकलो दशार्णवः । साधुविशारद साधु मानभरोद्वहनवैवधिकोसि । मंथरकः - अथ को एस अवरो गंधगआहिरूढो तं एव विशारदं अभिजज्जदि । मंदरः - एष सौराष्ट्रौ भीमः । मंदारमालाः- हर्द्धि हद्धि अजगर भोगभीमेण सुंडादंडेण वेडिदो विसारदतुरंगमो भीमगईदेण । रत्नमाली - अहो विशारदस्य वैशारद्यम् । १. कथं दूरत एव विशारदेन संकर्षणगजमुद्दिश्य विमुक्तः कृतांतजिव्हादीर्घः प्रासः । २ हा धिक् हा धिक् । ३ अथ क एषो अपरो गंधगजाधिरूढस्तमेव विशारदममियुध्यते । ४ हा धिक् हा धिक्, अजगरभोगभीमेन शुंडादंडेन बंधितो विशारदतुरंगमो भीमगजेंद्रेण । Page #106 -------------------------------------------------------------------------- ________________ अनेन हि चतुर्थोऽङ्कः । खगेन हेलोद्भमितेन पद्मकांडांकुरच्छेदन निर्विबंधम् । आमूलमालूनसवंतहस्तो भीमस्य हस्ती विहतो विहस्तः ॥ ५६ ॥ मंदरः—कथं मुक्ताक्रंदनमसौ परिवृत्य प्रपलायते । देव पश्य पश्य । 1 सौराष्ट्रस्यैष सौराष्ट्रः करी लघु पलायते । बलवानपि संग्रामे हीनः शिक्षापराङ्मुखः ॥ ५७ ॥ मंथरकः - अंध को एसो आअच्छदि पिव चंडणअरपरिहगुरुअदंतग्गलं असिथिलमांसलंगं परक्कमकक्कसं एरावदसरिसं चेदिकरूसं गअं आरूढो कारवबलं अलंकरेदुं । मंदरः असौ कुरूणामनवग्रहश्चरन् निरंमदो नाम पताकिनीपतिः । ९३ उदेति मेघेश्वर एष संमदं दधन विभिदन प्रतिपक्षभूभृतः ॥ ५८ ॥ मंथरकः - की इमो पडिहदपडिपक्खमणरहं रभसतुलिदपसरहं रहं आरूढो इमं अभिजुज्जदि । मंदरः - एष खलु बाहुबलिसूनुर्महाबली । १. अथ क एष आगच्छतीव चंडनगरपरिघगुरुकंदतार्गलमशिथिलपांसलांग पराक्रमकर्कशमैरावतसदृशं चेदिकरुशं गजमारूढः कौरवबलमलंकर्तुम् २. क एषः प्रतिहतप्रतिपक्षमनोरथं रभसतुलितपत्ररथं रथमारूढ इममभियुध्यति । Page #107 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे रत्नमाली विमतमथनक्रोधाविष्टं विशंकटकंकटस्थपुटघटितस्फीतोरस्कं गृहीतशरासनम् । शरधिपरिणद्धां सप्रांतं कृतांतभयंकरं वपुरिदमहो श्लाघ्यं वश्यां करोत जयश्रियम् ॥५९॥ मंदारमाला-हेद्धि हद्धि । णिवडपसरणिरंतरओगाहिअअउव्वलहिअमवाउरा सारिच्छाहिं संछण्णो कुमारेण कोरवसेणावइस्स वारणो वाणधाराधोरणीहिं। __ रत्नमाली-अहो प्रागल्भ्यमस्य करिणः । निबिडमभिपतंतीं बाणवृष्टिं प्रतिच्छन् सरभसमुपपद्य क्रोधनिबंधरौद्रः। . सरथितुरगसूतं शुंडयोत्क्षिप्य तूलो च्चयमिव रथमेषः क्षिप्तवान् वारणेद्रः ।। ६० ॥ मंथरकः-अहों अच्चरं एसो खु सहसत्तिरहादो लहु पडिय विवत्तो धणुलहिं अवहव्विअ सुसंठिदो महीवहे कुमारो। मंदारमाला--दिौडआ अक्खदसरीरो कुमारो। मंदरः-कथमिरंमदद्विरदनोपि सर्वागिसंगिसायकप्रोतशरीरः प्रहारमूछितः प्रसार्य पूर्वकायं भूमौ निषण्णः । : मंथरक-कहं इमो दिण्णरत्तचंदणथासअभूसिदंगो ओदिण्णो खंदादो सिंधुरस्स। १. हा धिक् हा धिक् । निविडप्रसरनिरंतरावगहितापूर्वयष्टियमवागुरासदृक्षाभिः संछन्नः कुमारेण कौरवसेनापतेरिणो वाणधोरणीभिः । २. अहो आश्चर्यमेष खलु सह शक्तिः रथाल्लघु पतित्वा विवलान् धनुर्यष्टिमवष्टभ्य सुसंस्थिलो महीपृष्ठे कुमारः। ३ दिष्ट्या अक्षतशरीरः कुमारः। ४ कथमेष उदीर्णरक्तचंदनस्थासकभाषितांगोऽवतीर्णः स्कंधात् सिंधुरस्य । - Page #108 -------------------------------------------------------------------------- ________________ चतुर्थाऽङ्कः रत्नमाली - - द्वयोरपि वाहनभंग इति कृतमेतत् । मंदर: सप्तच्छदामोदसखं मदांभः शिलीमुखाः कामवपुः परासोः । तानद्य निर्धाट्य कटांतलग्नान् शिलीमुखास्तीक्ष्णमुखाः पिवंति ॥ ६१ ॥ रत्नमाली - अथ परस्परमयुंजाते सवयस्कौ राजकुमारौ । मंदरः - देव ! कावेतौ प्रजविवाजिष्पृष्ठाधिरूढौ समरसंमर्ददुर्दमौ ९५ अर्क कीर्त्यवरजस्तुरगस्थः स्थैर्यशौर्यसदृशं तुरगस्थम् । संजयंतमजितंजय एनं कौरवानुजमसावभियुक्ते ॥ ६२ ॥ रत्नमाली - न परस्परं हीयते रणकर्माणि कुमारौ । मंदरः – देव इतः पश्यतामन्यदाश्चर्यम् । अन्योन्याघातभग्नस्थिररदनमुखौ संसृजत्पूर्वकायावष्टंभस्तब्धवेगौ समतुलितबलौ यंतॄणासक्तहस्तौ । मर्माविच्छस्त्रवक्रक्षतिमथिततनू प्राप्य विक्रांतिकाष्ठाariat दंतिनौ द्वौ कथमनिपततौ तिष्ठतोऽमुहूर्तम् ॥ ६३ ॥ इतः पश्य । मर्मसु हता अपि शूराः प्रायोपगमन मनिच्छवः केचित् । धीराः स्वर्गं वीराः प्रापन् प्रायोपगमनेन ॥ ६४ ॥ मंदारमाला – हण्डे मंदरअ । निरंतरुप्पइअखुरप्पकडप्पपसप्पणगुत्तण. १. सखे मंदरक निरंतरोप्ततितखरप्रसमूहप्रसर्पदुव्यन्नभःस्थलदुः प्रेक्षोऽप्रतिहतरर मधिरथमधिरुह्यार्ककीर्तिबलं चमत्कुर्वन् किमेष कुमारजयंतः । Page #109 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे हस्थलदुष्पेक्खो अप्पडिहदरअं अहिरहं अहिरोहिअ अक्ककित्तिबलं चमकरतो किं एस कुमारजअंतो। मंदरः- एवम् । अवेहि सैन्यं द्विषतां जयंतममुं मघोनस्तनयं जयंतम् । न व्यज्यते यस्य जवादिषूणामाधानसंधानविमोक्षकालः ॥६५॥ रत्नमाली–अहो उग्रता समरकर्मण्युग्रकुलकुमारस्य । मंथरका-किं ऐस आणिहिदअहाविदवाणतंटसंघटखंडिदवइरिसरा सारो तिहुअणेक्कल्लरहिओ इमं अभिजुज्जतो कुमारसुकेदू । मंदरःअवेहि विद्वेषिभयैकहेतुममुं सुकेतुं हरिवंशकेतुम् । द्विषां करोत्याशु विलक्षतां यः शरैः शितानामपि तच्छराणाम् ॥ ६६ ॥ रत्नमाली-मन्ये नामू परस्परस्य जेतुं प्रभवतः । मंदरः-इतो दृश्यतां छलबहुलं वैद्याधरं युद्धं । एष खलु लोहार्गलाधिपतिरनर्गलचोद्यमानवातमीप्रतिममहाजवतुरंगमोह्यमानमधिरूढस्यंदनमभिषेणयति विद्याधराधिराजमधिरथं सुनमिम् । मंदारमाला-कह एक्कदो सव्वोवि विज्जाहरलोओ एक्कदो अ एकल्ल. मेहप्पहो । हद्धि हद्धि किं एत्थ होहिइ। १. किमेषोऽनिष्ठितप्रस्थापितवाणाग्रसंघट्टखांडतवौशिरासारस्त्रिभुवनैकरथिकः इममभियुध्यन् कुमारसुकेतुः । २. कथमेकतस्सर्वोपि विद्याधरलोक एकतश्चैको मेघप्रभः । हा धिक् हा धिक् किमत्र भविष्यति। Page #110 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। ९७ · मंथरकः-केहं समसंधाणमुच्चंतहेदिणिवहकवलिदसअलादिसाअक्को विमुक्ककिलकिलासहमहुरं झत्ति वद्दरिदं विज्जाहराणं बलं हिअडअंतो णमिणंदणं एव्व आहिजुज्जाद मेहप्पहो । रत्नमाली–अहो स्थैर्य वीरवतचर्यायां मेघप्रभस्य । मंदरः-किमुच्यते। चरत्यमुष्मिन् बलशौर्यविक्रमैन राजते कश्चन राजते गिरौ। हरौ करींद्रक्षतजांबुचूषण प्रवृद्धगृनावपरे यथा मृगाः ॥ ६७ ॥ मंदारसाला-हैद्धि हद्धि । अणारदाणसरंदवाणधारापूरंददिठिपहहि परोप्परणिरंधसंदहेहि महारहाहिहिदेहि रहसहस्सेहि सव्वदिसाअक्कं वेडिओ समं एव्व णमिणंदणो। ण आणे किं एत्थ होहिइ । रत्नमाली-प्रिये नैतद्रथसहस्रं मेघप्रभस्यैवायमधरितालातचक्रभ्रमस्य स्पंदनस्य स्पंदः। मंदारमाला-अम्हे अच्छेर जं कहिदंपि ण विस्ससंति लोअणाइ । मंथरकः-अरे किं एवं विअसत्तदापिच्छगुच्छसप्पहो पिक्कलराअजंबू१ कथं समसंधानमुच्यमानहेतिनिबहकवलितसकलादिशाचको विमुक्तकिलकिलाशब्दमधुरं झटित्यवतीर्ण विद्याधराणां बलं हिंडयन् नमिनंदनमेवाभियुध्यति मेघप्रभः। २ हां धिक् हा धिक् । अनारतनिस्सरद्वाणधारापूर्यमाणदृष्टिपथैः परस्परनीरध्रसंदष्टैर्महारथाधिष्ठितः रथसहस्रः सर्वदिशाचक्र वेष्टितोसममेव नमिनंदनो न जाने किमत्र भविष्यति। ३ अहो आश्चर्य यत् कथितमपि न विश्वसतः लोचने। ४ अरे किमेतत् विकसत्तापिच्छगुच्छसप्रभः पक्कराजजंबूफलश्यामलः नीलकंठकंठप्रभाकरः अकालोपस्थितबहुलपक्षदोषकृष्णः अंजनधूलीपुंजसदृशः राहुविंबसहस्रसंपातभीषणः तमिस्रागुहातिमिरोद्गारगभीरः सप्तमपातालोदरदुरालोकः प्रसर्पति गगनांगणं अंतत एव नमिनंदनस्य । Page #111 -------------------------------------------------------------------------- ________________ ९८ विक्रांतकौरवेwwwmmmmmmmmmm फलसामलो णीलकंठकंठप्पहाकव्वुरो अआलोपाहदबहुलपक्खदोसकसणो अंजणधूलीपुंजसच्छओ राहुविंबसहस्ससंपादभीसणो तमिस्सगुहातिमिरुग्गारगहीरो सत्तमपाआलोदरदुरालोओ पसप्पइ गअगंअणं अंतदो एव्व णमिणंदणस्स। मंदारमाला -( सभयं ) हेद्धि हद्धि । किं णेदं । मंदरः-अहो आश्चर्यम् । दृश्यते कवलयन्निवक्षणाद् विश्वमेव सचराचरं जगत् । अंधकारनिकरः समुत्पत निंद्रनीलमणिमेचकच्छविः ॥६८॥ रत्नमाली-(विभाव्य ) देवि तामसमस्त्रमासूत्रितं सुनमिना । . अद्य हि क्षणेन मूर्छामिव तामसास्त्र प्रयच्छतीदं प्रसभं जनस्य । तमःप्रभावस्तिमितावकाश माकाशमाशाविनिवेशशून्यम् ॥ ६९ ॥ मंथरकः-हुँ किं णेदं जुअंतआलजलहरणिवहवरिसिजंतजलणजालोलिकरालो धगधगंतघोलिरुज्जलजालाजालजडिलजंतगणपरंतो एक्कलो दसदिसाअक्कं दसअंतो सव्वंपि दिडिवहं ओवाहेदि साहाणाहो । मंदरः-देव पश्य पश्य । १ हा धिक् हा धिक् । किं नु एतत् । २ हंत किमेतत् युगांतकालजलधरनिवहवर्ण्यमाणज्वलनज्वालावलीकरालो धगधगुद्भूर्णतोज्वलज्ज्वालाजालजटिलितगगनपर्यतः एकलोकमिव दशदिशाचक्रं दर्शयन् दृष्टिपथमतिवाहयति स्वाहानाथः । Page #112 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः ।। a जनस्याक्ष्णां तीक्ष्णं तिमिरमिव संरोधि तिमिरं प्रमार्जन्नूर्जस्वी प्रभृत इव सार्जेन रजसा। समुत्सर्पज्ज्वालाशतकबलितव्योमपरिधिविना काष्ठाभेदं पतति शर एतानधिरुहन् ॥ ७० ॥ रत्नमाली--निर्मुक्तमाग्नेयमस्त्रं मेघप्रभेण । अत्र हि। जनयत्यनेकपानां पाकल इव पावकः परं दवधुम् । . सूकल इव दुष्टहयः सर्वोस्माद्विभ्यदुभ्रमति ॥ ७१ ॥ मंथरकः-देख देव कत्थइ चलपडाआवलिवीजिओ हत्थिदग्धजालाजालआपुक्खिओ कत्थइ करिकएण आलचालणुत्ताओ घोलरिफुलिंगआलिंगिओ कत्थइ चलंतजालासिहुट्टामरो कत्थइ बलंतधूमग्गमंधारिओ करितुरअरहिमणुअणिवहविद्दावणो दहइ दहणो इमो पोरवाणं बलं । मंदरः-देव पश्य पश्य । उत्पुष्यन्नलकास्थिनालविगलन्मज्जाद्रवोद्रेचितज्वालाजाल जटाललोलदनलव्यासंगपीडांगकाः । प्लोषोत्पिडितकंदराविलुठनाकांडस्फुटोत्थापिताः संत्रासं पिशिताशिनां च विदधत्यद्धा कबंधा अमी॥७२॥ रत्नमाली-अहो विश्वमश्नाति वैश्वानरः । एष हि। १ पश्य देव कुत्रचिच्चलपताकावलीवाजितः हस्तिदन्नज्वालाजालपुंजितः कुत्रचित् करिकर्णचालनोत्थापितः घूर्णमानस्फुलिंगकालिंगितः कुंत्रचिच्चलज्ज्वालाशिखोहामरः कुत्रचित् बलमोद्मांधकारितः करितुरगरथमनुजनिवहविद्रावणः दहति दहनः अयं पौरवाणां बलम् । Page #113 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे धूमैः शामलयन् प्रलिप्य गगनं निष्ठापयन्नातपं ज्वाला संततिभिर्नवान् विरचयन् धूम्याभिरंभोधरान् । उत्पातोपनकोपरागबहलव्यादेहसंदेहदः । सप्तार्चिः कवलीकरोति विलिहन् विंबं सहस्रार्चिषः ॥७३॥ मंदरः १०० मेघप्रभस्यैष जयं ब्रवीति धूमध्वजः पौरवसैन्यघाती । नमेः सुतस्यापि पराजयाय पतन् ध्वजस्योपरि धूम एषः ॥ ७४ ॥ रत्नमाली — कथमकांडवृष्ट्या विधाप्यते सहसा विभावसुः । नूनमुत्सृष्टं वारुणमस्त्रं नमिसूनुना । मंदारमाला - अह्नो अच्छेरं । रत्नमाली प्रावृट् प्रवर्तयति चारुचलत्कलापानुच्चैश्शिखानतितरां शिखिनः सुखार्द्रान् । निर्मूल निर्दलितधूमशिखाकलापः प्रावृष्ययत्विह शिखी प्रलयं प्रयातः ॥ ७५ ॥ मंथरकः - केहें एसरुप्पदंडधवलसलिललद्विसहस्ससंसइद णिस्से सजलणिहिणिपडणब्भुदो पज्जलंतजं बूणदथोर भासुरविज्जुलिजालजलिलो कज्जल १ अहो आश्चर्य । २ कथमेष रौप्यदंडधवलसलिलय ष्टिसहस्रसंशयित निश्शेषजलनिधिनिपतनाद्भुतः प्रज्वलज्जांबूनदस्थूलभासुरविद्युज्जालजटिलः कज्जलम षिकृष्णसजलजलधरनिवहभ्रीयमाणसिद्धपथध्वांत: संतत चरत्स्तनितनिर्घोषभीषणो बज्रपतनमाटितविकटमहीधरशिखरप्राग्भारो निर्भरोद्भ्रांताभिसारिकामनोरथसंभाव्यमान संतमसः प्रवसनमिथुन हृदयविदारणकरपत्रः प्रवृत्तः वर्षरात्रः । Page #114 -------------------------------------------------------------------------- ________________ चतुथाऽङ्कः। मासकसणसजलजलहरणिवहभरिजंतसिद्धपहलुतो संतदुच्चरंतथणिदणिग्घोसभीसणवज्जपडणमूडिदविअडमहीहरसिहरपब्भारो णिब्भरुन्भंतझग्गुलीमण. रहसंभावणिज्जसंतमसोपसंतमिहुणहिअआविदारणकरपत्तो पउत्तो वारिसारंतो। रत्नमाली नभसोऽयं कालत्वं रचयति बहलो बलाहकव्यूहः । जठरशिखिकंठकालः कालिमपि करोति नभ एव ॥७॥ अपि च । सौदामिन्य इमा विभांति शिखिनः पूर्व निगीशिशखा रोमंथायितुमिच्छया मुहुरथोद्गीर्णा इवांभोधरेः । किंचांतःकवलीकृतो जलधरैर्वैश्वानरो दुर्जर- . स्तत्क्रोडानि विपाट्य बाढमशनिच्छद्मा विनिर्गच्छति ॥ ७७ ॥ मंदरः कथं प्रावृषमप्यतिशेते वांतरविहितसृष्टिरियं वृष्टिः । अय हि निर्यत्कुरंगनिकुरम्बकरंबितानि चुंबति संप्रति कदंबकदंबकानि । कादंबिनीनिबिडनिष्पतदंबुपूराः कूलंकषोमिभरिताः सरितः सरंत्यः ॥ ७८॥ रत्नमाली-कथम्। रत्याडंबरसोष्मणस्सपुलकं निर्ममवशेष्वमी __ यूनः सोष्मसु कामिनीस्तनतटेष्वासज्जयंतः सदा । व्योम्नः सीमसु केतकीसुमनसामच्छाः परागच्छटाः नुष्यत्मोषितधैर्यभस्मधवलाः प्रोज्झति झंझानिलाः ॥ ७९ ॥ Page #115 -------------------------------------------------------------------------- ________________ १०२ विक्रांतकौरवे कथमसौ रभसोदासितसकलजलधरः समुद्वेजयति सैनिकान् कल्पांतपवनकल्पः प्रभंजनः । नूनं व्यापारितं वायव्यमस्त्रं मेघप्रभेण । मंदारमाली-(सभयम् ) है किं णेदं । मंदरः—देव पश्य पश्य घनौघं शौलेयं क्रकच इव संते जनकटुईढाघातप्रौढो दलयति तिरश्चीनमृजु च । हरन् धारासारं प्रसभमथ संचूर्ण्य कणशः पुरस्तादाशानां सपदि पवनोसौ विकिरति ॥ ८० ॥ मंथरक-कह णिम्मूलपहुटुमेहजूहो णिस्सेसप्पमुसिदसलिलधारासारो रहसल्लूरिदधअवडपक्खोलणपेक्खणिज्जोहेलालूसिदराअच्छतचित्तलिअगअणपरिसरो कडिणसिलाणिहरुप्पादणिग्घणो णिग्यादणिणादघग्घरघोरघोसुपिडणझप्पिदसेएणकुहरो वडवडयदि संगरंगणं समीरणो । रत्नमाली जलदपटलं दूरादरीकृतभ्रममाहृतं पिवति पवनो नूनं वात्यामुखैः प्रविदारितैः । इदमाप पुनः शंके निर्मूलयन्नयमबुदान् । घनलवमपि प्रावृट् स्वागामिनीषु न लप्स्यते॥ ८१ ॥ (विभाव्य ) कथमुपसंहृतमेव चरितार्थमनेन वायव्यमस्त्रं । साधु लोहार्गलाधिपते साधु जानासि निराकोशं पराक्रमितुम् । मंदरः-देव इतः कृतार्थय चक्षुषी।। १. हंत किमेतत् । २. कथंनिर्मूलप्रमृष्टमेघयूथःनिःशेषप्रमुषितसलिलधारासारः रभसोन्मूलितध्वजपटप्रेखोलनप्रेक्षणीयः हेलापयस्तितराजछत्रचित्रितगगनपरिसरःकठिनाशलानिष्ठरोत्पातनिघृणः निर्यातनिनादघर्घरघोरघोषोत्पीडनवधिरितसन्यकर्णकुहरः वडवडायति संगरांगणं समीरणः । Page #116 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। अत्र हि तरंगैरानानं रथ इव पितुयंतरजये समुद्रं निर्मुद्रं जितमकरसंचाररभसः । कुरूणां निर्मिदन झटिति मकरव्यूहमधुना रथः सम्राटसूनोर्विघटयति वेगप्रतिभयः ॥ ८२॥ रत्नमाली-( विलोक्य ) कथमभियुक्तौ परस्परेण कौरवपौरवौ । मंदरः-कथं प्रतिषिध्य सैन्ययुद्धमेकतुलाघातमेतौ कर्तुं प्रवृत्तौ । रत्नमाली-यावदीषदवतारितविमानाः परस्परव्याहारमनयोः शृणुमः। (विमानावतारनाटितकेन तिष्ठति ) मंदरः-कथमित्थमाह पौरवः । अयि कौरवम्लेच्छानां समरे कुरोः स्वजनतां तातेन संपश्यता वीराणां प्रथमेष्वहं प्रथमिका बद्धप्रतिज्ञेष्वपि । । वध्वा वीररसानभिज्ञभवतो द्राग्वीरपट्टे कृता कीर्तिस्तां विततोत्थितामपहरत्यद्यार्ककीर्तिः कुधा ॥८३॥ मंदारमाला-अम्हो गरिहा दिहि ठिआ पोरवस्स । मंदरः-कथमित्थमाह कौरवः । अपि पैतृकानीकप्रपंचनिरीक्षणप्रक्षीव श्रूयतामयमर्थः। शीतांशोरिव तीक्ष्णांशुं तव मामुपसर्पतः। बाणैः स्पृष्टस्य पक्षस्य प्राणाशा प्रांशु जायते ॥ ८४ ॥ रत्नमाली-अहो स्थैर्यं कुरुकुलकुमारस्य । कथं स कोपोत्सेकमाह पौरैवः । रेरे अनिबद्धप्रलापिन् । १ अहो गरिष्ठा दृष्टिः स्थिता पौरवस्य । Page #117 -------------------------------------------------------------------------- ________________ १०४ विक्रांतकौरवे अर्ककीर्तिरसावर्कः सोमस्त्वं सोमवंशजः । अमुमास्कंदतो मूढ तवैव प्रत्युत क्षयः ।। ८५ ॥ अपि च । रे सन्नतद्धतया विक्रम्य संत्रस्तः किमसि विस्मृतः वाहनिकयुद्धनिषेधनं । ननु तूष्णीमेवास्ते ममयममर्षिणी सर्वाप्यक्षौहिणी । तदद्य शासितुं काममीशस्त्वामेकको मम सायकः। शोभायै दिक्परीणाहगृहिणी मम वाहिनी ॥ ८६॥ - रत्नमाली-आहो परुषिकामसहमानः कथं सानुतापमाह कौरवः । अयि स्वयंवरमर्यादाविभेदिन्नखर्वितदुर्विनयगर्वित शोचनीय इदानीं भवादृशैः पुत्रैमहाराजभरतः । कुतः। स्खलन्मरीचिश्चरितादहिंसतात्तपांसि पाखंडकृदनजस्ते । त्वमर्ककीर्तिः पदवीमकीर्ते गतोसि भिंदन गृहमेधिवृत्तिम् ॥ ८७ ॥ रत्नमाली–युक्तमाह कौरवः । मंदरः-कथमवधीरणाधीरमाह पौरवः । अयि मूर्ख प्रक्रांतमपि न स्मरसि न खल्वियमनुनयगोष्ठी । तदिदानीम् नमतु शरसहस्रोद्गारसंरंभीमः . परुषपविनिपातस्फारविस्फारधीरः । हठविघटितशत्रुक्षत्रियव्यूहबंधस्समरनिकृतिचंडः सामिकोदंडदंडः ॥ ८८ ॥ Page #118 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । मंथरकः - अहो अविलंवसहो सहाओ । मंदरः — कथमित्थमाह कौरवः । अहो अनात्मनीन न जानास्यात्मानं । अविचारिताचरणनिघ्नो हि पुमानचिरेण विपदुपघ्न्नतामास्तिघ्नते । तदिदानीम् - १०५ येsमी रथं ते परिवारयंते भवत्परित्राणकृतोष्टचंद्राः । निहन्मि तानेष शरैरमोघै स्त्वं तावदात्यक्षसि चेयुयुत्सताम् ॥ ८९ ॥ मंदरः कथं निहता एव कौरवेणाष्टाभिश्शरैरैर्क कीर्तिरथरक्षिणोष्ट चंद्रा रत्नमाली - कथमधुना अष्टचंद्र विनिपातविलक्षो नष्टचंद्रतिथिनिःप्रभ एषः । चक्रवर्तितनयस्य रथोद्य कुंठिताखिलमनोरथ आस्ते ॥ ९० ॥ मंदरः कथं पुनरप्याह कौरवः । अयि युयुत्सासमुत्सुक अव्युत्पन्नोसि रणकर्मणि । ततश्च । इदानीमप्यस्ति त्वयि भरतसूनौ मम घृणा क्षमाव्यद्वृत्तेषु द्रविणमिह नः पैतृकमिदम् । व्रज स्वैरं युद्धात् स्वगृहमथवा प्रेतभवनं गतिस्तातयीकी न पुनरिह काप्यस्ति भवतः ॥ ९१ ॥ रत्नमाली -- अनुकरोति सोमप्रभं प्रशमेन मेघेश्वरः । १ अहो अविलंब सहः स्वभावः । Page #119 -------------------------------------------------------------------------- ________________ १०६ विक्रांतकौरवे मंदरः कथं क्रोधोद्धतिसापख्यमाख्यत्पौरवः । कथमपि रणं प्रत्याख्याय स्थिरीकृतजीवितः व पुनरधुना कौरव्य त्वं पलायितुमीहसे । उरसि लुठति मे ना सौभाग्यविक्रममदायिनी मम तु विशिखाः छिंदत्येते स्वयंवरमालिकाम् ।। ९२ ।। रत्नमाली - कथमुपहासोल्लासमाह कौरवः । अहो ते दुष्करकारिता यत्कुसुमान्यपि छेत्तुमातिष्ठसे । 1 मंदरः—कथं क्रोधोत्सेकमाह पौरवः । किंच रे अनास्थयोपेक्षितविक्रमं गणयसि तन्मुग्धसुकुमार समरविदग्धः । नायं तोयधरो स्थिरश्चलव पुर्नैतद्वियत्कामुकं यं प्रेक्षणी तटित्प्रलघवो नैतेप्यपां बिंदवः । जेताहं भवतोर्ककीर्तिरलघुस्थेमेदमस्मद्धनुयहानौ विमुखे यमस्य विशिखाञ्चैते प्रहारोन्मुखाः॥९३॥ रत्नमाली —– अहो परगुणाभ्यसूया पौरवस्य । मंदरः—कथमवगणनादारुणमाह कौरवः । अयि भो भरतपुत्र साधु शिक्षितोसि नटविभीषिकायां यद्वीररसोदारप्रयोगेष्वसमर्थस्तत्रभवानित् विकत्थसे । रत्नमाली - अहो सरसाणि वीराणां मानावष्टंभसोल्लासानि स्ववा - कोवाक्यानि । मंदरः—कथं क्रोधात्सेधसंघट्टितभ्रुकुटिभीषणफालपीठकठोरमाह पौरवः । अरे दुमीनमदनोन्मत्तनिर्मर्याददुर्वादमुखरकुरुकुलपांसन वाढमय विपयस्तप्रकृतिरास । यत्सुगृहीतनामधेयं तातमप्युपहासविरसं विभाषसे । तत् किं बहुना । Page #120 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । तातस्सेवैकवश्यः स्वजनयति कुरूनित्युपेक्षाप्युदस्ता ताताधिक्षेपवयं मुखकुहरमिदं मृष्यते नार्ककीर्तिः । सृक्कप्रांतावलग्नोल्लुठदुभयशिखाखंडितोर्ध्वाधमूर्धा भल्लःप्रद्वेषिमल्लः शमयतु तव क्षीव मौखर्यमेषः ॥ ९४ ॥ मंथरकः - हंते विमुक एव्व पोरवेण कअंतदाढाकरालधारापेरंतो रभसुप्पडणमीसणसरिल्ला भल्लो । १०७ मंदारमाला--केंहं अद्वपहएव्वकोरवेण सहसुम्मो क्खसम्मोढरिदेहि सरणिअरेहि चुण्णिदो सो भल्लो । मंदर--न तावन्मात्रमेव केतुदंडाग्रमपि खंडितं पौरवस्य । साधु कौ - रव्य साधु । इत्थमाह च कौरवः । अरे अरे पौरव पश्य पश्य । ललबंटाजिह्वेाल्लुठनरचिताक्रंदविरसं शिरःकेतोरेतन्निपतति पुरस्तात्तव भुवि । विमुक्तव्यालोलध्वजपटशिखा केशनिचयं मर्दायास्त्रच्छिन्नं तव च निधनं भाव्यमुपदिशत् ॥ ९५ ॥ रत्नमाली -- कथं सर्वत्राप्यतिशेते कौरवः । मंदर:—कथं पुनरप्याह क्रोधसंरंभभैरवः पौरवः । रे रे कौरव संप्रति क्षणक्षणं दत्तक्षणो निर्भयः स्वैरं विक्रमिणां वचांसि पठितान्यावर्तयावर्तय । निष्पर्यायविनिष्पतच्छरशतच्छिन्नांश्च पश्य क्षणात्वां तूणीं कवचं गुणं धनुरिषून वाहान् ध्वजं सारथिम् ॥ ९६ ॥ १ हंत विमुक्त एव पौरवेण कृतांतदंष्ट्राकरालधारापर्यंतः रभसोत्पतनभीषणशखान् भल्लः । २ कथमर्धपथ एवं कौरवेण सहसोन्मुक्त्तसमुद्धृतैः शरनिकरैः चूर्णितः स भलः । Page #121 -------------------------------------------------------------------------- ________________ १०८ विक्रांतकोरवे रत्नमाली-अहो दुर्भरः प्रतिज्ञाभरः । मंदरः-इत्थमाह कौरवः। संधातुमेकतममुत्सहते पृषत्कं यावद्भवान् धनुषि वांचितसंप्रहारः । अस्मत्पतत्रिमुखलूनतमुस्तवेयं तावद्विधा भवति पश्य शरासनज्या ॥९८॥ मंथरकः-कहं छिण्ण एव पोरवणुसिंजणी कोरवखुरप्पण। रत्नमाली-युगपदेव कौरवस्य प्रतिज्ञा च साधनं संपन्नं। . मंदरः-देव पश्य कोदंडदंडोऽयमर्ककीर्तेर्गतौजसः। निर्जीवस्तिमितो जात: शत्रुणा समरे हतः॥ ९८॥ मंथरकः-कहं झत्थि पोरवरहं आरूढेण गहीदो कोरवेण विलक्खतुह्निको अक्ककित्ति । पलाइदं च समंतदो पोरवबलेण । उत्थिदो अ कोरवस्स जअकोलाहलो पोरवबाहुजुअअवट्टिणा पासेण कहं संणद्धो किं कुणइत्ति आसंकेमि । मंदरः-कथमात्मन एव मस्तके निपतितोर्ककीर्तेर्दभदंभोलिः । रत्नमाली–अहो कौशलं कौरवस्य । मंदरः-आह च कौरवः । - १ कथं छिन्नैव पौरवधनुरिंशजनी कौरवक्षुरप्रेण । २ कथं झटिति परिवरथमारूढ़ेणं गृहीतः कौरवेण विलक्षणतूष्णीकः अर्ककीर्तिः । पलायितं च समंततः पौरवबलेन । उत्थितश्च कौरवस्य जयकोलाहलः । पौरवबाहुयुगलवर्तिना पाशेन कथं सन्नद्धः किं करोत्याशंके । Page #122 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। अयमयमिह युद्धाबद्धगोंद्धतानां भुजबलमदभारं स्वैरमयावरोप्य । नियमयति भुजौ द्वौ भारतस्यार्ककीर्ते युधि कुरुपतिसुनुर्मोचयंत्वेतदीयाः ॥ ९९ ॥ मंथरकः-सव्वेवि एण्हिं दिव्वअणादिण्णसाहुक्कारोपहारा कोरवेसरस्स उवरि मुंचति मंजुगुंजंतमहुअरणिअरणिव्वज्जतमअरंदणिस्संदाणम्महिअबहलगुरुपरिमलवासिज्जंतगअणाभोगं विसत्तसंताणमंदारहरिचंदणणमेरुपरिजादभूइडं पुप्फविहिं। मंदरः तेन हि वयमपि तथा कुर्मः । (सर्वे साधुकारमुखराः पुष्पवर्षे नाटयंति) मंदरः-देव पश्य पश्य । सुरकरविनिर्मुक्तां व्यक्तापदानविकत्थिनीं वहति सुमनोवृष्टिं सिद्धाध्वनः पतितां जयः। नृपतिषु बहुष्वभ्यर्यैव स्थितेषु जयश्रिया विदितगुण एवान्यां न्यस्ता स्वयंवरमालिकाम् ॥१०॥ रत्नमाली परा जयमसौ प्राप्ता कौरवस्य पताकिनी। पराजयमसौ प्राप्ता पौरवस्य पताकिनी ॥१०१ ॥ मंदरः--देव पश्य पश्य । - १. सर्वेपीदानी दिव्यजनादत्तसाधुकारोपहारा कौरवेश्वरस्योपरि मुंचंति मंजुगुजन्मधुकरनिकरनिर्विश्यमानमकरंदनिष्यंदनिर्थितवहलगुरुपरिमलवास्यमानगगनाभोगं विकसत्संतानमंदारहरिचंदननमेरुपारिजातभूयिष्टां पुष्पवृष्टिम् । Page #123 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे कुरुनरपतिपाशानद्धनिष्पंदबाहुविघटितनिजसैन्यः शोभते नार्ककीर्तिः । इयमपि दिवसांतम्लानिपर्यस्तविंबा क्षपितकरसहस्रा शोभते नार्ककीर्तिः ॥ १०२॥ रत्नमाली-(विलोक्य ) कथमधुना कौरव्यहेतुनिहतः प्रतिपक्षभूभृद्वक्षः क्षरत्क्षतजपूरसमुक्षिता मा । संध्यानुरागकपिशा वरुणस्य चाशा धत्तः परस्परममू प्रतिविंबशोभाम् ॥ १०३ ॥ कथं नियूंढसंगरस्संगरांगणाद्विनिवृत्तः कौरवः । अद्य च मदद्विपानां करवारिसिक्ता मदांबुसिक्ता हयफेनसांद्राः। अमी रणादद्य परागतानां समीरणाः श्रांतिमपाहरांत ॥ १०४ ॥ मंदारमाला-कह समत्ता समरजत्ता। .. मंदर-देव पश्य पश्य । निष्पिष्टद्विषदश्च सांद्ररुधिरव्यालेपताम्यत्कराः प्रक्षुण्णप्रतिपक्षदंतिपिशितप्रक्लिन्नदंतार्गलाः। एते श्रेणिकृता विशंति नगरद्वारावकाशीक्षिणः प्रोन्मीलन्मणितोरणां रणमुखाद्वाराणसीं वारणाः ॥१०५॥ १ कथं समाप्ता समरयात्रा। Page #124 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । रत्नमाली - यावदिदानीं वयमपि - प्रगुणरण विमर्वप्रेक्षणप्रीतिबद्धं प्रतिघटयितुमंहस्सांप्रतं संप्रयामः । समवसरणभूमिं पूतकैलासमौलि प्रणिहितगणनाथोपस्थितां भूतभर्तुः ॥ १०६ ॥ मंदरकः - यदाज्ञापयति देवः । इति (निष्कांताः सर्वे ) १११ इति श्रीहस्तिमल्लेन विरचिते सुलोचनानाटके कौरवपौरवीयो नाम चतुर्थोङ्गः समाप्तः ॥ ४॥ Page #125 -------------------------------------------------------------------------- ________________ ११२ विक्रांतकौरवे पश्चमोऽङ्कः ॥५॥ comam (ततः प्रविशति कंचुकी) कंचुकी-अहो निर्जरं प्रीणाति ममांतःकरणं विजयेन वर्धमानः परनृपतिमानघस्मरः कुमारमेघेश्वरः। तथाहि प्रमदरभसादुद्यद्गद्गद्यते नितरां वचो गुणयति गुरुं गात्रस्यानंदधुर्मम वेपथुम् । तिरयतितरां वाष्पोत्पीडः प्रमोदहृतोक्षिणी स्वयमाप जरा नूनं जीर्यत्यसौ बहुलीकृता ॥१॥ सर्वथा भाजनं मंगलानां सुमंगला काशीराजसुता ।(परिक्रम्यात्मानं निl) अहो वैरूप्यं बार्धकस्य । वयांसि वेपथूभृतवारवाणच्छलात्स्वयम् । उड्डीयेव पलायंते सोद्वेगं तनुवैकृतम् ॥२॥ अथवा कुरुनंदनविजयोत्सवदर्शिनः प्रवयस्त्वमपि मे श्रेयसे । यावदहमिहैव स्थित्वा यथा न कोपि प्रवेक्ष्यति तथा द्वारदेशं रक्षामि । ( इति उपविशति) (ततः प्रविशति प्रतीहारी) प्रतिहारी-दिहिआ सुसंविदो देव्वेण कोरववंसो जदो जेदुणा अक्क १ दिष्ट्या सुसंवृतो दैवेन कौरववंशो यतो जित्वार्ककीर्ति प्रतिनिवृतः कौरवेश्वरः। श्रुतं च मया गृहीत्वार्ककीर्तं प्रविष्टो वाराणसी कौरवश्वरस्संभावनापुरस्सरं वा राजकुलनिकटे निवेशितो काशीराजेनेति । ततश्च उद्वेलबाल्यफलप्रेरिता आगतास्मि विजयेन वर्धनं देवं कौरवेश्वरं दृष्ट्वा दृष्टयोस्सुखं लब्धं । इयं चाग्रतो वाराणसी। यावत्प्रीवशामि। Page #126 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। किर्ति खेमेण पडिणिउत्तो कोरवेसरो। सदं च मए घेत्तण अक्ककित्तिं पविट्ठो वाराणसिं कोरवेसरो संभावणापुरसरं वा राअउलणिअडे णिवेसिदो कासीराएणत्ति । तदो अ उव्वेल्लवल्लफलपेलिदा आअदम्हि विअएण वढतं कोरवेसरं दळूण दहीणं सुहं लहिडें । इयं च अग्गदो वाराणसी। जाव पविसेमि । ( प्रवेशनाटितकेन ) अहो रमणिज्जदा रअणिमुहस्स । अज्ज हि पंउमेसु अद्धाणम्मीलिदेसु कुमुदेसु ईसिविआसिदेसु । पिअइ ईसमअरंदं पयोसपवणो अ भमलआ घडिआ॥३॥ तहहि-- ईमा वेला एत्थ विलासिणीणं । सत्थो चंदणकद्दमो थणअले तंवूलवासो मुहे. कप्पूरब्भाहओ अणच्छसरसा कंठं हि कत्थूरिआ । होल्ले चिहुरम्मि गल्लिकुसुमाकालाअरुध्दूविए सोरभं तरुणीअणस्स लहदे अंगेसु सोहग्गअं ॥४॥ किंच । बहूमाणणासपञ्चाअअकुसुममहावाणा मअणस्स दोण्णिचअणि १. अहो रमणीयता रजनीमुखस्य अद्य हि । २. पद्मेष्वर्धनिमीलितेषु कुमुदेष्वीपद्विकसितेषु । पिवतीषन्मकरंदं प्रदोषपवनश्च भ्रमराश्च घटिताः ३ इयं वे लात्रविलासिनीनां । तथाहि । ४. शस्तश्चंदनकर्दमः स्तनतटे तांबूलवासो मुखे, कर्पराभ्यधिकोअनच्छसरसांकंठे हि कस्तूरिका । स्नेहाट्टै चिकुरे मल्लिकाकुसुमानि कालागरुपिते, सौरभ्यं तरुणी जनस्य लभते अंगेषु सौभागक्यकं ॥५ वधूमाननाशप्रत्यायककुसुममहावाणा मदनस्य देोर्निचयनिरस्ता एंकोत्पातप्राप्तिहृतांधकारध्वजावरोहतीव तिमिरावरणनिलुप्तबाहुल्यसंकुचितं गगनांगणं । आलिंगंतीव परस्परं वसरदूरविघटिता आगमिष्यत्संतमसदंडदष्टहस्ता:दिशावध्वः । दृश्यते प्रतिक्षणवर्धमानतमोनिवहाः तिमिरवाहिन्य इव रूपिण्यः नगरीवाथ्यः । उज्वलंति दृढतापितमन्मथशरफलाप्राविलोहिताः महीगगनांगणताराः गृहे गृहे दीपिकाः। Page #127 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे ११४ रत्था एक्कोवाअपत्तिहिअअंधआरधआवरोहंतीव तिमिरावरणणिल्लुक्कवाहल्लसंकुइअं गअणंगणं । आलिंगंतीव परोप्परं वासरदूरविहाडदाओ आअच्छमाणसंतमसदंडदडहत्थाओ दिसावहूओ दीसंति पडिक्खणवडूंततमणिवहाओ तिमिरवाहिणीओव्व रूविणीओ णअरवीहिओ उज्जलंति दढताविअमम्महतिरिहलग्गविलोहिआओ महीगअणगणताराओ घरे घरे दीविआओ ( पुरोविलोक्य ) ऐदं खु समरावसाणसमूसुहणिस्स रंत सुलहपरिअणं महाराअउलं, ता पविसेमि । ( प्रविश्यावलोक्य च ) ऐसो खु अअओ सो मत्ता दो पडिहारट्ठाणे उवविट्ठो चिट्ठदि । जाव इमादो सअलं उत्तंतं उवलहेमि । ( उपसृत्य ) अँअअ वदामि । कंचुकी - ( विलोक्य) कथं भद्रसेना | स्वस्ति भवत्यै । अथ कुतस्त्वं वेला स्वं देशं परित्यज्यागता । प्रतीहारी — हरिसेण अ विसादेण अ । ---- कंचुकी - विप्रतिषिद्धमेतत् । व्याख्यानत एवात्र विशेषप्रतिपत्तिः । प्रतीहारी - हैरिसो दाव कोरवेसरस्स विजआदो कंचुकी - नैतदुन्मंत्रणं विषादहेतुं व्याचक्ष । प्रतीहारी - चक्कवट्टिसुदस्स अक्ककित्तिणो अदिक्कमेण अच्चाहिदं संकेदि हिअअं । कंचुकी - युक्तमेवैतत् । किंतु दैवेन पुनरस्मासु प्रसीदता विषादस्थाहर्ष आदिष्टः । प्रतीहारी - ( सहर्ष ) अज्ज किं सचं भणासि । १. एतत्खलु समरावसानसमुत्सुकनिस्सरत्सुलभपरिजनं महाराजकुलं । तत्प्रविशामि । २. एष खल्वार्यः सः मत्तातः प्रतीहारस्थाने उपविष्टः तिष्टति यावदस्मात्सकलं वृत्तांतमुपलभामि । ३. आर्य वंदे । ४. हर्षेण च विषादेन च । ५. हर्षस्ता- वत्कौरवेश्वरस्य विजयात् । ६. चक्रवर्तिसुतस्यार्ककीर्तेरतिक्रमेणात्याहितं संकते हृदयं । ७ आर्य किं सत्यं भणसि । Page #128 -------------------------------------------------------------------------- ________________ - पञ्चमोऽङ्कः । ११५ कंचुकी-महती सा कथा । उपविश्य श्रूयताम् । प्रतीहारी-तेणे हि विजएण वढतं कुमारं पेक्खिअ एसा आअच्छेमि । कंचुकी-भद्रे भद्रसेने निद्रायते इदानीं युद्धपरिश्रांतो देवः । कथितश्चाहं नंयावर्तसौधातकीमात्रपारजनन देवेन, दीयतामियमेका रात्रिर्मे निद्रायितस्य । तत्साधु रक्ष्यतां द्वारदेश इति । प्रतीहारी–तेणे हि पहोवं जाव देवस्स पडिवालेमि । कंचुकी-तेनं हि स्वैरमुपविश्यताम् । प्रतीहारी-जं भवं आणवेदि (उपविश्य)अज्ज वली अंखु मे कोऊहलं समरावसाणादो परं कीरिसो एत्थ उत्तंतोत्ति जाणिदुं । ता भणाहि । कंचुकी-तेन हि श्रूयताम् । प्रतीहारी–अवहिदम्हि ।। कंचुकी-युद्धे यदा तावन्निगृहीतार्ककीर्तिः कौरवेश्वरः प्राविक्षद्वाराणसी तदैव वाराणसीपतिस्सविषादं च ससंभ्रमं चोपसृत्य वैचित्यविधुरोऽवोचत् । शोचस्यवाढं चिरजीवितस्य चिरात्तदेतत्फलमद्य लब्धम् । बद्धोऽर्ककीर्तिस्समरे द्विषेति श्रुतं च दृष्टं च मया यदद्य ॥५॥ प्रतीहारी–महाणुभावो कासीराओ जेण अक्ककित्तिणो पराभवं असहमाणो ण गहिज्जदि। १. तेन हि विजयेन वर्धमानं कुमार प्रेक्ष्य एषा आगमिष्यामि २. तेन हि प्रबोधं यावद्देवस्य प्रतिपालयामि । ३. यद्भवानाज्ञापयति । ४. आर्य बलीयं खलु कौतुहलं समरावसानात् परं कीदृशोत्र वृत्तांत इति ज्ञातुं । तस्मात् भणस्व। ५. अवहितास्मि । ६. महानुभावः काशीराजः येनार्ककीर्तेः । पराभवमसहमानो न गृह्यते । सोति . Page #129 -------------------------------------------------------------------------- ________________ ११६ विक्रांतकौरवे कंचुकी-एवमेतत् । न जातु जामातुरसौ जयस्य - पराक्रमः काशिपति धिनोति । धुनोति तूच्चैर्यशसोऽर्ककीर्ते रकीर्तिरेषा भरतात्मजस्य ॥६॥ प्रतीहारी--तदो'तदो कंचुकी-एवमेतत् । अथ साधिक्षेपमवोचत् कौरवेश्वरं काशीराजः । यथा। बद्धं भवानात्मन एव बंधु नाहत्यशंकं भरतस्य सूनुम् । विमुच्यतामेष तदाशु बंधात् समुच्यतां मुग्ध तवापि मोहः ॥ ७॥ अथ च। सुतोऽयमाद्यो ननु चक्रवर्तिन स्सुतावमाने वमतस्स एव हि । इति त्वया डिम्भ न हंत चिंतितं पितुः कुरा नुकरोषि चेष्टितैः ॥ ८॥ प्रतीहारी–सिक्खेदव्वं सिक्खिदो देव्वो कासीराएण । तदो तदो। कंचुकी-ततश्च पुनरपि काशीराजः पौरवं कौरवं चोद्दश्य सोपालंभमवोचत् । अस्थानाभिनिवेशबद्धसमरोत्साहेन तावत्त्वया प्रेक्षापूर्वविधायिनापि न कृतं क्षात्रोचितं पौरव । मोहादित्थमतिक्रमं विदधता संभावनीये जने सत्यं कौरव तत्त्वयापि न कृतं यत्तद्विवेकोचितम् ॥९॥ १. ततस्ततः । २. शिक्षितव्यं शिक्षितो देवो काशीगजेन । ततस्ततः । Page #130 -------------------------------------------------------------------------- ________________ पश्चमोऽङ्कः। ११७ प्रतीहारी:-साहु महाराज साहु सोहणं ते अणुसासणं । तदो तदो। __कंचुकीः-अत्रांतरे निरवयप्रषितौ वियाधरदूतौ चिंतागतिमनोगती चक्रवर्तिसकाशादागतौ लेखहस्तौ गगनतलादवतरिष्टाम् ।। प्रतीहारी-कंपद मे हिअअं कीरिसी एत्थ चक्कवट्टिणो पडिपत्तित्ति । कंचुकी-भद्रे मा भैषीः । स खलु दिव्यमानुषः सम्यक् पश्यति । प्रतीहारी-(सहर्ष ) औज्ज भणाहि कीरिसो लेहत्थो। कंचुकी-आस्तां तावद्विस्तारः । श्रूयतां पुनः कौरवेश्वराय प्रहितस्य लेखार्थस्य सारः। प्रतीहारी-कहं वि। कंचुकीयथार्ककीर्तिर्विनयात्प्रमाद्य निरस्ततंद्रं मम शासनीयः । तथोत्पथप्रस्थित एष मोहात् त्वयापि पथ्ये पथि वर्तनीयः ॥१०॥ प्रतीहारी-दोणं खु मे उस्ससिदं हिअएण एरिसा खु महापुरिसा णाम । अज्ज तदो तदो। कंचुकी–श्रूयतां च काशीराजाय प्रहितस्य लेखस्यार्थः। । प्रतीहारी–कहं वि। कंचुकी १. साधु महाराज साधु शोभनं ते अनुशासनं । ततस्ततः । २. कंपते मे हुयं कीदृशी अत्र चक्रवर्तिनः प्रतिपत्तिरिति । ३. आर्य भणस्व कीडशो आहार्यः । ४. कथमिव । ५. इदानी खलु मे उच्चसितं हृदयेन ईदृशाः खलु महापुरुषा नाम । आर्य ततस्ततः । ६. कथमिव । Page #131 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे यद्युष्माकमसौ वचांसि शिरसाभ्यर्थ्यानि शेषास्थया व्यामोहादतिलंघतेस्म तदयं पुत्रोऽर्ककीर्तिर्ननु । अप्यस्मिन् भवतां न कर्तुमुचितोपेक्षा समीक्षावतां मंदाज्ञो भवति प्रमाद्यति जने को वा विनेये सुधीः ॥ ११ ॥ ११८ ततश्च । न द्वेष्टि मेघेश्वरमर्ककीर्ति घेश्वरो द्वेष्टि न चार्ककीर्तिम् । यथा सुहृद्धूय विवांतवैरौ तथा भवद्भिः प्रतिबोधनीयौ ॥ १२ ॥ प्रतीहारः- कहं असाहारणो कासीराए चक्कवद्विणो बहुमाणो । कंचुकी - किमुच्यते काशीराजः खल्वसौ । यो हि भक्तिं समस्त दुरितापहृतिप्रगल्भां धत्ते सदैव परमेष्ठिनियोगनिष्ठः । व्यामोहसंशयविपर्ययवीतबुद्धि स्तत्त्वं विवेचयति सञ्च्चरितैकतानः ॥ १३ ॥ प्रतिहारी - अज्ज बुद्धिगदले हत्थेण किं पडिवण्णं कासीराएण । कंचुकी - किमन्यत् । सबहुमानमभिष्टुतवान् महाराजभरतं । यथा । शमं दधानो हृदि योगिदुर्लभं गुणैः कियद्वा पितुरेष हीयते । तदस्य संचिंत्य चरंतु साधवस्सुदुष्टवं वृत्तमदुष्टवृत्तयः ॥ १४ ॥ १. कथमसाधारणः काशीराजे चक्रवर्तिनः बहुमानः । २. आर्य बुद्धिगतलेखार्थेन किं प्रतिपन्नं काशीराजेन । Page #132 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । पुनरपि तमुद्दिश्यावोचत् । स्वय्येष नस्सार्वजनीनसूनौ यशस्वतीहात्र न माति हर्षः । किमन्यदेते पितरं यथा ते त्वामात्मशौचाय यथा स्मरामः ॥ १५ ॥ प्रतीहारी - जुत्तं आचक्खिदं कासीराएण । तदो तदो । कंचुकी - ततश्च तूष्णीमासीनमर्ककीर्ति पुनरप्यवोचत् काशीराजः । तथा । न नागैर्नाप्यश्वैरपरिमितनागाश्च पृतनारुसमाराध्या यूयं ननु भरतसूनो कतिपयैः । धनं चेद्दास्यामस्तदपि न वरं यत्र निधयो न वाप्यस्तालस्याः सपदि सुवतेऽभीष्टमिह वः ॥ १६ ॥ किंच महीखंडं दद्यां यदि तदपि हास्यं यदखिला मही युष्माकीणा हिमगिरिसरिद्वल्लभमिता । न सौहार्द प्रार्थ्यं नृपककुद युष्माभिरिह नः परं हि प्रेमाणं प्रथयति पितास्मासु भवतः ॥ १७ ॥ ततश्च युवराज श्रूयतामस्मदभीप्सितम् । ११९ स्वयंवरे प्राप्य सपुष्पमालां तया समं यातु जयः स्वदेशम् । त्वां रत्नमाला गुणरत्नराशि संवाहयत्वर्घ्यमसावनर्घा ॥ १८ ॥ १. युक्तमाचक्षितं काशीराजेन । ततस्ततः । Page #133 -------------------------------------------------------------------------- ________________ १२० विक्रांतकौरवे प्रतीहारी–सोव्वणं जप्पिदं कासीराएण । तदो तदो। कंचुकी-ततश्च प्रत्याख्यानेनैव कृताभ्युपगममर्ककीर्ति काशीराजः सादरमात्मन एव रथमारोप्य स्वभवनमनैषीत् । प्रतीहारी–तदों तदो। कंचुकी-काशीराजनियोगेन हेसांगदः कौरवेश्वरं राजभवननिकटवतिन्यत्र भवने समुचितसमुदाचारपुरस्सरं न्यवीविशत् । अन्यत्तु बलं गृहीत्वा स्कंधावारं गताविरंमदविशारदौ । प्रतीहारी–तदों तदो। कंचुकी-अमुष्याश्च रात्रेस्तुर्ययामे कल्पितोर्ककीर्तेः कौतुकबंधः । कौरवेश्वरस्य तु श्वो भविता। प्रतीहारी-सव्वं कल्लाणं एव्व ।। कंचुकी--तदेनां रात्रिं भवत्या रक्षतामायकक्षता यावदहमभ्यंतरकक्ष्यां परितः संचरन्नभिरक्षामि । प्रतीहारी–जें अज्ज आणवेदि । ( इति निष्कांतौ) १. शोभनं जल्पितं काशीराजेन । ततस्ततः । २. ततस्ततः । ३. ततस्ततः । ४. सर्व कल्याणमेव । ५. यदायः आज्ञापयति । Page #134 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । मिश्रविष्कंभः । Caillou ( ततः प्रविशत्युपविष्टो राजा नंद्यावर्तश्च ) राजा - ( आत्मगतं ) भोः चिरादय समरव्यतिकरतिरस्कारमनो रथयूथानाघ्राता सन्निधत्ते हृदये हृदयवल्लभासानुरोधम् । तत्प्रार्थयामि घटनाय रणे प्रवृत्ते नैवागसे विघटनापि मनोरथा वः । लब्धक्षणाः प्रियतमां प्रति हे भवंतः संभूय यत्किमपि संप्रति सूत्रयंतु ॥ १९ ॥ ( चिंतामभिनीय ) अहो स्वैरचारिता दत्तावसराणां मनोरथानाम् । अमी हि आलिंगत्यबलां बलादनुनयव्यापारदूरस्थितां निर्बंधादनुवर्तयंत्यवचनामालापर्यत्युत्सुकाः । आजिघंति निरुंधतीमनिभृतं चुंबंति कंपोत्तरां संपातेन मनोरथानदद्धति वीडावकाशानपि ॥ २० ॥ ( सोत्कंठं ) किंच बहुना । १२१ स्वैरमद्य युगपद्विनिस्सृतै-स्तामकंपन सुवासिनीं प्रति । यद्विकल्पितमभून्मनोरथै स्तन्ममापि वचसां न गोचरः ॥ २१ ॥ ( स्मृतिमभिनीय ) कथमद्यापि सैव हृदये परिवर्तते स्वसंवत्यंती काशीराजसुता । यदा ख Page #135 -------------------------------------------------------------------------- ________________ १२२ विक्रांतकौरवे मनौरथैस्तत्क्षणपूर्यमाणेनिर्यद्भिरंतर्निविडैरिवैतत् । अंसद्वयं मे पुलकैः स्फुटद्भिः प्रत्युत्थितं तत्करलालनाय ॥ २२ ॥ अथवा । कथमंसयोरेवौत्सुक्यं कथयामि । येन दूरादहंपूर्विकयोपसृत्य प्रियाकरस्पर्शरसं जिहीर्षः। ममान्यमप्युत्सुकमंगमंग मंसद्वये संक्रमीतं तदेषीत् ॥ २३॥ अंगीकरोति च न पुनरन्यानि ममाङ्गानि बहुमानः । यतः तत्पूर्वकं मे स्रजमर्पयंत्या स्रनिर्विशेषेण करद्वयेन । नतांसया स्पृष्टमिदं तु नीत मुत्तंसतामंसयुगं शरीरे ॥ २४॥ प्रियतमास्पर्श इति हि किमप्यन्यत्संपन्नं रसायनमुत्कंठमानस्यांत:करणस्य । तथाहि न हारयष्टौ न तुषारवृष्टौ न चंद्रकांते न च चंद्ररश्मौ । ध्रुवं मया जातु चिदन्वभावि प्रियांगसंस्पर्शसुखस्य लेशः ॥ २५ ॥ . किंच । तस्या आप बिसगुणक्लप्तगुंफनां कुवलयगर्भदलापमालिकां कठिनयति समस्तमार्दवद्रव्यरचितेव तनुभृगीदृशः । किंचान्यत् । Page #136 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। १२३ Annnnnnwwwrammarrrry स्रजमुपरि कराभ्यामंसयोरर्पयंत्या छलचलितवयस्या हस्तसंचारिताभ्याम् । मम किमपि रहस्यं कर्णयोरभ्युपेत्य स्खलितवलयनादच्छानेवाभ्यदायि । २६ ॥ अथवा किमन्यदिह कथ्यते । आदाय दाम मयि कौसुममर्पयंत्या किंचिद्विकुंचनचलच्छिथिलोत्तरीयम् । आकम्य पक्ष्मलहशा कुसुमायुधस्य बाणैरिव स्फुटमहं परिवेष्टितोस्मि ॥ २७ ॥ ( सविशेषौत्सुक्यं ) किं च तस्याः स्विद्यदंगुलिगुरुत्रपाजडं हस्तयुग्ममवशं मदंसयोः। सस्तमुक्तमधुना स्मृतिं गतं सस्मितप्रियसखीकरोद्धृतम् ॥ २८ ॥ यदा खलु मे। उच्छ्रयसोनतशिखरे प्रस्विद्यत्पुलककृतपुरःसरणे । अनुसरणमिवाधत्तां तस्याः कुचयोरिमे असे ॥ २९ ॥ नंद्यावर्तः-(विभाव्य । आत्मगतं ) कथमविच्छिन्नश्चिंतासंतानो देवस्य । अहो अदीर्घसूत्रता मदनस्य । यतः सन्निकृष्यमाणोपि प्रणयिनीसमागमसमयो नालममुष्यात्मनोपस्थापनाय। भवतु पृच्छामि । (प्रकाशं) देव केदानी मनः परिभ्राम्यति । यत्तूष्णीमेवास्यते । राजा-सखे नंयावर्त कथं कथयामि । Page #137 -------------------------------------------------------------------------- ________________ १२४ विक्रांतफौरवे कराभ्यामुत्सृज्य स्रजमुपरि संमोहजननी बलात(रं मम निभृतमाछिद्य च मनः। पुरो धैर्यालेपः स च सपदि धौतोदयितया न विद्मस्तनीतं पुनरथ किय(रमनया ॥ ३० ॥ नंद्यावर्तः–देव किमत्र खिद्यते ? । ननु गतैव स्वयंवरकलहात् प्रभृतिदूयमानया परिसमापितसमरव्यापारं देवमवेक्षितुं कुतूहलिन्या तत्र भवत्या काशीराजपुच्या देवपादमूलं प्रति प्रेषिता संकेतस्थानप्रदर्शनाय सौधातकिं गृहीत्वा नवमालिका । राजा-अस्त्येतत् । गरीयान खलु कातरतया समरकर्मण्यत्याहितमस्मासु शंकमानायाः काशीराजदुहितुः परितापः । सा हि स्वपतिस्वयंवरसमुत्थसंभ्रमग्लपितत्रपाविवृतभूरिसाध्वसा। कथमप्यभूत् प्रियतमा न मूच्छिता नवमालिकाकुसुमदामकोमला ॥ ३१ ॥ नंद्यावर्तः–देवेनैतच्छंकास्थानं किं तु देव इति केवलमभूत्काल्याणः परिणामः। राजा-सखे अद्यापि तस्याः । अंतर्निपीतनयनांबुपरिप्लुतानि ब्रीडाविशेषविधुरव्यपवर्तनानि । चेतस्तुहंत्यविदितोपतप्रमोद- प्रारंभविघ्नचकितानि विलोकतानि ॥ ३२ ॥ अपि च तस्याः । Page #138 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । पक्ष्माग्रग्रथितास्रबिंदुविसरापर्यंतपातोन्मुखी प्राप्ता मां मनसाकुलेन न पुनर्भावानुगैश्रेष्टितैः । प्रेमव्रीडिततापसाध्वसतमः सपातकंपोत्तरं दृष्टी दृष्टविनष्टसाचि चलना यांत्याः कथं कथ्यते ॥३३॥ आस्तामेतत् । इदं तु कथं वृत्तम् । निर्वर्त्य वान्मम मंथरे दृशौ विवर्तयंती वलितत्रिकं मुखम् । स्वयं वृणाना यददर्शदन्यस्तदप्यहो लग्नमिहैव मे हृदि ॥ ३४ ॥ कथं चिरायते वयस्यसौधातकिः । ( प्रविश्य ) विदूषकः -- ऐसो म्हि आअदो । १२५ राजा - - वयस्य अपि सुसूत्रं संविधानकम् । विदूषकः -- वेअस्स जस्स एसो सोदाअइ सइवो तस्सवि ते दुक्करं णाम । राजा- - वयस्य कथय कथं गतं संकेतं संगतम् । विदूषकः — अंत्थि दाव णोमाणिआए सह अहं इदो दो । राजा - अस्ति तत् । विदूषकः - दो इमस्स भवणस्स परोहिडमग्गेण पविद्धं पमदवणं । तहिं च पुव्वसंकेदिदा पमदवणपालिआ गंधमालिणी णामा दारं पालअंती ठिदा | १ एषोस्मि आगतः। २. वयस्य यस्यैषः सौधातकिः सचिवः तस्यापि ते दुष्करं नाम अस्ति तावन्नवमालिकया सह अहं इतो गतः । ३. ततश्चास्य भवनस्य पश्चान्मार्गेण प्रविष्टं प्रमदवनम् । ४ तस्मिंश्च पूर्वसंकेतिता प्रमदनपालिका गंधमालिनी नाम द्वारं पालयंती स्थिता । Page #139 -------------------------------------------------------------------------- ________________ १२६ विक्रांतकौरवे राजा - ततस्ततः । विदूषकः - तदो' अदाए सह पमदवणमग्गेण णिहुदणिहुदं सुदूरं गदं । जहिं अहं वि बहुलमहीरुहसाहासहस्स संवद्धिदादो अंधआरादो भीदमदो अंधो विअ णोमालिआकरं ओलंविअ खलंतचरणजुअलो कह कह दो । राजा - ततस्ततः । विदूषकः - पवि च तदो पच्छाअवउलसहआरपाडलचंप अवेडिअस्स बालुज्जणस्स मज्झे उम्मिसंतचंदमणिबद्धपाअफलअं णाम । तं च दंसा - विअ आअदणं गंधमालिणीए सह आअच्छदेत्ति भणिअ पमदवणपालिआए सह इदो पहाविऊण सअंवि तदो गदा तहिं एव्व तत्तहोदिं कासीअउत्तिं आदुं णोमालिआ । राजा -- साधु वयस्य साधु । क्वासौ प्रमदवनपालिका । विदूषकः - पैमदवणपक्खदुवारे एव्व ठिदा पडिपालेदि । नंद्यावर्तः - सर्व समंजसं । तदुत्थीयताम् । राजा -- यथाह वयस्यः । ( उत्तिष्ठति ) नंद्यावर्तः– आर्य सौधातके आदेशय प्रमदवनमार्गम् । १. ततश्च तया सह प्रमदवनमार्गेण निभृतं सुदूरं गतं । यस्मिन्नहमपि बहुलमहीरुहशाखासहस्रसंवधिता दंधकाराद्भीतभीत अंध इव नवमालिकाकरमवलंब्य स्खलच्चरणयुगलः कथं कथमपि गतः । २. प्रविष्टं च ततः प्रच्छायवकुलसहकारपाटलचंपकवेष्टितस्य वालोद्यानस्य मध्ये उन्मिषचंद्रमणिबद्धपादफलकं कौमुदी - गृहं नाम । तच्च दर्शयित्वा आपतनं गंधमालिन्या सह आगच्छतेति भणित्वा प्रम पालिका सह इतः प्रस्थापयित्वा स्वयमपि ततो गता तस्मिन्नेव तत्र भवतीं काशीराजपुत्रीमानेतुं नवमालिका । ३. प्रमदवन पश्चाद्द्वारे एव स्थिता प्रतिपालयति । Page #140 -------------------------------------------------------------------------- ________________ विदूषकः - ईदो इदो । राजा पञ्चमोऽङ्कः । ( सर्वे परिक्रामति ) - ( सोत्कंठं आत्मगतं ) अंगकैरमृतसेकसोदरैमन्मथाग्निमथितस्य ताम्यतः । खेलगामिनिविना विलंबिनां देहि देहि परिरंभणं प्रिये ॥ ३५ ॥ १२७. ( सोच्छ्वासं ) अये द्रष्टव्या स्वैरमय मे काशीराजसुता । अथवैते असकृदनुभूतसुलोचनादर्शनसुखे इदमन्यदक्षिणी प्रार्थये ( ससांत्वनं ) हे लोचने पतिमभूद्युवाभ्यां चिरं प्रियाया वदनारविंदम् । पिपास्यमानस्य मयाधरस्य क्षणं तिरोधानमपि क्षमेताम् || ३६ | यद्वा । प्रियतमासंभावनायामपराद्धे इमे चक्षुषी नूनं पात्रं बहुमानस्य । तथाहि aur क्रोधो धैर्य विनयमिति वा सैव शरणं न यांती सा कांता पदमपि युवाभ्यामनुसृतो । दृशौ तां चेल्लप्स्ये दृढमय परिष्वज्य न चिरं युवाभ्यां दास्यामि स्तनतटपरीणाहविहृतिम् ॥ ३७ ॥ अथवा सुदुर्जये इमे मया लोचने । कुतः । कुर्यां यद्युपगूहनं मृगदृशोऽनुच्छ्रासमन्नस्तनं नन्वस्ति स्फुरिताधरे मम दृशोः स्वेच्छाविहारो मुखे । १. इत इतः । Page #141 -------------------------------------------------------------------------- ________________ १२८ विक्रांतकौरवे तस्याश्चेदधरं पिबेयमदयं तत्रस्त एवायते नेत्रे नेत्रविलोभनाय विलुठत्पाठीनपारिप्लवे ॥ ३८ ॥ ( स्पर्श रूपयित्वा ) कथं प्रवृत्ताः एव प्रोषितजनधैर्यभंजननिर्दाक्षिण्या दाक्षिणात्याः प्रभंजनाः । ( सोद्वेगं )। इतश्चोलीचूडाविचकिलधनामोदसुहृदः सगंधाः कर्नाटीकुचकलशकाश्मीररजसाम् । मुहुर्माहाराष्ट्रीवदनमदिराघ्राणसरसा नभस्वंतः स्वांतं न हि विरहादाहं विदधति ॥ ३९ । विदूषकः-(पुरो निर्दिश्य ) एदं पमदवणदुवारअंएसा अगंधमालिणी' (प्रविश्य) प्रमदवनपालिका–जेदु कोरवेसरो। राजा-भद्रे गंधमालिनि आदेशय मार्ग बालोद्यानस्य । गंधमालिनी--इदो इदो। (सर्वे परिकामंति) नद्यावर्तः-(ऊर्ध्वं विलोक्य निर्वर्ण्य च ) कथमधुना गगनांगणरंग प्रविविक्षोः शशांकशैलूषस्य स्वच्छसुस्निग्धकौशेययवनिकास्तरणश्रियमुद्दहति श्वेतमानः प्राचीमुखे चंद्रिकास्तवकः । तथाहि । हरिकरिकरनिर्यच्छीकरासारगौराः पवनविधुतदूर्वाम्भोधिफेनायमानाः । अशरणपरिधावद्ध्वांतदत्तावकाशाः शशधरकरकंदाः सांद्रयंतींद्रकाष्ठाम् ॥ ४०॥ १. एतत्प्रमदवनद्वारकं । एषा च गंधमालिनी। २ जयतु कौरवेश्वरः। ३. इतइतः Page #142 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। १२९ राजा-(विलोक्य ) कथमिदानीमाखंडलदिग्वधूमुखमंडनस्य खंडि. तजनमानखंडनस्य वर्तते वर्धितमकरध्वजाभ्युदयः शीतदीधितेरुदयः । तथाहि । यचंद्रिकासहचरी प्रथमं प्रविष्टा । बद्धांधकारहननं गगनकभागम् । रक्तः शनैः प्रविशति स्वयमद्य शंके संकेतकेलिसदनं तदसौ शशांकः ॥ ४१ ॥ गंधमालिनी-केहं समुग्गदो एस णिस्संरतचंदाअवसंदोहसंबलिददसदिसाभित्तिओ। अणक्खलिदतिविरमसीचिक्कणणिम्मोक्खवलक्खिद. णक्खत्तकक्खिपेरंतो तुवरंतचेंचुआमणरहविद्धंसणणिस्सासो संसइदविरहिजणजीविदासंसो सम्मोसिदमाणिणीमाणणाससम्माणिददुव्विणीदपणइजणो जणिदजणणअणाणंदो चंदो । अज्ज हि-- णिसहणिअडरत्तं रत्तिणाहस्स विंबं अणुकुणइ थणाण तुंगवेडालआणं । १ कथं समुद्गत एषः निस्सरश्चंद्रातपसंदोहसंवलितदक्षदिशाभित्तिकः । अनास्खलितप्रक्षालिततिमिरमषीपंकनिर्मोक्षवलक्षितनक्षत्रकक्षिकापर्यतः । त्वरमाणाभिसारि. कामनोरथविध्वंसननिश्वासः । संशयितविरहिजनजीविताशंसः, संमोषितमानिनीमाननाशसंमानितदुर्विनीतप्रणयिजनः जनितजननयनानंदश्चंद्रः । अद्य हि । २. निषधनिकटरक्तं रात्रिनाथस्य विंबं अनुकरोति स्तनानां तुंगव्रीडालयानाम् । अतिबहलहरिद्रालेपरज्यतां मदनरसनिधीनां चोलिकातरुणीजनस्य ॥ अथ च। नभोमंडपिकाविलसत्तारका मौक्तिका धृतिं दधति । विस्तारितचंद्रातपचंदोपकबद्धप्राग्भारः ॥ Page #143 -------------------------------------------------------------------------- ________________ १३० विक्रांतकौरवे अइवहलहलद्दीलेवरज्जंतआणं अणरसणिहीणं चोलिअज्झाजणस्स ॥ ४२ ॥ अह अ । हमंडविआविलसंततारआ मोत्तिआ दिहं दहइ । वित्थारियचंदावह चंदोव अबद्धपब्भारा ॥ ४३ ॥ विदूषकः - केहं एहिं अदिवाहिदंधआरपाउससमओ । सारसावडंतगहगणकुटुंबपरिवारो उद्धवपेच्छंतलोअलोअणसुहवइत्तओ । विअसंततारआतामरअकुसुमणिअरं ओगाहेदि गअणसरं सिसिरं सुरा अहंसो । राजा -- अहो निरंकुशता शशांकरोचिषाम् । तथाहि रभसकृतविकाशः काममुक्ताट्टहासः सुरपथपटवासोऽनल्पकर्पूरधूलिः । विशदयति दिगंतानिंदुपादप्रसारः कलुषयति तु चिंतां केवलं प्रोषितानाम् ॥ ४४ ॥ अथवा पृष्टव्यमेतत् । तमम्समस्तं ग्लपयन्नभीषुभिविभावरीवल्लभ विश्वतोमुखैः । तमः किमेतत्स भवानुपेक्षते प्रवासिनामांतरमात्मनापि च ॥ ४५ ॥ १. कथमिदानीमतिवाहितांधकारप्रावृट् समयः सदृशापत दूग्रहगणकुटुंबपरिवारः · ऊर्ध्वोर्ध्वपश्यल्लोकलोचनसुखा यितृकः विकसत्तारकातामरसकुसुमनिकरमवगाहते गगनसरः शिशिरांशुराजहंसः । Page #144 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। १३१ यदि वा तिष्ठतु वराकाः प्रवासिनः स्वशरीरे तु दत्तप्रवेशं तमः किमस्य शोभायै कल्पते । अथवा भवतु विज्ञातं । सजलजलदनीलविषि पिंषन्मयूखैरुडुपतिरमृतांभःपूरगौरैस्तमांसि । स्ववपुषि तम एतल्लग्नमुन्मार्टि नासौ शरणमुपगतानां हिंसिताको नृशंसः ॥ ४६ ॥ नंद्यावर्तः– (विलोक्य ) अयमरालमरालशिशुच्छदच्छविरपाकुरुते परितो नभः । शशिकरप्रकरः प्रसरन् जगत् गवलकंठकलालमिदं तमः ॥४७॥ ( निर्वण्य ) अहो सांद्रता चंद्रातपस्य । संप्रति रजनिसुरभिभूरिक्षीरनिष्यंदशुभ्रः किरणपरिकरोसौ रोहिणीवल्लभस्य । प्रसृत इव विभाति स्पर्शमात्रेण विघ्नन् ---विधुरविरहिदेहान् पारदासारपूरः॥४८॥ राजा प्रतिफलनमहार्घाः कामिनीनां कुचेषु । प्रतिनवधनसारक्षोदसंदोहसांद्राः। किमपि हृदि विकारं कुर्वते सर्वतोऽमी तरलतुहिनबिंदुस्यंदिनश्चंद्रपादाः ॥ ४९ ॥ कथं प्रत्यासन्ने प्रियादर्शने मुहूर्तमात्रमपि विरहमसहमानस्तपत्येव नः शिशिरांशुः । अयि भोः। Page #145 -------------------------------------------------------------------------- ________________ १३२ विक्रांतकौरवे दुस्सहोपचितमन्मथव्यथानर्थशून्यशिशिरांशुशब्दनः । चंद्रपादपतितान प्रवासिनः ह्रेपयस्यकरुणः खरैः करैः ॥ ५० ॥ किंच रे तपन्ममांगानि शशांक शंके नावाप्स्यसि त्वं न पुराप्यवापः । सुलोचनाया वदनस्य साम्यं विलोचनैकांतविलोभनस्य ॥ ५१ ॥ अहो कठोरता चंद्रातपस्य । तपसि मम किमंगान्यंग चंद्रातप त्वं प्रकृतितपन यद्वा का कथा मद्विधेषु । ननु वहति कलंकाशंकर्मतः शशांकः स्वयमपि भवतैव प्रत्यहं तप्तविंबः ॥ ५२ ॥ नंद्यावर्तः - देव पश्य पश्य । तुलयति सुदृशामसौ शशी कुचकलशं घनचंदनार्चितम् । प्रियविरहविनिर्यंजनद्रवकलुषाश्रुनिपातकर्बुरम् ॥ ५३ ॥ अपर्यनुयोज्याश्च स्वभावा भावानां । कुतः । किमपकृतममुष्य चक्रवाकैः किमुपकृतं तुहिनार्चिषश्चकोरैः । व्यथयति विघटय्य चक्रवाकान् तृषमपहृत्य धिनोति यच्चकोरान् ॥ ५४ ॥ Page #146 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। राजा - हंत भोः रोहिणीजीवितेश्वर । प्रियाविश्लेषार्ते स्मरविशिखसंपातविधुरे १३३ न नाम त्वं कामं मयि कुरु घृणां मन्मथसख । विना हेतोरक्तान्यथ किमिति चक्राह्वमिथुना -- नुदस्यन् विस्रंसाद झटिति विघटय्य व्यथयसि ॥ ५५ ॥ ( अन्यतो विलोक्य ) निष्टापद्दतराजतद्रवखरांचंद्रातपान्नीरसान् किं यूयं पिबथ प्रसारितगलाः स्वैरं चकोरार्भकाः । यद्वा तापितरूप्यपिंडपरुषं विंबं गिलन्नैदवं युष्माकं सपरं निसर्गकठिनः स्वर्भानुरेवोपमः ॥ ५६ ॥ यद्वा रूप्यद्रव इत्यपि न पर्याप्तिस्तापस्य । कुतः । रूप्यद्रवो भवति नायमितः प्रसर्पनूष्मायते स पतितः कियतो मुहूर्तात् । इंदुर्विलीनतनुरात्मन एव तापात् ज्योत्स्नी भवत्यपरथा कृत ईदृमौषधम् ॥ ५७ ॥ नंद्यावर्तः– देव पश्य पश्य । परिभ्रश्यदवश्यायलेशग्रथितःपल्लवाग्रस्य संफुल्लमल्लिकावल्लीवेल्लित कंकेलिस्कंधस्य केलिदो हलविलासिनीविभ्रमपरिरंभरससमुज्जृंभमाणकुरबकस्तबक कदंबकस्य लंबमानसरससहकारकिसलयविडंबितवनिताललितकरतलसौकुमार्यस्य विक्रीयमाणबहलसौरभसंभावित - समीरणस्य रणरणकविवृद्धिकदर्थ्यमानमानिनीसंतानस्य वसंतवासभवनस्य निरालस्यवर्धितमन्मथप्रमदस्य प्रमदवनस्य परा लक्ष्मीः । अत्र हि ज्योत्स्नावगाहशिशिरः सहकारगांधनिष्यंदमानव कुला सववासितोसौ । Page #147 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे वायुर्ददाति विरहन् कमपि प्रमोदमामोदमानकुमुदाकरसौरभाः ॥५८॥ राजा च्यातन्मधुलवनिकरा निकारसहकारिणोत्र सहकाराः। प्रमदाविरहार्तानां प्रमदवनमिदं प्रमादाय ॥ ५९॥ ( स्पर्श रूपयित्वा ) कथमसावपि परितापहेतुरपर एव चंद्रातपो मातरिश्वा । अथवा । अंगानि काशिदुहितुर्नवचंद्रकांतनिष्यंदघृष्टहरिचंदनशीतलानि । स्पृष्टानि नैव भवता पवमान नूनं नोचेदसौ तव कथं परितापभारः ॥६०॥ इत्थं च मे विकल्पयति चेतः । इयं तु तप्ता विनिपत्यचंद्रिका वहत्यमुष्मिन् पवने घनोष्मणि। अयं तु तप्तः सहसावगाहना दिहैव चंद्रातपमुर्मरानले ॥ ६१ ॥ अयं च मे तर्कः। केवलं लोकविख्यातां वायोरग्निरिति श्रुतिम् । वायुरुष्णो वमन्नग्निं सत्यं सत्यापयत्यसौ ॥ ६२ ॥ अथवा साधु वेदितम् । असौ वहन्नेव सुदुस्सहं दहन देहिनां श्रांतिहरः समीरणः । Page #148 -------------------------------------------------------------------------- ________________ पश्चमोऽङ्कः। mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmwww. स नूनमूर्ध्वज्वलनं विभावसु विहाय तिर्यग्बलनेन वर्तते ॥६३॥ अथ किमद्यापि दूरस्थैव प्रिया । विदूषकः--णं इदं णिअड एव्व वालुज्जाणं। एसु खु तस्स णिअडष्टिदो विहरणणिम्माणविअडाणअंवो तुहिणअराकरणसंभेदपक्खरंतचंदमणिसलिललच्छिणिज्झरदुव्वंतसिसिरसीअरधूलीधूसरिअपरेंतपवणो पल्लविदकोमलदूव्वंकुरं विव मरगअत्थलेसु पलितं विव पोमराअमाणकुट्टिमेसु, उम्मिसिदं विव वेलुरिअपत्थरेसु किसलइदं विव पवालतडेसु दिण्णं विव फलिहप्पलहेसु गुच्छं विव मतिअतलेसु णिअलच्छणपहाकरंविदं विव महाणीलभूमिसु चंदाअवं दंसअंतो केलिरोहणो णाम कीलापव्वदओ। नंद्यावर्तः–(निर्वर्ण्य ) देव पश्य । केलिरोहणमणिस्थलेष्विमा । रोहिणीपतिमरीचिपंक्तयः । वर्तयंति परिवर्तचित्रिताः पाकशासनशरासनं भुवि ॥ ६४॥ राजा-(निर्वर्ण्य साशंकं ) ... . अत्रसत्रपमकंपनात्मजा केलिकौतुकहता किमद्य हि । केलिरोहणतटाधिरोहणं मत्कराप्तिकरा करिष्यति ॥६५॥ १. नन्विदं निकट एव वालोद्यानं । एष खलु तस्य निकटस्थितो विहरणनिर्माणविकटनितंबो तुहिनकरकिरणसंभेदप्रक्षरच्चंद्रमणिसलिललक्ष्मीनिझरदूयमानशिशिरशीकरधूलिधूसरितपर्यन्तपवनः पल्लवितकोमलदूर्वांकुरमिव मरकतस्थलेषु प्रदीप्य. दिवपद्मरामाणिकुहिमेषु उन्मिषितमिव वैडूर्यप्रस्तरेषु किसलयितमिव प्रवालतटेषु दीर्णमिव स्फटिकफलकेषु गुच्छमिव मौक्तिकतलेषु निजलक्षणप्रभाकरंबितमिव महानीलभूमिषु चंद्रातपं दर्शयन् केलीरोहणो नाम क्रीडापर्वतकः । Page #149 -------------------------------------------------------------------------- ________________ विक्रांत कौरवे गंधमालिनी - ईदोवि एसा वालुज्जाणपरिसरवाहिणी अमरतरंगिणी णाम लीलादिग्धिआ दक्ख देव दिण्णदाणपुण्णपवाहमअक्कपहुज्जला चंदअंतफलअपवहंत णिज्झरपरिमिलिअउम्मिआ उम्मिसंतकुमुदव्य पढिच्छाओंतरिअलोआणइ उपगइ अमअतरंगिणी | १३६ नंद्यावर्त :- इतोपि दीयतां दीर्घिकापरिसरे दृष्टिः । अत्र हिचंचुदष्टवरटाः कलहंसा: सैकतां तलिमे च शयानाः । ज्योत्स्नायैव शनकैर्निजशाखाशायिताः पुलकयंति मनांसि ॥ ६६ ॥ राजा - (निर्वर्ण्य ) । अमृततरंगिणीनिजतरंगसितासिशतेः शिशिरमरीचिदीधितिनिमीलितपद्मवदना । सरसीरुहां द्विषन्निति विदारयति प्रकटं निपतितविंबमंभसि निशाधिपतिं शतशः ॥ ६७ ॥ विदूषकः - ऐसो इमादा । ( सर्वे परिक्रामति ) गंधमालिनी - एदं खु महमहिअवहलव उलपरिमलवलइदस अलपमदवणं । विआसुंमहकडोरपाडलामअरंदणिम्महिअसरसगंधबंधुरं । णिब्भरवि १. इतोपि एषा वालोद्यानपरिसरवाहिनी अमृततरंगिणी नाम लीलादीर्घिका । पश्य देव दत्तदानपुण्यप्रवाहमयैकप्रभोज्जला चंद्रकांत फलकप्रहृन्निर्झरपरिमिलितोर्मिका उन्मिषत्कुमुदेव प्रतिच्छायांतरितलोचनानि उपगृह्णाति अमृततरंगिणी 1 २. एष...। ३. एतत्खलु सुगंधिबहलबकुलपरिमलवलयितसकलप्रमदवनं, विकासोन्मुखकठे।रपाटलामकरंद निर्मथितसरसगंधबंधुरं, निर्भरविकसन्नवमालिकावासितद शदिशं जृंभमाणपुन्नागमधुरसार्दितमारुतं, अविरलदलत्कुमुदवनप्रच्छदसंछन्नसरोवरं वालोद्यानं । Page #150 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । १३७ अलंतणोमालिआवासिददसदिसं । जब्भाअंतपुण्णाअमहुरसतराणाअमारूअं । अविरलदलंतकुमुअवणपच्छदसंछण्णसरोवरं वालुज्जाणं । नंद्यावर्तः -- अहो रमणीयता वालोद्यानस्य । अत्र हि आसवैरनिलमार्द्रयत्यमुं चारु भासुरयतीह केसरः । सौरभेण सुरभीकरोत्यसौ कौमुदीषु सरसीषु कौमुदी ॥ ६८ ॥ राजा -- बकुलतरवः सांद्रप्रोत्सर्पकौसुमसौरभाः किमपि सुरभीकुर्वत्येते भ्रमद्भ्रमरं नभः । अथ च कथयाम्येतैर्नक्तं दिवं प्रविकस्वरैः चिरसुरभिभिर्बाद कालोप्यसौ सुरभीकृतः ॥ ६९ ॥ ( अन्यतो विलोक्य ) इतोपि च । पाटलीजरठकुइमलरंधप्रस्खलद्बहलसौरभलुब्धाः । निर्भरं मधुलिहो लिहतेऽमी धूनिताननममूनि मधूनि ॥ ७० ॥ विदूषकः - भो' वअस्स कुदो एदाइ णिब्भलकुसुमिदाइ पाडलाइ वणाअंते । णिअमूलपलंवपरिपक्खखलिदेहि दीहरबाहुजुअलपरिरंभणिज्जपरिणाहेहि पसरंतसुरभिगंधघुराघुराइदजीहेहिं फलसहस्सेहिं दंसणिज्जो उववणालंकारो तुमे पणसो ण वणिज्जदि । 1 १. भो वयस्य कुतः एतानि निर्भरकुसुमितानि पाटलानि वर्ण्यते । निजमूलप्रलंबपरिपक्षस्खलितैः दीर्घबाहुयुगलपरिरंभणीयपरिणाहैः प्रसरत्सुरभिगंधघुरघुरायितजिह्वैः फलसहस्रैः दर्शनीयः उपवनालंकारः त्वया पनसो न वर्ण्यते । Page #151 -------------------------------------------------------------------------- ________________ १३८ विक्रांतकौरवे राजा-( सस्मितं ) इदं वर्ण्यते । कथं पनसकेवलं सुमधुराणि पुष्पैर्विना फलानि फलता त्वया फलविपाकमूकस्समः। चरच्चदुलचंचरीकचरणाहतोच्चावच प्रकीर्णसुमनोरजः पटलपाटलः पाटलः ॥७१ ॥ नंद्यावर्तः-शोभनं सुभाषितम् । गंधमालिनी-इदं खु अग्गदो कोमुदीघरअं। नंद्यावर्तः–आर्य सौधातके अग्रतो भव देवस्य । यावदहमत्रैव प्रतिपालयन् तिष्ठामि । विदूषकः-तेह करीअदु । गंधमालिनी-अहंपि अ इदो सहीणिओए वढेमि । विदूषकः-तेण हि तुमं अज्जणंदावत्तस्य सहाआ होहि । (गंधमालिनी सस्मितं नंद्यावर्तेन सह निष्कांता) विदूषकः-इंदो इदो पिअवअस्सो। (परिकामतः) (ततः प्रविशति सुलोचना नवमालिका च ) सुलोचना–संहि णोमालिए सच्चं एव्व तुए दिवो अक्खदसरीरो अज्जउत्तो। नवमालिका-सँहि कीस संकेसि ण खु सो तारिसो तदो एव्व सवरकलहमीदाए मइ हत्थे तुह दिण्णो भट्टिणा संदेसो । जह । ( संस्कृतमवलंब्य)। १. एतत्खलु अग्रतः कौमुदीगृहम् । २. तथा करोतु । ३. अहमपि च इतः सखीनियोगे वर्ते । ४. तेन हि त्वं आर्यनंद्यावर्तस्य सहाया भव । ५. इत इतः प्रियवयस्यः । ६. सखि नवमालिके सत्यमेव त्वया दृष्टः अक्षतशरीरः आर्यपुत्रः। ७ सखि कस्मात् शंकसे न खलु स तादृशः तत एव स्वयंवरकलहभीताया मम हस्ते तव दत्तो भर्चा संदेशः । यथा । Page #152 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । द्वित्रा घटीर्गमय मां प्रतिपालयंती कः कौरवं युधि पुमानभियोक्तुमीष्टे । तच्चारु हासिनि मनागपि नाम शंका मा भूदकंपनसुवासिनि मत्कृते ते ॥ ७२ ॥ सुलोचना -- केहिदं एव्व तुए किंतु समस्सासमेत्तकंति मए विससिदं । नवमालिका – जंइ ण विस्ससिसि एहिं एव्व सअं दट्ठूण तं विस्स सेहि । सुलोचना - संहि णोमालिए जइ सच्चं एव अज्जउत्तो इद आअमिस्सदि कहं किर अग्गदो तस्स चिमि । नवमालिका – अंदिउज्जए किं इमाए ण कदाइ अवसाणं लज्जाए । सुलोचना - तेणें हि एसा परितेजेमि लज्जं तुमं पुण तस्सिं आअदे अग्दो भविअ मं अंतरेहि । नवमालिका--( सस्मितं ) अंतरेमि जइ तुमं णिगलं देसि । - सुलोचना – सहि कीस उवहससि । एसा अहं ह्निकाण तुह उत्तरं । नवमालिका – जइ ण मए जप्पसि तेण एव्व वाहिता भणाहि । १३९ १. कथितं एव त्वया । किं तु समाश्वासमात्रकमिति मया न विश्वसितम् । २. यदि न विश्वसिसि इदानीं स्वयमेव दृष्ट्वा तं विश्वस । ३. सखि नवमालिके यदि सत्यमेवार्यपुत्र इत आगमिष्यति । कथं किल अग्रतः तस्य तिष्ठामि । ४. अत्युत्सुके किमस्याः न कदाचिदवसानं लज्जायाः । ५. तेन हि एषा परित्यजामि लज्जां त्वं पुनः तस्मिन् आगते अग्रतो भुत्वा मां अंतरय । ६. अंतरयामि यदि त्वं निगलं ददासि । ७ सखि कस्मादुपहससि एषा अहं तूष्णीका न ददामि तवोत्तरम् । यदि न मया जल्पसि तेनैव व्याहृता भणस्व । ८. Page #153 -------------------------------------------------------------------------- ________________ १४० विक्रांतकौरवे सुलोचना-हलो किं मए तस्स अग्गदो जप्पिदव्वंपि । नवमालिका–णेहि णहि जहागदं वाहुडिअ गंतव्वं । सुलोचना--तेण हि एहि गच्छामि । नवमालिका-हिअएण भणाहि । सुलोचना-(सेयं ) सेंहि भएमि तुए सह खणंपि अत्थिर्नु । नवमालिका-मां भआहि सो एव्व दे सहाओ भविस्सदि । विदूषकः-एँदं कोमुदीघरअं । एसा अ तहिं पविहा णोमालिआए सह कासीराअउत्ति। राजा-( दृष्ट्वा सोत्कंठं )। उत्कंठानां बीजंमनोरथानां परिभ्रमस्थानम् । हृदयस्य समुच्छ्रसितं तदिदं मम सपदि सन्निहितुम् ॥ ७३ ॥ वयस्य यावदस्यामेव वकुलपादपच्छायायां वर्तमानाः स्वैरालापमस्याः शृणुमः । विदूषकः--जं वअस्सस्स रोअदि । (ततः कुरुतः) सुलोचना-असमं जसभासिणी एसा अहं तुह पासादो गच्छामि । ( कतिचित्पदानि गच्छति ) १. सखि किं मया तस्याग्रत जल्पितव्यमपि। २. नहि नहि यथागतं व्याहृत्य गन्तव्यम् । ३. तेन हि एहि गच्छामि । ४ हृदयेन भणख । ५. सखि बिभेमि त्वया सह क्षणमपि आसितुं । ६. मा बिभ्यस्व स एव ते सहायो भविष्यति । ७. एतत्कौमुदी गृहं एषा च तस्मिन् प्रविष्टा नवमालिकया सह काशीराजपुत्री । ८. यद्वयस्यस्य रोचते । ९. असमंजसभाषिणि एषा अहं तव पा. वतो गच्छामि। Page #154 -------------------------------------------------------------------------- ________________ पश्चमोऽङ्कः । १४१ नवमालिका-ऐसा उण अहं ण णिवारेमि सो एव्व आअदुअ तुमं णिवारेदु। - राजा-सखे अयमवसरः यावदुपसर्पावः । (उपसर्पतः) नवमालिका-( दृष्ट्वा ) भट्ट एसा खु पिअसही चिराइदं तुम्हेहिति कुविदा णिग्गच्छेदि । ता णिवारीअदु । सुलोचना- ( सलज्जं सहर्ष च ) अम्हो अज्जउत्तो। राजा-सरले कृतं कुपितेन । ( हस्ते गृह्णाति ) (सुलोचना सलजं मोचयितुमिच्छति) विदूषकः-कहं वअस्सेण गहिदं वि हत्थं मोएदुं इच्छसि । इमस्स उण बाहुसारं तुम्हाणं विअ तुए जामातुणो अक्काकत्तिणो हत्था. पुच्छिअंतु। राजा-अयि मुग्धे कुतो हस्तमाक्षिपसि । कृतं वीडितेन । इयं परिम्लानमृणालकोमला तवांगयष्टि शमद्य ताम्यति । तदेव लज्जाव्यसनं विमुंचती ममावलम्बस्व करं नितंबिनि ॥ ७४॥ विदूषकः-लेद्धं मणोरहाणं फलं वअस्सेण अ अत्तहोदीए अमए उण एक्केण एत्तिअंमि भूइडमिटफले वणे एकवि फलं ण लद्धं । १ एषा पुनरहं न निवारयामि स एवागत्य त्वां निवारयतु । २ भर्तः एषा खलु प्रियसखी चिरायितं युष्माभिरिति कुपिता निर्गच्छति । ३ अहो आर्यपुत्रः । ४ कथं वयस्येन गृहीतमपि हस्तं मोचयितुमिच्छसि अस्य पुनर्बाहुसारं युष्माकमिव त्वया जामातुः अर्ककीर्तेः हस्ता पृच्छेताम्. ५ लब्धं मनोरथानां फलं वयस्येन च अत्रभवत्या च मया पुनरेकेन एतावन्मात्रे भूयिष्ठमृष्टफले उपवने एकमपि फलं न लब्धं । Page #155 -------------------------------------------------------------------------- ________________ १४२ विक्रांतकौरवे । नवमालिका—( सस्मितं ) अरे बह्मबंधुअ किंसि तुवं फललालसचवलो मक्कडजाई। विदूषकः-(सरोषम् ) दोसीए दूए किं मं अदिक्खिवसि खलकुंट्टिणी एस गच्छेमि तुज्झ पासादो ( इति सत्वरं गच्छति ) नवमालिका-( सत्वरमनुगच्छती ) अज्ज मा कुप्पा एसा तुम पणवेमि । (निष्क्रांताः) सुलोचना-पिअसहि भएमि अहं इह एक्काइणी अत्थिदं । राजा-अयि कातरे किमियमेव ते सखी । अविरतमहं सेवे रंभोरु विद्यत एव मे तव चरणयोः श्रांतौ संवाहनेषु विदग्धता। सपदि शिरसा श्लाघ्यामाज्ञां वहामि नियोज्यतां प्रियसखि ममाप्या सख्यं प्रतीच्छ कृतोंजलिः ॥ ७५ ॥ (सुलोचना लज्जां नाव्यति) राजा-प्रिये किमिदानीमपि लज्जितव्यं । (चिबुकमस्याः उन्नमयन्) समुच्छसत्कैरवकोमलत्विषोदातु मोदं तव चंद्रिकामृतम् । इदं दृशोरद्य चकोरलोचने चकोरयूथप्रियकापिशायनम् ॥ ७६ ॥ (सुलोचना सलज्जं मुखं नमयति)। १. अरे ब्रह्मबंधुक किमामि त्वं फललालसचपलो मर्कटजातिः । २. दास्याः दृति किं मामधिक्षिपसि खलकुहिनी एष गच्छामि तव पार्श्वतः । ३. आर्य मा कुपः एषा त्वां प्रणमामि । ४. प्रियसखि बिभेमि अहं इह एकाकिनी आसितुम् । Page #156 -------------------------------------------------------------------------- ________________ राजा ――― पॅञ्चमोऽङ्कः । लब्धं किल प्रियसखी तव दुर्विमोचमिष्टं मया त्वमपि मुंच मुहूर्तमेनाम् । रंभोरु देहि परिरंभसुखं सकृन्मे तिष्ठतु तावदपरे तु मनोरथा नः ॥ ७७ ॥ १४३ ( नेपथ्ये ) सेहि णोमालिए णोमालिए समासण्णो खु भट्टिदारिआए रदणमालाए कोदुअबंधमुहुत्तो । ता सिग्धं भट्टदारिअं आणेहि । ( प्रविश्य विदूषकेण सह नवमालिका ) नवमालिका - संहि एसा हु सरलिआ रदणमालाकोदुअबंधदंसणत्थं अम्हे सावेद | सुलोचना - वैच्छाए रदणमालाए कोदुअबंधो वट्टदित्ति आपीदं कण्णरसाअणं । नवमालिका -- अण्णेसाद अ तुवं महादेवी पहावदी । ता इदो सिग्गं एहि । सुलोचना - ( आत्मगतं ) कैहं गंतव्वं । नवमालिका – भट्ट दाणिं गंतव्वं पिअसहीए अज्ज मुंचेहि कल्लं एव्व णं तुम्हाणं कोदुअबंधो । १. सखि नवमालिके नवमालिके समासन्नः खलु भर्तृदारिकायाः रत्नमालायाः कौतुक बंधमुहूर्तः तस्माच्छीघ्रं भर्तृदारिकामानय । २. साख एषा खलु सरलिकां रत्नमालाकौतुकबंधदर्शनार्थं अस्मान् शब्दापयति । ३. वत्साया रत्नमालायाः कौतुकबंधो वर्तते इति आषीतं कर्णरसायनं । ४ अन्वेषयति च त्वां महादेवी प्रभावती । तस्मादितः शीघ्रमेहि । ५. कथं गंतव्यं । ६. भर्तः इदानीं गंतव्यं प्रियसख्या अद्य मुंच काल्य एव ननु युवयोः कौतुकबंधः । Page #157 -------------------------------------------------------------------------- ________________ १४४ . विक्रांतकौरवे विदूषकः-( सहर्ष तुंडं परिमृज्य ) केहं कलं एव्व महवि सत्थिवाअणअं भविस्सदि। राजा-भद्रे कान्या गतिः । तथास्तु । (निष्क्रांता सुलोचना नवमालिका च ). राजा-( सविषादं ) अहो असहनता दैवस्य । न वाग्भिः श्राव्याभिः श्रवणयुगमाराधितमिदं न वक्षश्चाश्लेषनिबिडितकुचैः प्रीणितमभूत् । न सौहित्यं वांछाप्यधरमधुपानेन गमिता गता चासौ तूष्णीमहह सहसा हंसगमना ॥७८ ॥ विदूषकः-भो वअस्स कलं एव्व तुह्माणंपि कोदुअबंधो । ता किंति दाणिं अत्ताणं दूमसि । राजा-अहो कातरता हृदयस्य । तथाहि श्व एव नः कौतुकबंध इत्यमुं निशम्य वृत्तांतमिदं तु मे मनः । प्रियावियोगव्यथमानमंतरे दृढं पुनः कौतुकबंधमृच्छति ॥ ७९ ॥ (संतापमभिनीय ) कथं प्रियाविघटनलब्धप्रसरः प्रतनोत्येव यथापुरं रजनीचरतिग्मांशुं निशीथिनीनाथः । अथवा किमत्र दाक्षिण्येन । त्वमसि शिशिररश्मिः सन्निधौ शीतलांग्या यदि तदपगमे त्वं दर्शयेरद्य शैत्यं । अयि शशधर सत्यं दर्शयिष्यामी तीक्ष्णौ . . शिरसि तव शशस्य द्वौ विषाणौ विशंकम् ॥ ८०॥ १. कथं काल्य एव ममापि स्वस्तिवाचनकं भविष्यति । २. भो वयस्य काल्यमेव युवयोरपि कौतुकबंधः । तस्मात् किमिदानी आत्मानं धूमयसि । Page #158 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । १४५ विदूषकः -- ( आत्मगतं ) अहो दुप्पारपसराइ कामु अजणस्स आआसपरिदेविआइ । राजा - अये प्रचुरप्रतिपक्षसंक्षुण्णा प्रवासिनां प्रवृत्तिः । कुतः । क्षपानाथः सत्वं क्षपयति करैरुल्मुकखरैवसंत संतापं प्रगुणयति संत शिशिरम् । घनामोदाल्लब्धिश्वसितमथनैव श्वसनतः स्मरः प्रत्याख्यातो विरहिमनसां घस्मर इति ॥ ८१ ॥ विदूषकः- ( विलोक्य) वेअस्स समासण्णो पच्चूसो । ता इदो गच्छेमो । राजा - ( विभाव्य ) कथं विभातप्राया विभावरी । तथाहि चकोरैज्योत्स्नांभः कियदपि निपीतं परिपतत् पुटेष्वं भोजानां कियदपि निरुद्धं निमिषदाम् । वियोगार्तेः कोकैः कियदपि गतं पक्षविधुतं विशुष्कं संतप्तास्ववतनुषु शिष्टं विरहिणाम् ॥ ८२ ॥ सखे केदानीं नंद्यावर्तः । ( नेपथ्ये ) तो तो देवः । राजा - ( परिक्रमन् विलोक्य ) अयं च किंचित्प्रविसार्य पक्षं क्षपांतवातक्षणलब्धबोधः । १ अहो दुष्पारप्रसराणि कामुकजनस्य आकाशपरिदेवितानि । २ वयस्य समासन्नः प्रत्यूत्रः । तस्मादितः गच्छावः १० Page #159 -------------------------------------------------------------------------- ________________ १४६ ( अन्यतोऽवलोक्य) इतश्व | विक्रांतकौरवे सरोजनी सैकततल्पशायी हंसीं समाश्लिष्यति राजहंसः ॥ ८३ ॥ इयं च रात्रौ विरहव्यथार्ता कथंचिदासाद्य पतिं निशांते । तं सव्यलीकं किल मन्यमाना मुग्धा सुधा रुष्यति चक्रवाकी ॥ ८४ ॥ तिमिरनिकरशत्रोस्त्रस्नवः पद्मबंधोश्शरणमिव समेतास्स पद्मोदराणि । भ्रमरतिमिरकंदाः प्रोन्मिषयोऽम्बुजेभ्यः । सकरुणमिव मुक्ताः सांप्रतं निःपतंति ॥ ८५ ॥ (निष्क्रांताः सर्वे ) इति श्री हस्तिमल्लेन विरचिते सुलोचनानाटके संकेतगृहं नाम पंचमोऽङ्कः समाप्तः ॥ ५ ॥ Page #160 -------------------------------------------------------------------------- ________________ . षष्ठोऽङ्कः। १४७ षष्ठोऽङ्कः ॥६॥ color (ततः प्रविशति प्रतीहारः ।) प्रतीहारः-सुविहितं भोः प्रतिभावता काशीपतिना । येन तैस्तैश्च समुदाचारैः सुसत्कारपुरस्सरैः। न परं मोचितो बंधात् पौरवो दुर्ग्रहादपि ॥१॥ किंच। अनुपमगुणगूर्वी रत्नमालां प्रदाय प्रथमतरममुष्मै सत्कृतिप्रीणिताय । भरतपतिरनेन स्वैरमाराधितोऽभूत् स्वकुलमपि गरिम्णायोजि संबंधसारात् ॥ २॥ अपिच । जयश्रियो वीक्षणविभ्रमांजनं द्विषां च कृष्णीकरणं यशःश्रियः । मदांबु भूयः क्षरतां महीपतिः - सहस्रमस्मै करिणामदान्मुदा ॥ ३॥ किंच। अत्याजितत्वरितयानजितश्रमाणां दत्तानि पंचशतकानि करेणुकानाम् । अष्टौ शतानि कलभाः शुभलक्षणाढ्या श्चत्वारि सत्वरसलीलगताश्च बिक्काः ॥ ४ ॥ अपिच। श्लाघ्यावर्ताः पंचधाराभियुक्ताः सत्त्वोद्रिक्ताः काशिराजेन दत्ताः। Page #161 -------------------------------------------------------------------------- ________________ १४८ विक्रांतकौरवे Prammarmonm प्रांशूच्छ्रायाः षोडशास्मै सहस्रा ण्याजानेया वाजिनश्चाभिजाताः॥५॥ ततश्च । हृदयंगमामनर्धा स रत्नमालामवाप्य चारुगुणाम् । अमनुत भरताच्चतुर्दश रत्नेशादधिकमात्मानम् ॥ ६ ॥ प्रवृत्तं चेदं जगते हिताय रत्नमालाप्रदानं काशीराजस्य । अत्र हि दत्वा किमिच्छकमनेन चिरपदानं दौर्गन्यजातमखिलं जगतो निरस्तम् । दौर्गत्यमीदृशमभूत् सुहिते तु लोके यन्नार्थिनः क्वचिदपि द्रविणेन लब्धाः ॥७॥ इत्थं च निष्कांतारिभूतायां कार्यपदव्यामद्य पुनः काशरािजः सुलोचनां प्रदित्सति कौरवेश्वराय । आज्ञप्तं च युवराजहेमांगदेन, आर्य महेंद्रदत्त अद्य खलु वत्सायाः परिणयनं । तदिदानी प्रवर्त्यतां सिद्धायतनेषु महामहः । प्रगुणीक्रियतां च सकलमन्यत् संविधानकमिति । मया च यथाज्ञप्ति सर्वमनुष्ठितं यावदिदानीं युवराजाय निवेदयामि । (ततः प्रविशति हेमांगदः ।) हेमांगदः-अहो कीर्त्यनुरूपं चेष्टितमपि मेघेश्वरस्य । वाढमिहास्ति न सदृशो हास्तिनपतिना पराक्रमी लोके । येनापवाहितोसौ भरतसुतो दर्पगुरुभरतः । मेघेश्वराय सुलोचनाप्रदानादपि श्लाघ्यं चक्रवर्तिसुताय रत्नमालाप्रदानम् । Page #162 -------------------------------------------------------------------------- ________________ षष्टोऽङ्कः। तस्या हि चक्रीकृतं येन जये सुराणां चापं न पृथ्व्याः श्वशुरस्स चक्री। भद्रागुणैः श्लाध्यतमैः सुभद्रा श्वश्रूश्च विद्याधरलोकसारा ॥ ८॥ प्रतीहारः- ( उपसृत्य ) जयतु युवराजः । हेमांगदः-अपि वर्तितमनुष्ठितम् । प्रतीहारः-सर्व यथानियोगमनुष्ठितम् । हेमांगदः-किंच किंच। प्रतीहारः पंचोपचारचतुराः परमेश्वरस्य कुर्वति सर्वजगदभ्युदयाय पूजाम् । सूत्राणि कल्मषहराणि पठंति भूयः संभूय च स्तुतिविशेषविदोऽद्य भव्याः ॥९॥ हेमांगदः-सर्व शुभोद भगवदभ्यर्हणपुरःसरतया । प्रतीहारः-इदं चेदानीम् प्रलंबलंबूषविभूषितांतमुदावितानैरवदातशोभम् । हिरण्मयस्तंभविटंकनद्ध प्रकीर्णकं राजति राजवेश्म ॥ १० ॥ इतश्च समंततः संचरत्पर्युत्सुकपुरजनसंकुलमंकुरयति कौतुकं राजकुलं । अत्र हि सरसबकुलमाला केसराक्लिष्टदष्टेः कुचकलशविलेपैर्घाणमुन्मादयंति। Page #163 -------------------------------------------------------------------------- ________________ १५० विक्रांतकौरवे AAAAAAAAAAA मदनमदवदान्या मारुता कामिनीनां । विगलदलकचूर्णोदीर्णरोमांचरम्याः॥ ११ ॥ इतश्च पुनरासामावर्तमानानि स्वदंते । विकसितहसितांशुशीतलानि प्रतिहसितोच्छ्रसितस्तनांचितानि । कलमधुरवचांसि चेष्टितानि प्रमदसलीलकृतोपगृहनानि ॥ १२॥ इतश्च दीयतां चक्षुः । स्रस्तोत्तरीयसि चयोन्मिषितस्तनश्रीः पश्य स्तनांशुकधिया परिभुनपक्षा । मूर्छानखांशुचयसंवलितां करेण हारप्रभामसकृदाक्षिपतीह मुग्धा ॥ १३॥ हेमांगदः-(विलोक्य ) तदिदमलंक्रियते व्रीडितं विभ्रमण । प्रतीहारः-इतोपि पश्य प्रयांती मणिकुट्टिमेस्मिनश्यत्यसौ केसरदाममृद्वी । पुष्पोपहारस्खलनासहानि सीत्कारसिक्तानि शनेः पदानि ॥ १४ ॥ हेमांगदः-(विलोक्य ) अहो श्लाघ्यता सौकुमार्यस्य । प्रतीहारः-इतोपि पश्य । विलोक्य नीलाश्मतले विलोचने विनम्रगात्रा प्रतिविंबते पुरः । विवर्तपाठीनयुगाभिशंकया निवर्तयत्यन्यत आकुलं पदम् ॥ १५ ॥ Page #164 -------------------------------------------------------------------------- ________________ .. षष्ठोऽङ्कः । १११ हेमांगदः-(विलोक्य ) कमनीयेयं कातरा। प्रतीहारः-इतोपि दृश्यताम् । आमोदलोलुपमसौ भ्रमरं पतंतं व्याधुन्वति प्रियसखी कबरीनिवेशात् । भनेष्वथैनमलकेष्वसमीक्ष्य लीन माकाश एव दृशमाकुलयत्यलक्षाम् ॥ १६ ॥ हेमांगदः-(विलोक्य ) अहो चारुता विभ्रमस्य । प्रतीहारः-इतोपि पश्य । सुनिर्मलस्फाटिकभित्तिलग्नां ... छायां निजां वीक्ष्य सखीति बुध्वा । मुग्धा परिष्वज्य मुदा विलक्ष-. . . स्मितेन सिंचत्यधरोष्ठमेका ॥ १७ ॥ हेमांगदः-(विलोक्य ) सेयं सीमा मौग्धस्य । प्रतीहारः-इदं च विलोक्यताम् । सख्याः कपालफलके मुकुरावदाते संवीक्ष्य कापि निजमाननमायताक्षी। चूर्णालका प्रगुणयत्यपकीर्णचूर्णान् कर्णावतंसकुसुमं च विशेषकं च ॥१८॥ .... (नेपथ्ये, कलकलानंतरं )..... • चैतालिंकौ-विजयतां हास्तिनाधिपतिः । प्रथम: क्षरद्धारापूरक्षपितसुरवीथीपरिरया .. रयापातभ्रश्यद्भरतपृतनानादरभसाः। हुता येनांभोदाः शिखिनि विशिखांतोत्थितशिखे शिखारत्नं पुंसां स जयति जयः कौरवपतिः ॥ १९॥ पाता। Page #165 -------------------------------------------------------------------------- ________________ १५२ विक्रांतकौरवे द्वितीयः हताः कौलूताद्याः खरसमरसंमर्दमृदिताः स्थिरारुढग्रंथिर्भरतसुतमानोप्यपहृतः। यशो येन स्वच्छ मुहुरपहृतं सीम सुदिशा सुदुर्वारो धीरः कुरुकुलकुमारो विजयते ॥२०॥ (उभावाकर्णयतः) हेमांगदः-किमेतत् । प्रतीहारः-युवराज सोयमाक्लप्तकौतुकस्य प्रवेशः कौरबेश्वरस्य । ( अग्रतो निर्दिश्य ) युवराज इतः समाराधय चक्षुषी । लक्ष्मी विलासमणिदर्पणसंनिभेन राकामृगांकशुचिनातपवारणेन । आभाति सातिशयमात्मयशःप्रतान शुभ्रेण चामरयुगेन च कौरवेन्द्रः ॥ २१ ॥ यश्च आनाभिलंबितरलप्रतिबंधशोभी प्रत्युप्तमौक्तिकहिरण्मयकर्णपत्रः । अच्छिन्नचंदनसमालभनावभासी देहप्रभाकवलिताभरणप्रभो यः ॥२२॥ हेमांगदः-(विलोक्य ) अहो औदार्यमाहार्यस्य । आर्य गच्छामस्तातपादांतिकं । प्रतीहारः-इत इतो युवराजः । (परिक्रम्य निष्कांतौ) Page #166 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। शुद्धविष्कंमः। (ततः प्रविशति यथानिर्दिष्टो राजा सह नंद्यावर्तविशारदाभ्याम् ) राजा-(सौत्सुक्यं आत्मगतं ) अहो रमणीयविषमता नववधूविभ्रमस्य । यत्र हिकरस्पर्शोद्भिः पुलकमुकुलैः स्वेदसरसैः परिव्यक्तिः प्रेम्णः प्रणयपरिणामाद्विकसिताः। न दृष्टस्तिर्यग्भिर्न खलु परिरंभैरमृदुभिः . न संजल्पैः स्निग्धैर्न च वदनचंद्वैरुपहृतैः ॥२३॥ इदं च तत्र मोहनमुत्सुकायमानस्य मनसः । यदुत । वचः किंचिद्वक्राभिलषति निर्गुतुमसकृत स्फुरनंतर्लमस्थितितधरोष्ठः स्फुटयति । यतेते रज्यंतौ न खलु न दृशौ द्रष्टुमपि नस्त्रपाते रुंधाना चलयति कुतोपि त्वसहना ॥२४॥ किं च तत्र वर्ण्यते । प्रत्यालिंगनतोपि यत्र सुखदा स्रस्तावमुक्तौ करौ . वक्रंदोरपहार एव सरसो यत्रोपहारादपि । यत्र स्वादुरुदंचतोपि वचसो निश्वास एवाकुलः सोऽयं प्राणसमासमागमरसः प्राथम्यरम्यक्रमः॥२५॥ नंद्यावर्तः–इत इतो देवः। (परिक्रामंति) विशारदः-सखे नंद्यावर्त पश्य देवदर्शनलालसस्य पर्युत्सुकता विलासिनीलोकस्य । Page #167 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे अत्र हि-- अन्योन्यस्य स्थातुकामा पुरस्ताद दृष्टा देवमात्मन्यतृप्ताः। सख्यै सख्यै सादरं दर्शयंत्यः स्वैरं रुंध्य द्वाररंधं पुरंध्यः ॥ २५ ॥ अपि चासाम् । विकस्मरस्मेरकपोलपालीन्यमूनि यूनां नयनामृतानि । विभांति विस्फारितवीक्षितानि । मुखानि मुग्धायतलोचनानि ॥ २७ ॥ नंद्यावर्तः-( विलोक्य ) अहो अतिशयिता दर्शनौत्सुक्यस्य । न भृष्टं कर्णपूरं न चलनपतितं हेमताटंकपत्रं न त्रस्तं केशहस्तं न गलितकलनं रत्नकांचीकलापं । न त्रुट्यंतं च हारं गणयति सुरतव्यत्ययोन्मादितेव स्त्रीसंसत्संपतंती सपदि कुरुपतिं द्रष्टुकुत्कंठमाना ॥२८॥ विशारदः-सखे इतोपि पश्य । मंजीरशिंजितरसानुगतैरियं च संसज्यमानचरणा गृहकेलिहंसैः। देवावलोकनसमुत्सुकचित्तवृत्तिः स्थातुं न पारयति न त्वरयाभियातुम् ॥ २९ ॥ नंद्यावर्तः-(विलोक्य ) कथमायासिता तुलाकोटिभ्यां हंसगामिनी । विशारदः-सखे इतः पश्यापरं प्रेक्षणीयम् । अनया हि Page #168 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। त्यज्यते सपदि साभ्यसूयया पीवरस्तनभरावभुग्नया । कौतुकत्वरितयानुपातिता मेखला पदयुगस्य शृंखला ॥ ३०॥ नंद्यावर्तः-(विलोक्य ) कथं विमनस्का वराकी । विशारदः-सखे इतोपि दृश्यताम् । असावंससस्ते चिकुरनिचये व्यापृतकरा विमूढेवाक्षेप्तुं विगतमथ संव्यानवसनम् । विनिश्वासायस्तस्तनतठलुठन् मौक्तिकसरा जवादभ्यायाता जनयति दृशोः कामाप धृतिम् ॥ ३१ ॥ नंद्यावर्तः-(विलोक्य ) अहो चारुता चेष्टितस्य । विशारदः- इतोप्येताःव्यामिश्रान् कलमाक्षतरविकलैाविद्धसिद्धार्थकानाशीर्व्याहृतिपेशलाः कलगिरः प्रोद्यन्नखांशूज्ज्वलम् । लोलद्भिर्नयनांचलैः शवलितान् पत्युः कुरूणां तनौ लाजानां विकिरति कोमलहरिहूर्वीचितानंजलीन् ॥ ३२ ॥ ( अग्रतो निर्दिश्य ) देव पश्य पश्य । अवनिपतिपरीतामास्थितो भद्रपीठी मनुनिगदितषष्ठोपासकस्थाननिष्ठः। प्रमुदितपरिवारस्त्वां प्रतीक्ष्यायमास्ते प्रणयिजनसनाथः सादरं काशिनाथः ॥ ३३॥ राजा-(विलोक्य) गांभीर्यस्यांभसा राशिं प्रश्रयस्य प्रतिश्रयम् । महानुभावमेनं मे तातवत्पश्यतो दृशौ ॥ ३४ ॥ Page #169 -------------------------------------------------------------------------- ________________ १५६ विक्रांतकौरवे विशारदः - अहो महानुभावता महाराजस्य । क्षत्रांकुरेण कुरुणा हरिणा मघोनाप्येनं पुरा सह निवेषितमभ्यषिंचत् । प्रीतो युगादिपुरुषः स्वकरांबुजाभ्यामावर्जितैः कनककुंभभूतैः पयोभिः ॥ ३५ ॥ नंद्यावर्तः - एष रत्नमंडपस्य पादफलकमार्गः । तदवधार्य दीयतामितः पादो देवेन । ( राजा उभाभ्यां दत्तहस्तो यथोचितं परिक्रामति ) विशारदः - अहो नु खलु भास्वरकार्तस्वरघनखचितमसृणकुट्टिमस्य समीचीन चीनपट्टसंछन्नजांबूनदस्तंभ सहस्रसंभृतस्य समुल्लसदुल्लोचपल्लवितरुचिरचंद्रोपलकस्य मंदमारुतविधूयमान चंदनमालालंकृतमणितोरणकनककिंकिणीमुखरितमुखस्य मुखविनिहितविकचनालिकेरकुसुमगुच्छभरितशातकुंभशतोपशोभितस्य नातिप्रौढविरूढमंगलधान्यांकुरनिकरमंजरितरत्नपालिकापालिकंदलितस्य सुविभक्तमुक्तागुणपत्र भंगभंगितरंगितपताकिकापंक्तिपरिष्कृतस्य सविशेषदर्शनीयता रत्नमंडपस्य । नंद्यावर्त : - (निर्वर्ण्य ) अपि चात्र । हैयंगवीनाहुतिगंधपूतः कालागुरूणां गुरुरेष धूपः । वासेन नासैकरसायनेन व्यालिंपतीवाद्य निलिंपमार्गम् ॥ ३६ ॥ ( तत प्रविशति उपविष्टः सपरिवारो महाराजः प्रतीहारश्च ) राजा सकलमखिलतत्त्वोद्बोधनं तत्त्वमाद्यं हतनिखिलविकल्पं निष्कलं तत्त्वमंत्यम् । Page #170 -------------------------------------------------------------------------- ________________ .. षष्ठोऽङ्कः। १५७ तदधिगमसकामा योगिनश्चारु तेषां चरितमिति चतुष्कं मंगलं नः कृषीष्ट ॥३७॥ प्रतीहारः-(अग्रतोऽवलोक्य ) महाराज पश्य पश्य । प्रत्ययकोतुकबंधबंधुरनेपथ्यः प्रत्यासीदति परिणयनवेदिकां सोमप्रभसूनुः । य एषः नवमलयजचर्चासंसृजत्सिद्धशेषा विशदशदकशोधी शुभदंभोरुहाक्षः। मदनिभृतगजेंद्रोदारखेलप्रयातो . जनयति जनताया नेत्रकौतूहलानि ॥ ३८ ॥ महाराजः-( विलोक्य निर्वर्ण्य च ) अहो पैतृकमनुसरति कुमारः । तथाहि । आत्मा वै पुत्रनामैत्यनुभवपदवीमनुतेसौ श्रुतिर्नः कौरव्यं भव्यमग्रे यदनुकृतिकृतावर्तनं पश्यतो मे। तारुण्ये वर्तमानो वयसि शमनिधिनिर्विशंकं वयस्यस्साक्षात्सोमप्रभोसाविति मतिरधुना मन्यते धन्यमेनं ॥३९॥ नंद्यावर्तविशारदौ-एष महाराजः यावदुपसमिः ( उपसर्पति)। जयतु महाराजः। राजा-एष कौरव्यो जयः पूज्यपादानभिवादयते । महाराजः-वत्स चिरं जीव । प्रतीहारः-विजयतां कौरवेश्वरः । महाराजः--भो महेंद्रदत्त किमिदमिदानी प्रतीक्ष्यते । प्रतीहारः-महाराज सर्व सज्जं । पश्य Page #171 -------------------------------------------------------------------------- ________________ १५० विक्रांतकौरवे पठति सूक्तानि सदर्भसंस्तरप्रणीतहव्याशननव्यवेदयः । अमी यथासूत्रहुतानलत्रया स्त्रयीविशुद्धाः प्रथमे द्विजन्मनाम् ॥ ४०॥ अपिच शुभ्रग्रहाधिष्ठितकेन्द्रशोभितं तृतीयषष्ठायगतेतरगृहम् । वदति जामित्रविशुद्धमत्तनुं मुहूर्तमहायमुहूर्तकोविदाः ॥ ४१ ॥ अमी च । समुच्चरत्तूर्यनिनादसांद्रं प्रासादकुंचप्रतिशब्दमंत्रम् । शब्दांतराण्यंतरयत्यमीषा मुदोषणं मंगलपाठकानाम् ॥४२॥ इतोपि । गृहीतमांगल्यमनोज्ञमंडनामिहानयत्यानमिताननांबुजाम् । प्रमोदपारिप्लवमंजुजल्पितः सखीजनः संप्रति भर्तृदारिकाम् ॥ ४३ ॥ (ततः प्रविशति यथानिर्दिष्टा सुलोचना नवमालिका च) नवमालिका-ईदो इदो पिअसही । ( यथोचितं परिक्रामतः) १. इत इतः प्रियसखी। Page #172 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। राजा-(आत्मगतं ) कथं प्राप्तैव प्रिया । ( सापदेशं विलोक्यसौत्सुक्यमात्मगतं)। यावष विशोषमोत परितः कंठं प्रदिग्धच्छटः कर्पूरव्यतिषंगभूरिसुराभ कस्तूरिकाकर्दम । यावन्न स्तनयोरयं मलयजक्षोदस्त्यजत्यार्द्रता तावत्कौतुकि यद्यदिच्छति मनस्तत्तत्कथं ब्रूमहे ॥ ४४ ॥ इदं च पुनरपरमपत्रपायै धैर्यस्य । यत्किल आमुक्तकंकणमधीरदृशः प्रकोष्ठमेष गृहीतुमिममद्य कुतूहली नः । आमुंचती स्थगितसत्त्वबलावलेपो रोमांचसंचयमनुस्मरणेन हस्तः ॥४५॥ नवमालिका-पिअसहि एस महाराओ । जाव पणमेहि । (सुलोचना प्रणमति) महाराजः-(परिष्वज्य ) वत्से कल्याणभागिनी भव ( उत्थाय ) . प्रत्यासीदति कल्याणि वेला दैवज्ञचोदिता। प्रसीदति मनश्चैतत्प्रथमं शुभसूचनम् ॥ ४६ ॥ । तदिदानीम् । भंगारस्तावत् । प्रतीहारः-एष रत्नभंगारः । ( उपनमयति ) महाराजः-( गृहीत्वा ) इयं मया कौरवकैरवेन्दो तुभ्यं वितीर्णा गुणरत्नपूर्णा .१. प्रियसखि एष महाराजः । यावत्प्रणमस्व । Page #173 -------------------------------------------------------------------------- ________________ विक्रांतकौरवे सुलोचना स्वीक्रियतां च तस्याः स्वयं वृतेन प्रथमं वरेण ॥ ४७ ॥ तदिदानीम् वसुधारावार्षिते प्रतीच्छतु करप्रदानजलधारम् । गृह्णातु च करमस्या विगणितपृथ्वीकरादानः ॥४८॥ ( राज्ञो हस्ते सलिलधारामावर्ण्य हस्तमस्या अर्पयति) राजा-(गृहीत्वा । स्वगतं ) चिरेण विस्मारितविप्रलंभः संभोगशृंगारविशंखलोऽध । संकल्पकोट्या निबिडीकृतात्मा संकल्पजन्मा हृदि माद्यतीव ॥ ४९ ॥ महाराजः मूर्तित्रयोद्भूतिविशेषभूता रत्नत्रयात्मान इमेग्नयो वः । छत्राणि चक्राणि च संतु सिद्धयै । सिद्धार्चयापादितसंनिधीनि ॥५०॥ अपि च यस्य स्वयंभुवो नाभेब्रह्मणो विदुरुद्भवम् विश्वोत्पादलयधौव्यसाक्षी चास्तु शिवाय वः ॥५१ ॥ प्रतीहारः-- आकाशं मूर्त्यभावादघकुलदहनादग्निरुर्वी क्षमातो नैस्संग्याद्वायुरापः प्रगुणशमतया स्वात्मनिष्ठः सुयज्वा। Page #174 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। सोमः सौम्यत्वयोगादविरिति च विवुस्तेजसां सन्निधानाद्विश्वात्मातीतविश्वः स भवतु भवतां भूतये भूतनाथः ॥५२॥ महाराजः-इयं च ते वत्स निसर्गसिद्धेष्वर्थेषु क्षत्रियोचितमाचरितुं पुनरुक्तमाशास्महे । चतुयायी वृत्तः कुलमनघमव्याकुलमवनिहामुत्रापायादमलगुणमात्मानमव च । प्रजाः स्वास्त्रायस्व स्वमिव कुमतादूषितमतिः परं सामंजस्यं भज सदसतां रत्यरतिदम् ॥ ५३॥ राजा-एष गृह्णामि पूज्यपादस्य शिक्षाम् । नंद्यावर्तः-राजर्षे इयमस्माकं विज्ञप्तिः। मनुःप्राजापत्यः प्रथमतरमेतद्युगमुखे चरित्रं क्षत्राह यदवदधीति श्रुतिशते अमुष्मिन् निस्तंद्रः कुरुपतिरसौ साधु चरितं तथाप्येषा शिक्षा स्थिरयति परं प्रीणयति च ॥ ५४॥ विशारदः-राजर्षे साधु विज्ञप्तममुना । किंच । पुष्णंति कामितविशेषमनीषितार्थमायादयंति दुरितापगमं जनस्य । युष्मादृशां प्रशमपूतसमाधिभाजामाज्ञाक्षराणि शिरसा पठितानि तानि ॥ ५५ ॥ महाराजः-महाभाग किं ते भूयः प्रियमुपहरामि । राजासंबंधमीदृशमपास्य नवीकृतोसावस्मास्वनल्पशुभपंक्तिरनुग्रहो वः । ११ Page #175 -------------------------------------------------------------------------- ________________ १६२ विक्रांतकौरवे प्राप्तो मनोरथपदाभ्यधिकः प्रमोदो भूयं प्रियं मम किमस्ति गवेषणीयम् ॥ ५६ ॥ तथाप्येतद्भवतु । भूयाद्भूतेषु धर्मप्रकृतिरसुवतां निष्प्रकंपानुकंपा धर्म्य पात्रे विसृष्टयै व्ययनियतिवशादार्जयंत्वर्थमार्याः । संतानस्थापनायै विदधतु गृहिणः कामखेदापनोदं चेष्टतां चात्मनीना निरुपधिशुचये मोक्षसौख्योदयाय ॥ ५७ ॥ महाराज : -- एवमस्तु । वयं च संवित्प्रकाशकौटस्थ्यमयीं मायातिलंघिनीम् । अपवर्गस्य पदवीं त्रयीमाराधयामहे ॥ ५८ ॥ ( निष्क्रांताः सर्वे ) इति श्रीगोविंदभट्टस्वामिनः सूनुना श्रीकुमारसत्यवाक्यदेवरवल्लभोदयभूषणानामार्यमिश्राणामनुजेन कवेर्वर्द्धमानस्याग्रजेन कविना हस्तिमल्लेन विरचितः कौतुकबंधो नाम षष्ठोऽङ्कः समाप्तः ॥ ६॥ Page #176 -------------------------------------------------------------------------- ________________ ग्रंथकारस्य प्रशस्तिः । e:श्रीमूलसंघव्योमेंदुर्भारते भावितीर्थकृत् । देशे समंतभद्राख्यो मुनिर्जीयात्पदर्धिकः ॥१॥ तत्त्वार्थसूत्रव्याख्यानगंधहस्तिप्रवर्तकः। स्वामी समंतभद्रोऽभूद्देवागमनिदेशकः ॥२॥ अवदुतटमटति झटिति स्फुटपदुवाचाटधूर्जटेर्जिह्वा । वादिनि समंतभद्रे स्थितवति सति का कथान्येषाम् ॥ ३॥ शिष्यौ तदीयौ शिवकोटिनामा शिवायनः शास्त्रविदां वरेण्यौ। कृत्स्नश्रुतं श्रीगुणपादमूले ह्यधीतवंतौ भवतः कृतार्थों ॥ ४॥ तदन्वयेऽभूद्विदुषां वरिष्टः स्याद्वादनिष्ठः सकलागमज्ञः । श्रीवीरसेनोऽजनि तार्किकश्रीः प्रध्वस्तरागादिसमस्तदोषः ॥५॥ यस्य वाचां प्रसादेन हमेयं भुवनत्रयम् । तच्छिष्यप्रवरो जातो जिनसेनमुनीश्वरः ॥६॥ यद्वाङ्मयं पुरोरासीत्पुराणं प्रथमं भुवि । तदीयप्रियशिष्योऽभूद्गुणभद्रमुनीश्वरः ॥७॥ शलाकाः पुरुषा यस्य सूक्तिभिभूषिताः सदा । गुणभद्रगरोस्तस्य माहात्म्यं केन वर्ण्यते ॥८॥ Page #177 -------------------------------------------------------------------------- ________________ १६४ ग्रंथकारस्य प्रशस्तिः । यस्य वाक्सुधया भूमावभिषिक्ता जिनेश्वराः । तच्छिष्यानुक्रमायाते संख्येयो विश्रुतो भुवि ॥ ९ ॥ गोविन्दभट्ट इत्यासीद्विद्वान्मिथ्यात्ववर्जितः । देवागमनसूत्रस्य श्रुत्या सद्दर्शनान्वितः ॥ १० ॥ अनेकांतमतं तत्त्वं बहु मेने विदांवरः । नंदनास्तस्य संजाता वर्द्धिताखिलकोविदाः ॥ ११ ॥ दाक्षिणात्या जयंत्यत्र स्वर्णयक्षीप्रसादतः । श्रीकुमारकविः सत्यवाक्यो देवरवल्लभः ॥ १२ ॥ उद्यभूषणनामा च हस्ति मैल्लाभिधानकः । वर्धमानकविश्चेति षडभूवन् कवीश्वराः ॥ १३ ॥ श्रीमद्विपंगुडीशः कुशलवरचितः स्थानपूज्यो वृषेशः स्याद्वादन्यायचक्रेश्वरगजवशकुद्धस्तिमल्लाह्वयेन । गद्यैः पद्यैः प्रबंधैर्नवरसभरितैराइतोऽयं जिनेशः पायाम्नः पादपीठस्थलविकटलसत्पांड्यमौलिप्रभौघः ॥ १४ ॥ इति प्रशस्तिः । समाप्तमिदं नाटकम् । Page #178 -------------------------------------------------------------------------- ________________ पूर्वप्रकाशित ग्रन्थ । १ लघीयस्त्रयादिसंग्रह--इसमें भट्टाकलंकदेवकृत लघीयस्त्रय सटीक, आचार्य अनन्तकीर्तिकृत लघु सर्वज्ञसिद्धि और बृहत्सर्वज्ञसिद्धि, तथा अकलंकदेवकृत स्वरूपसम्बोधन इन चार ग्रन्थोंका संग्रह प्रकाशित हुआ है । मूल्य ।) २ सागारधर्मामृत सटीक-पण्डित प्रवर आशाधरका यह प्रसिद्ध ग्रन्थ उनकी भव्यकुमुदचन्द्रिका टीका सहित छपा है । मूल्य ।) प्रकाशित होनेवाले ग्रन्थ । - ४ पार्श्वनाथ चरित–महाकवि वादिराज सूरीकृत मू० ।-) ५ मैथिलीकल्याण नाटक-कवि श्रीहस्तिमल्लकृत मू० =) नोट-ग्रन्थमालाके सब ग्रन्थ बम्बईके सब जैन बुकसेलरोंके पास शोलापुर जैन बुकडिपोमें और दिगम्बर जैन पुस्तकालय सूरतमें मिल सकेंगे। निवेदकनाथूराम प्रेमी, मंत्री हीराबाग बम्बई। Page #179 -------------------------------------------------------------------------- ________________ प्रार्थनायें। १ इस ग्रन्थमालाका प्रत्येक ग्रन्थ लागतकी कीमतपर बेचा जाता है। ग्रन्थोंका उद्धार और प्रचार करना ही इसका उद्देश्य हैं । अतः प्रत्येक धर्मात्माको इसकी सहायता करना चाहिए और अपने मित्रोंसे कराना चाहिए। २ ग्रन्थमालाके लिए जो फण्ड हुआ है वह बहुत ही थोड़ा अर्थात् लगभग चार हजार रुपया है पर यह काम इतना बड़ा है कि इसके लिए कमसे कम ५० हजारका फण्ड ज़रूर होना चाहिए । इसलिए इसके फण्डकी रकम बढ़ानेकी ओर प्रत्येक धनीका लक्ष्य रहना चाहिए। __३ धर्मात्माओंको इसके प्रत्येक ग्रन्थकी कमसे कम २५ प्रतियोंके स्थायी ग्राहक बन जाना चाहिए । यदि पच्चीस पच्चीस प्रतियाँ लेनेवाले सिर्फ २० और दश दश प्रतियाँ लेनेवाले सिर्फ ५० ही ग्राहक इसके जम जायँ, तो इसके द्वारा सैंकडों ग्रन्थोंका उद्धार सहज ही हो सकता है । ग्रन्थोंकी कीमत बहुतही कम होती है, इस कारण उनकी दश पच्चीस प्रतियाँ खरीद लेना साधारण गृहस्थोंके लिए भी कुछ कठिन नहीं है। ___४ कमसे कम २५० प्रतियाँ खरीदने वालोंका फोटो और स्मरण पत्र इसके ग्रन्थोंमें लगाया जा सकता है, अतः इस ओर भी धनियोंको ध्यान देना चाहिए। ऐसा करनेसे धर्म और कीर्ति दोनोंकी साधना हो सकती है। ५ ब्याह शादी, जन्मोत्सव, प्रतिष्ठा, आदि प्रत्येक आनन्द कार्योंमें दान करते समय प्रत्येक जैनीको इस संस्थाका स्मरण रखना चाहिए और शक्तिके अनुसार जितनी बन सके उतनी सहायता इसकी करना चाहिए। हीराबाग पो. गिरगाँव-बम्बई ] [प्रार्थी-नाथूराम प्रेमी-मंत्री । Page #180 -------------------------------------------------------------------------- ________________ माणिकचन्द दिगम्बर - जैनग्रन्थमालाकी नियमावली | ि १ - इस ग्रन्थमालामें केवल दिगम्बर जैन सम्प्रदायके संस्कृत और प्राकृतिक भाषाके प्राचीन ग्रन्थ प्रकाशित होंगे । यदि कमेटी उचित समझेगी तो कभी कोई देशभाषाका महत्त्वपूर्ण ग्रन्थ भी प्रकाशित कर सकेगी । २– इसमें जितने ग्रन्थ प्रकाशित होंगे उनका मूल्य लागत मात्र रक्खा जायगा । लागतमें ग्रन्थ सम्पादन कराई, संशोधन कराई, छपाई, बंधाई आदिके सिवाय आफिस खर्च, व्याज और कमीशन भी शामिल समझा जायगा । ३ - यदि कोई धर्मात्मा किसी ग्रन्थकी तैयार कराईमें जो खर्च पड़ा है वह, अथवा उसका तीन चतुर्थीश, सहायतामें देंगे तो उनके नामका स्मरणपत्र और यदि वे चाहेंगे तो उनका फोटू भी उस ग्रन्थकी तमाम प्रतियोंमें लगा दिया जायगा । जो महात्मा इससे कम सहायता करेंगे उनका भी नाम आदि यथायोग्य छपवा दिया जायगा । ४ - यदि सहायता करनेवाले महाशय चाहेंगे तो उनकी इच्छानुसार कुछ प्रतियाँ जिनकी संख्या सहायता के मूल्य से अधिक न होगी मुफ्त में वितरण करनेके लिये देदी जायेंगीं । ५ - इस ग्रन्थमालाकी कमेटी द्वारा चुने हुए ग्रन्थ ही प्रकाशित होंगे । पत्रव्यवहार करनेका पता नाथूराम प्रेमी, हीराबाग, पो. गिरगांव, बम्बई । Page #181 -------------------------------------------------------------------------- ________________ माणिकचन्द- दिगम्बर जैनग्रन्थमालासमिति । ( प्रबन्धकारिणी सभाके सभ्य ) १ राय बहादुर सेठ स्वरूपचन्द हुकुमचन्द | २ तिलोकचन्द कल्याणमल । ओंकारजी कस्तूरचन्द | 19 "" " ܕ ३ ,, "" ४ सेठ गुरुमुखरायजी सुखानन्द । ५ हीराचन्द नेमिचन्द आ० मजिस्ट्रेट | ६ मि. लल्लूभाई प्रेमानन्द परीख एल. सी. ई. । ७ सेठ ठाकुरदास भगवानदास जौहरी । ८ ब्रह्मचारी शीतलप्रसादजी । ९ पं. धन्नालालजी काशलीवाल । १० पं. खूबचन्दजी शास्त्री । ११ नाथूराम प्रेमी ( मंत्री ) Page #182 -------------------------------------------------------------------------- _